गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 153, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० २। क० १९॥ ११५ यावदसुरैः संयतामहा इति, स वै नस्तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुमिति, स ऋग्वेदो भूत्वा पुरस्तात्परीत्योपातिष्ठत्तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति, स यजुर्वेदो भूत्वा पश्चात्परीत्योपातिष्ठत्तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति, स सामवेदो भूत्वा उत्तरतः परीत्योपातिष्ठत् तं देवा अब्रुवन्नन्यदेव तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति, स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्तं देवा अब्रुवन्नेतत्तद्रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्येतेन शक्ष्यसि गोप्तुमिति, तद्यदिन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षि- णतः परीत्योपातिष्ठत्तद् ब्रह्माऽभवत्तद्ब्रह्मणो ब्रह्मत्वं तद्वा एतदथर्वणो रूपं यदु- ष्णीषी ब्रह्मा, तं दक्षिणतो विश्वेदेवा उपासीदंस्तं यद्दक्षिणतो विश्वेदेवा उपा- सीदंस्तत्स॒दस्योऽभवत्तत्सदस्यस्य सदस्यत्वं बलेहं वा एतद् बलगुंपजायते यत्स- दस्य ओमयनो वै व्रजस्य बहुलतरं व्रजं विदन्ति, घोरा वा एषा दिग्दक्षिणा शान्ता इतरास्तद्यानि स्तुतानि ब्रह्माऽनुमन्त्रयते मनसैव तानि सदस्यो जनदि- त्येतां व्याहृतिं जपन् चेत्यात्मानं जनयति न जित्यात्मानमपित्वे दधाति, तं देवा अब्रुवन्वरं वृणीष्वेति वृणा इति, स वरमवृणीतास्यामेव मां होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तः तिष्ठेयुरिति तं तस्यामेव होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तं यत्तस्यामेव होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तद् ब्राह्मणाच्छंस्यभवत्तद्ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वं सैषेन्द्री होत्रा यद् ब्राह्मणाच्छंसीया, द्वितीयं वरं वृणीष्वेति वृणा इति स वरमवृणीतास्यामेव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस्तिष्ठेयुरिति तं तस्यामेव होत्रायां वायु- भूतं पुनन्तः स्तुवन्तः शंसन्तोऽतिष्ठंस्तं यत्तस्यामेव होत्रायां वायुभूतं पुनन्तः स्तुवन्तः शंसन्तोऽतिष्ठंस्तत् पोता ऽभवत्तत् पोतुः पोतृत्वं सैषा वायव्या होत्रा यत् पोत्रीया, तृतीयं वरं वृणीष्वेति वृणा इति स वरमवृणीतास्यामेव मां होत्राया- मग्निभूतमिन्धानाः पुनन्तः स्तुवन्तः शंसन्तस्तिष्ठेयुरिति तन्तस्यामेव होत्राया- मग्निभूतमिन्धानाः पुनन्तः स्तुवन्तः शंसन्तोऽतिष्ठंस्तं यत्तस्यामेव होत्रायामग्नि- भूतमन्धानाः पुनन्तः स्तुवन्तः शंसन्तोऽतिष्ठंस्तदाग्नीध्रोऽभवत्तदाग्नीध्रस्याग्नी- ध्रत्वं सैषाग्नेयी होत्रा यदाग्नीध्रीयेति ब्राह्मणम् ॥ १६ ॥ कण्डिका १९ ॥ आख्यायिका—असुरों से इन्द्र द्वारा देवताओं की रक्षा और अग्न्याधान ॥ ( देवाः च ह वै असुराः च अस्पर्धन्त ) देवता और असुर लड़ने लगे । ( ते देवाः इन्द्रम् अब्रुवन् इमं नः यज्ञं तावत् गोपाय, यावत् असुरैः संयतामहै इति ) १६—( गोपाय ) रक्ष ( संयतामहै ) यती प्रयत्ने-लोट् । संग्रामं करवामहै ।