गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 94, कुल 332 में से
संदर्भ में पढ़ें४ कण्डिका ] गोभिलगृह्यसूत्रे- ६३ यद्येकस्मिन्काल इत्युक्तार्थम्। पुनः पुनर्भूयोभूयः। अन्नं पच्येत अतिथ्यादि- बाहुल्यवशात्। तथापि सकृदेकवारमेव एतद्बलितन्त्रम्बलिवरणं कुर्यात् न प्रति- पचनमित्यर्थः ॥ २३ ॥ भ्रातॄणां भिन्नपाकत्वेऽपि मुख्यपाकादेव बलिहरणमित्याह- यद्येकस्मिन्कुले बहुधाऽन्नं पच्येत गृहपतिमहानसादेवैतद्व- लिकर्म्म कुर्वीत ॥ २४ ॥ यदि-एकस्मिन्कुले गृहे एकपाकोपजीविभ्रात्रादिवर्गेवा। तथाच मेदिनी “कुलं जनपदे गोत्रे सजातीयगणेऽपि च। भवने च तनौ क्लीबम्” इति ॥ बहुधा बहुप्रकारेण ( बहुषु महानसेषु ) अन्नं पच्येत कुतश्चित्कारणात्कदाचि- द्भ्रातृपुत्रादीनां भोजनसौकर्यार्थं वा, तर्हि एषां यो गृहपतिस्तस्य महानसादेव [