भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 212, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 212

१७४ गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० २० ॥ समान आदर योग्य विद्वान् ] सम्पूर्ण रस खाने वाले होते हैं, [ इसलिये ] वह दैव [ मेध सम्बंधी कर्म ] में न चिन्ता करे और न संस्थित [ समाप्त यज्ञ ] में मन्त्र पढ़े, यह ब्राह्मण [ ब्रह्मज्ञान ] है । ८ ॥ १६ ॥ भावार्थ:—दीक्षित यजमान ऐसा प्रयत्न करे कि सब विघ्नों को हटाकर उसका यज्ञ निर्विघ्न पूरा होवे ॥ १६ ॥ विशेष:—–विचक्षणवती वाणी और चनसितवती वाणी के विषय में ऐतरेय ब्राह्मण १ । ६ और उस पर सायण भाष्य तथा आगे गो० ब्रा० उ० २ । २३ को देखो ॥ कण्डिका २० ॥ समावृत्ता आचार्या निषेदुस्तान् ह यज्ञो दीक्षिष्यमाणानां ब्राह्मणरूपं कृत्वो- पोदेयायेत्थञ्चेद्वोपसमवत्सुर्हन्त वोऽहं मध्ये दीक्षा इति, त ऊचुर्नैव त्वा विद्मः न जानीमः को हीदविज्ञायमानेन सह दीक्षिष्यतीति¹, यन्न्व्विदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वेऽथ वा उ एकं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेत्यथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ, ते तूष्णीं ध्यायन्त आसाञ्चक्रिरे, सहोवाच किन्नु तूष्णीमाध्वे भूयो वः पृच्छामः पृच्छतेति यन्न्विदं दीक्षिष्यध्व उपेयमेतस्मिन् संवत्सरे मिथुनं चरिष्यथ नोपेय्येति² धिधिति होचुः, कथं नु दीक्षिता उपैष्यामो² नोपैष्यामहा² इति, ते वै ब्राह्मणानामभिमन्दारो भविष्यथ रेतो ह वो य एतस्मिन् संवत्सरे ब्राह्मणा- स्तदभविष्यंस्ते³ बोधिमता भविष्यथेत्यथ वा उपैष्यामो नोपैष्यामहा इति, ते वै दीक्षिता अवकीर्णिनो भविष्यथ न ह वै देवयानः पन्थाः प्रादुर्भावेष्यति तिरो वो देव- यानः पन्था भविष्यतीति, ते वयं भगवन्तमेवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २० ॥ कण्डिका २० ॥ दीक्षा विषयक प्रश्नोत्तर ॥ ( समावृत्ताः आचार्याः निषेदुः ) समावर्त्तन सस्कार किये हुये आचार्य लोग बैठे ( दीक्षिष्यमाणानां यज्ञः ब्राह्मणरूपं कृत्वा तान् ह उपोदेयाय, इत्थं च इत् ह उप- समवत्सुः ) उन दीक्षा चाहने वालों में यज्ञ ब्राह्मण रूप करके उनके पास आया और इस प्रकार से ही यथाविधि ठहरा ( हन्त अहं मध्ये वः दीक्षे इति ) हे पुरुषों ! मैं मध्य में २०—(समावृत्ताः) कृतसमावर्त्तनसंस्काराः (आचार्याः) वेदाध्यापयितारः (दीक्षिष्यमाणानाम्) दीक्षितुमिच्छतां मध्ये (उपोदेयाय) उप+उत्+आ+इण् गतौ—लिट् । समीपे आजगाम (इत्थम्) अनेन प्रकारेण (इत् ह) अवश्यमेव (उपसमवत्सुः) उप+सम्+वस निवासे+लुङ्, बहुवचनं ह्रस्वत्वं चार्षम् । १. पू. सं. 'दीक्षिष्यसि' इति पाठः ॥ २. पू. सं. उपेष्यथ, उपेष्यामः, उपेष्यामहै इति पाठः ॥ ३. पू. सं. तदभविष्यन् इति पाठः ॥ सम्पा० ॥