गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 513, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ५ । क० १० ४७५ भावार्थः-जैसे प्रजापति परमात्मा प्रजाओं और अन्नों को उत्पन्न करके सबको अपने वश में रखता है, वैसे ही प्रजापालक वीर पुरुष सब लोगों को अन्न दान आदि से सन्तुष्ट करके परस्पर अनुकूल रक्खे ॥ ६ ॥ कण्डिका १० ॥ तद्यथैवादोऽह्न उक्थानामाग्नेयं प्रथमं भवति, एवमेवैतदत्राप्याग्नेयं प्रथमं भवति । ऐन्द्रे वाव तत्रोत्तरे ऐन्द्रे वा एते ऐन्द्रावैष्णवमच्छावाकस्योक्थं भवति । चतुराहावान्यतिरिक्तोक्थानि भवन्ति, चतुष्टया वै पशवः, अथो चतुष्पादः पशवः, पशूनामाप्त्यै । त एते स्तोत्रियानुरूपास्तृचा अर्द्धर्चशस्याः । प्रतिष्ठा वा अर्द्धर्चः प्रतिष्ठित्यै एव । अथैतेषामेवाश्विनानां सूक्तानां द्वे द्वे समाहावमेकैकमहरहः शंसति, अश्विनौ वै देवानां भिषजौ, तस्मादाश्विनानि सूक्तानि शꣳसन्ति, तदश्विभ्यां प्रददुरिदं भिषज्यतमिति । क्षेत्रवत्यः परिधानीया भवन्ति, यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसन्, ता दीना एताभिर्यथाक्षेत्रं पाययाञ्चकार, तर्पयाञ्चकार, अथो इयं वै क्षेत्रं पृथिवी, अस्यामदीनायामन्ततः प्रतिष्ठास्यामहा इति । त्रिष्टुभो याज्या भवन्ति, यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुः, ता हैवैना एताभिर्यथौकसं व्यवसाययाञ्चकार, तस्मादेता याज्या भवन्ति तस्मादेता याज्या भवन्ति ॥ १० ॥ कण्डिका १० ॥ अप्तोर्याम यज्ञ का अधिक वर्णन ॥ ( तत् यथा एव अह्नः उक्थानाम् अदः आग्नेयं प्रथमं भवति, एवम् एव एतत् अत्र अपि आग्नेयं प्रथमं भवति ) सो जैसे ही दिन के [ यज्ञों के ] उक्थों में अब अग्नि देवता वाला स्तोत्र पहिले होता है, वैसे ही यहां [ अप्तोर्याम में—क० ६ ] भी यह अग्नि देवता वाला स्तोत्र पहिले होता है । ( तत्र ऐन्द्रे वाव, उत्तरे ऐन्द्रे वै एते ) वहां [ उक्थों में ] दो इन्द्र देवता वाले स्तोत्र ही हैं और पिछले [ अप्तोर्याम ] में दो इन्द्र देवता वाले ही यह [ स्तोत्र ] हैं । ( अच्छावाकस्य ऐन्द्रावैष्णवम् उक्थं भवति ) अच्छावाक ऋत्विज् का इन्द्र और विष्णु देवता वाला उक्थ होता है । ( चतुराहावानि अतिरिक्तोक्थानि भवन्ति, चतुष्टयाः वै पशवः, अथो चतुष्पादः पशवः, पशूनाम् आप्त्यै ) चार आवाहन मन्त्र वाले अतिरिक्त उक्थ [ औरों से अधिक मन्त्र वाले उक्थ ] हैं, चार अङ्ग वाले ही पशु यज्ञ हैं, फिर चार पांव वाले पशु हैं, पशुओं की प्राप्ति के लिये [ यह यज्ञ है ] । ( ते एते स्तोत्रियानुरूपाः तृचाः अर्धर्चशस्याः ) सो यह ही स्तोत्रिय और अनुरूप वाले तृच [ सामवेद उत्तराचिक देखो ] आधी आधी ऋचाओं में बोलने योग्य हैं । ( प्रतिष्ठा वै अर्धर्चः, प्रतिष्ठित्यै एव ) प्रतिष्ठा [ स्थिति समान ] ही आधी ऋचा है, प्रतिष्ठा के लिये ही [ यह विधान है ] । ( अथ एतेषाम् एव आश्विनानां सूक्तानां द्वे द्वे, एकैकं संमाहावम् १०—( अदः ) इदानीम् ( आग्नेयम् ) अग्नेर्ढक् ( पा० ४ । २ । ३३ ) अग्नि—ढक् । अग्निदेवताकम् ( चतुराहावानि ) चतुरावाहनयुक्तानि ( चतुष्टयाः ) चतुर्—तयप् । चतुरवयवाः ( पशवः ) पशुनामकयज्ञाः । गवादयः ( समाहावम् )