भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 131, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 131

गोपथब्राह्मणे पूर्वभागे प्र० २ । क० ६ ॥ ६३ वर्षों तक ॥ ८ ॥ इस से जाना जाता है कि इस कण्डिका का सम्बन्ध शरीर से, और ब्रह्मा के सहस्र वर्ष, दूसरे सहस्र वर्ष, और अड़तालीस सहस्र वर्ष और उससे अधिक सहस्र वर्ष, शरीर की नाड़ियों से तात्पर्य्य है । वर्ष द्वीप को भी कहते हैं, जैसे भारतवर्ष, हरिवर्ष यहां नाड़ी समूहों को वर्ष माना है । और ऋषि आदि इन्द्रियों के भी नाम हैं, और प्राण और अपान के सम्बन्ध से इन्द्रियां बलवर्धक और दोषनाशक हैं ॥ विद्वान् लोग पदों के साथ अर्थ की संगति विचार कर लगा लेवें ॥ ८ ॥ कण्डिका ९ ॥ एकपाद् द्विपद इति वायुरेकपात्तस्याकाशं पादश्चन्द्रमा द्विपातस्य पूर्व- पक्षापरपक्षौ पादावादित्यस्त्रिपात्तस्येमे लोकाः पादा अग्निः षट्पादस्तस्य पृथिव्य- न्तरिक्षं द्यौराप ओषधिवनस्पतय इमानि भूतानि पादास्तेषां सर्वेषां वेदा गतिरात्मा प्रतिष्ठिताश्चतस्रो ब्रह्मणः शाखा, अथो आहुः षडिति मूर्त्तिराकाश- श्चेत्यृचा मूर्त्तिर्याजुषी गतिः साममयन्तेजो भृग्वङ्गिरसामपैतद् ब्रह्मैव यज्ञश्चतु- ष्पाद् द्विः संस्थित इति । तस्य भृग्वङ्गिरसः संस्थे अयो¹ आहुरेकसंस्थित इति, यद्धोतर्चा मण्डलैः करोति पृथिवीं तेनाप्याययति एतस्यां ह्यग्निश्चरति । तदप्येतदृचोक्तम् । अग्निवासाः पृथिव्यसि तन्नूरिति । यदध्वर्युर्यजुषा करोत्यन्तरिक्षं तेनाप्याययति तस्मिन् वायुर्न निविशते कतमच्च नाहः इति । तदप्येतदृचोक्तम् । अन्तरिक्षे पथिभिर्डीयमाणो न निविशते कतमच्च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्वज्जातः कुत आबभूवेति । यदुद्गाता साम्ना करोति दिवं तेनाप्याययति तत्र ह्यादित्यः शुक्रश्चरति । तदप्येतदृचोक्तम् । उच्चा पतन्तमरुणं सुपर्णमिति । यद् ब्रह्मर्चा काण्डैः करोत्यपस्तेनाप्याययति चन्द्रमा ह्यप्सु चरति । तदप्येतदृचोक्तम् । चन्द्रमा अप्स्वन्तरिति । तासामोषधिवनस्पतयः काण्डानि, ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर्यज्ञो वर्त्ततेऽद्भिः कर्माणि प्रवर्त्तन्तेऽद्भिः सोमोऽभिषूयते, तद् यद् ब्रह्माणं कर्मणि कर्मण्यामन्त्रयत्यपस्ते- नानुजानात्येषो ह्यस्य भागस्तद्यथा भोक्ष्यमाणोऽप एव प्रथममाचामयेदप उप- रिष्टादेवं यज्ञोऽद्भिरव प्रवर्त्ततेऽप्सु संस्थाप्यते तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थित- होमैर्यज्ञो वर्त्ततेऽन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर्यज्ञं परिगृह्णान्त्यन्तरा हि भृग्वङ्गिरसः वेदानोदुह्य भृग्वङ्गिरवः सोमपानं मन्यन्ते सोमात्मको ह्ययं वेदः । तदप्येतदृचोक्तम् । सोमं मन्यते पपिवानिति । तद्यथेमां पृथिवीमुदीर्णां ज्योतिषा धूमायमानां वर्षा शमयत्येवम् ब्रह्मा भृग्वङ्गिरोभिर्व्याहृतिभिर्यज्ञस्य विरिष्टं शमयत्यग्निरादित्याय शमयत्येतेऽङ्गिरस एत इदं सर्वं समाप्नुवन्ति, वायुरापश्चन्द्रमा इत्येते भृगव एत इदं सर्वं समा- प्याययन्त्येकमेव संस्थं भवतीति ब्राह्मणम् ॥ ९ ॥ १. अत्र "म इति" पू० सं० भ्रष्टः पाठः ॥ सम्पा० ॥