गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 116, कुल 600 में से
संदर्भ में पढ़ें७८ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० २ स्नायात्तेन तां श्लाघामवरुन्धे, याऽस्याप्सु भवति स ह स्नातः श्लाघीयोऽन्येभ्यः श्लाघ्यते । अथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास्तान्नयान्नोदैक्षतैरैति वेति मुखं विपरिधापयेत्तेन तद्रूपमवरुन्धे, यदस्य कुमार्यां भवति तं ह स्नातं कुमारीमिव निरीक्षन्ते । अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत्तेन तं पुण्य गन्धमवरुन्धे, योऽस्यौषधिवनस्पतिषु भवति स ह स्नातः पुण्यगन्धिर्भवति ॥२॥ कण्डिका २ ॥ ब्रह्मचारी के सात मनोरागों का दमन आदि कर्त्तव्य ॥ ( जायमानः ह वै ब्राह्मणः सप्त इन्द्रियाणि अभिजायन्ते [ अभिजनयति ] ब्रह्मवर्चसं च यशः च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं सप्तमम् ) उत्पन्न होता हुआ [ उपनयन आदि संस्कार किये हुये ] ही ब्राह्मण [ ब्रह्मचारी ] सात इन्द्रियों [ मनोरागों ] को वश में करता है, ब्रह्मवर्चस [ वेद पढने का तेज ] १, यश २ स्वप्न [ नींद ] ३, क्रोध ४ घमण्ड ५, रूप ६, और सातवें पवित्र गन्ध को भी ७ । ( तानि ह वै एतानि अस्य ब्रह्मचर्यम् उपेतः अपक्रामन्ति ) वे सब ही इस ब्रह्मचर्य पाये हुये के दूर चले जाते हैं, ( मृगान् अस्य ब्रह्मवर्चसं गच्छति, आचार्यं यशः, अजगरं स्वप्नः, वराहं क्रोधः, अपः श्लाघा, कुमारीं रूपम्, ओषधि- वनस्पतीन् पुण्यः गन्धः ) मृगों [ सिंहों वा हरिणों ] को इसके वेद पढ़ने का तेज जाता है १, आचार्य को यश २, अजगर [ बड़े सांप विशेष ] को नींद ३, सूअर को क्रोध ४, जल को घमण्ड ५, कुमारी [ कन्या ] को रूप [ सुन्दरता ] ६, और ओषधि वनस्पतियों को पवित्र गन्ध ७ । ( सः यत् मृगाजिनानि वस्ते तेन तत् ब्रह्मवर्चसम् अवरुन्धे, यत् अस्य मृगेषु भवति, सः ह स्नातः ब्रह्मवर्चसी भवति, ) वह जो मृगछालायें पहिरता है उससे उस ब्रह्मतेज को पाता है जो उसका मृगों [ सिंहों वा हरिणों ] में होता है, वही स्नातक [ विद्या में स्नान किया हुआ ] ब्रह्मवर्चसी [ वेद पढ़ने से तेज वाला ] होता है । १ । ( सः यत् अहरहः आचार्याय कर्म करोति तेन तत् यशः अवरुन्धे यत् अस्य आचार्ये भवति, सः ह स्नातः यशस्वी भवति ) वह जो दिन दिन आचार्य २--( जायमानः ) उत्पद्यमानः । उपनयनादिसंस्कारं प्राप्यमाणः ( इन्द्रियाणि ) इन्द्रियमिन्द्रलिङ्गमिन्र्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ( पा० ५।२।६३ ) इन्द्र--घप्रत्ययः । इन्द्रियं धननाम--निघ० २ । १० । मनोरागान् । (अभिजायन्ते) अभि जनौ प्रादुर्भावे-श्यन्, ज्ञाजनोर्जा (पा० ७।३।७६) इति धातोः 'जा' आदेशः, आत्मनेपदस्य लटि बहुवचने रूपम् । अभिजनयति । अभिभवति । (ब्रह्मवर्चसम्) वेदाध्ययनतेजः ( श्लाघाम् ) श्लाघृ कथने-अङ्, टाप् । आत्मस्तुतिम् । दम्भम् ( रूपम् ) सौन्दर्यम् ( उपेतः ) प्रथमा षष्ठ्यर्थे । उपेतस्य । प्राप्तस्य ( अपक्रामन्ति ) दूरे गच्छन्ति ( अजगरम् ) बृहत्सर्पविशेषम् ( वराहम् ) वराय अभीष्टाय मुस्तादिलाभाय आहन्ति खनति भूमिम् । वर + आ + हन हिंसागत्योः-