भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 425, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 425

गोपथब्राह्मणे उत्तरभागे प्र० ३ । क० १३ ३८७ कण्डिका १३ ॥ मित्रावरुणावब्रवीद्, युवं न इमं यज्ञस्याङ्गमनुसमाहरतं मैत्रावरुणीयाम् । तथेत्यब्रूताम् । तो सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्येताम् । तो हास्यैतद्यज्ञ- स्याङ्गमनुसमाहरतां मैत्रावरुणीयाम् । तस्मात् मैत्रावरुणः प्रातःसवने मैत्रावरु- णानि शंसति । तौ हास्यैतद्यज्ञस्याङ्गमनुसमाहरताम् । यद्देव मैत्रावरुणानि शंसति, प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः । उत वामुषसो बुधिः माकं सूर्य्यस्य रश्मिभिरिति ऋचाभ्यनूक्तम् । मा नो मित्रावरुणा नो गन्तं रिशादसेति, मैत्रावरुणस्य स्तोत्रियानुरूपौ । प्र वो मित्राय गायतेति उक्थमुखम् । प्र मित्र- योर्वरुणयोरिति पर्यासः । आयातं मित्रावरुणेति यजति । एते एव तद् देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति । प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यानाराशंसाः सीदन्ति ॥ १३ ॥ कण्डिका १३ ॥ प्रातःसवन में मैत्रावरुण द्वारा मित्र और वरुण की स्तुति ॥ ( मित्रावरुणौ अब्रवीत्, युवं नः यज्ञस्य इमम् अङ्गं मैत्रावरुणीयाम् अनु- समाहरतम् ) वह [ यजमान ] मित्र और वरुण [ हितकारक और उत्तम आचरण वाले दोनों पुरुषों ] के विषय में [ ब्रह्मा और होता से ] बोला—तुम दोनों हमारे यज्ञ के इस अङ्ग को मित्र और वरुण वाली [ स्तुति ] से अनुकूलता के साथ समाप्त करो । ( तथा इति अब्रूताम् ) ऐसा ही हो—वे दोनों [ ब्रह्मा और होता ] बोले । ( तौ सयुजौ सबलौ प्रासहऽ भूत्वा मृत्युम् अति ऐताम् ) [ -और ] वे दोनों [ मित्र और वरुण ] समान योग [ मेल ] वाले, समान बल वाले और विजयी होकर मृत्यु को लांघकर चले हैं । ( तो हि अस्य यज्ञस्य एतत् अङ्गं मैत्रावरुणीयाम् अनुसमाहरताम् ) उन दोनों ने ही इस यज्ञ के इस अङ्ग को मित्र और वरुण वाली [ स्तुति ] से अनुकूलता के साथ समाप्त किया है । ( तस्मात् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति ) इसलिये मैत्रावरुण [ मित्र और वरुण की स्तुति करने वाला ऋत्विज् ] प्रातःसवन में मित्र और वरुण वाले [ स्तोत्र ] बोलता है । ( तौ हि अस्य यज्ञस्य एतत् अङ्गम् अनुसमाहरताम् ) वे दोनों [ मित्र और वरुण ] ही इस यज्ञ के इस अङ्ग को अनुकूलता से पूरा करें । ( यत् उ एव मैत्रा- वरुणानि शंसति, मित्रावरुणा वां सूरे उदिते नमोभिः उत हव्यैः प्रति विधेम उत १३--( मित्रावरुणौ ) हितकरं च श्रेष्ठं च पुरुषम् ( अब्रवीत् ) द्विकर्मकः । अकथयत् ( युवम् ) युवाम् ( अनुसमाहरतम् ) अनुकूलतया समापयतम् ( मैत्रा- वरुणीयाम् ) मित्रवरुणसम्बन्धिनीं स्तुतिम् ( सयुजौ ) युजिर् योगे - क्विप् । समानं युञ्जानौ ( सबलौ ) समानबलवन्तौ ( प्रासहा ) प्र+षह मर्षणे अभिभवे च--अच्, आर्षो दीर्घः, विभक्तेराकारः । प्रकर्षेण जेतारौ ( अति ) अतीत्य । उल्लङ्घ्य ( प्रति ) प्रत्यक्षेण ( सूरे ) सूर्य्ये ( उदिते ) उद्गते ( विधेम ) पूजयेम