गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 272, कुल 600 में से
संदर्भ में पढ़ें२३४ गोपथब्राह्मणे पूर्वभागे प्र० ५ । क० ११ ॥ एतद्वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यन्दिने सवने आदित्यास्तृतीयसवने यज्ञवास्तुन्येव पर्य्यशिषो यज्ञवास्तुमित्येवमाशिषो विद्वांसो नूनं त्वा याजयेयुरेते ह वा अविद्वांसो यत्रानृग्विद् होता भवत्ययजुर्विदध्वर्य्युरसामविदुद्गाताभृग्वङ्गिरोविद् ब्रह्मा यजस्वैव हन्त तु ते तद्वक्ष्यामि यथा सूत्रे मणिरिव सूत्रमेतान्युक्थाहानि भवन्ति सूत्रमिव वा मणाविति तस्माद्य एव सर्ववित्स्यात् तं ब्रह्माणं कुर्वीतैष ह वै विद्वान् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोविदेते ह वा अस्य सर्वस्य शमयितारः पालयितारस्तस्माद् ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥ कण्डिका ११ ॥ ऋत्विजों की योग्यता के विषय में प्रजापति और नारायण की कथा ॥ ( प्रजापतिः नारायणं पुरुषं ह वै उवाच, यजस्व यजस्व इति ) प्रजापति [नाम वाला] नारायण [ नाम वाले, मनुष्यों के लिये ज्ञान वाले ] पुरुष से बोला-तू यज्ञ कर तू यज्ञ कर । ( सः ह उवाच यजस्व यजस्व इति एवं ह आत्थ, अत्रिः मा अयक्षत, इमे वसवः प्रातःसवनेन, रुद्राः माध्यन्दिने सवने, आदित्याः तृतीयसवने आगुः, यज्ञवास्तुनि एव यज्ञवास्तुं पर्य्यशिषः इति ) वह [ नारायण ] भी बोला-तू यज्ञ कर तू यज्ञ कर, ऐसा ही तू कहता है, [ सो ] खवैये [ स्वार्थी लोग ] यज्ञ न करें, यह वसु [ श्रेष्ठ पुरुष ] प्रातःसवन में, रुद्र [ पापियों को रुलाने वाले अथवा ज्ञान देने वाले लोग ] माध्यन्दिन सवन में, और आदित्य [ अखण्डव्रती ब्रह्मचारी लोग ] तृतीय सवन में आवें । यज्ञभूमि में ही [ इनके लिये ] यज्ञगृह नियत कर । ( एवम् आशिषः अहं वै एतत् वेद, यज्ञे वसवः प्रातःसवनेन, रुद्राः माध्यन्दिने सवने आदित्याः तृतीये सवने आगुः, यज्ञवास्तुनि एव यज्ञवास्तुं पर्य्यशिषः इति ) [ प्रजापति बोला ] इस प्रकार से आशीर्वादों को मैं भी यहां जानता हूं, यज्ञ में वसु लोग प्रातःसवन में, रुद्र लोग माध्यन्दिन सवन में, और आदित्य लोग तृतीय सवन में आवें, यज्ञभूमि में ही [ इनके लिये ] यज्ञगृह नियत कर [ यह जो तू कहता है ] । ( एवम् आशिषः विद्वांसः नूनं त्वा याजयेयुः ) इस प्रकार आशीर्वाद जानने वाले पुरुष निश्चय करके तुझ [ नारायण ] से यज्ञ करावें । ( एते ह वै अविद्वांसः यत्र अनृग्विद् होता, अयजुर्विद् अध्वर्युः, असामविद् ११- ( नारायणम् ) नर-अण् समूहार्थे इण् वा अय गतौ-ल्युट् । नाराय नरसमूहाय अयनं ज्ञानं यस्य तम् । मनुष्यविशेषम् ( प्रजापतिः ) प्रजापा- लकः । मनुष्यविशेषः ( आत्थ ) ब्रूञ् व्यक्तायां वाचि-लट् । त्वं कथयसि ( अत्रिः ) अदेस्त्रिनिश्च ( उ० ४ । ६८ ) अद भक्षणे-त्रिप् । अत्रयः । भक्ष- णशीलाः ( वसवः ) श्रेष्ठा विद्वांसः ( रुद्राः ) रोदेर्णिलुक् च ( उ० २ । २२ ) रोदयतेः-रक् णेलुक् । यद्वा रु गतौ वधे च-क्विप्, तुगागमः + रा दाने- कः । पापिनां रोदयितारः । रुतः ज्ञानस्य दातारः ( आदित्याः ) अखण्डव्रति- ब्रह्मचारिणः ( यज्ञवास्तुनि ) वसेरगारे णिच्च ( उ० १ । ७० ) वस निवासे-