गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 575, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ६ । क० १४ ५३७ ५-अतिवाद मन्त्र--वीमे देवा अक्रंसतावर्यो क्षिप्रं प्रचर । सुसत्यमिद् गवामस्यसि प्रखुदास--अथ० २० । १३५ । ४ ।। ( इमे देवाः ) इन विद्वानों ने ( वि ) विविध प्रकार ( अक्रंसत ) पैर बढ़ाया है, ( अध्वर्यो ) हे हिंसा न करने वाले विद्वान् ! ( क्षिप्रम् ) शीघ्र ( प्रचर ) आगे बढ़ और ( प्रखुदास ) बड़े आनन्द में ( असि ) तू हो, ( असि ) तू हो, [ यह वचन ] ( गवाम् ) स्तोताओं [ गुण व्याख्याताओं ] का ( सुसत्यम् इत् ) बड़ा ही सत्य है ॥ कण्डिका १४ ॥ अथादित्याश्चाङ्गिरसश्च शंसति, आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामन- यन्निति । तद्देवनीथमित्याचक्षते । आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोके- ऽस्पर्धन्त, वय पूर्वे स्वरेष्यामो वयं पूर्व इति । ते हाङ्गिरसः श्वःसुत्यां ददृशुः । ते हाग्निं १ मूचुः, परेह्यादित्येभ्यः श्वःसुत्यां प्रब्रूहीति । अथादित्या अद्यसुत्यान्ददृशुः, ते हाग्निं १ मूचुः, अद्यसुत्यास्माकं, तेषां नस्त्वं होतासीत्युदुपमेस्त्वामिति । स एत्या- ङ्गिरुवाच, अथादित्याः अद्यसुत्यामीक्षन्ते, कं वो होतारमवोचन्, वाह्वयन्ते युष्माकं वयमिति । ते हाङ्गिरसश्च २ क्रुधुः, मा त्वं गमो नु वयमिति । नेति हाङ्गिरु- वाच, अनिन्द्या वै माह्वयन्ते किल्बिषं हि तद्योऽनिन्द्यस्य ह्वन्न इति । तस्मादति- दूरमत्यल्पमिति, यजमानस्य हवमियादेव देवाः । किल्बिषं हि तद्योऽनिन्द्यस्य हवन्न इति । तान् हादित्यानङ्गिरसो याजयाञ्चक्रुः, तेभ्यो हीमां पृथिवीं दक्षिणां निन्युः, तां ह न प्रतिजग्गृहुः सा हीयं, विवृत्तोभयतःशीर्ष्णा दक्षिणाः शुचाविद्धाः शोचमाना व्यचरन् कुपिताः, मा नः प्रत्यग्रहीषुरिति । तस्मा एते ३ निरदीयन्त, य एते प्रदरा ४ अधिगम्यन्ते । तस्मान्निवृत्तदक्षिणां नोपाकुर्यात् नैनां प्रमृजेनेद्दक्षिणां प्रमृणजानीति । तस्माद्य एवास्य समानजन्मा भ्रातृव्यः स्याद् वृणुहूयुः, तस्मा एनां दद्यात् । तन्नः पराची दक्षिणा विवृणक्ति, द्विषति भ्रातृव्येऽन्ततः शुचं प्रति- ष्ठापयति । योऽसौ तपति स वै शंसति, आदित्या ह जरितरङ्गिरोभ्यो दक्षिणा- मनयन् तां ह जरितः प्रत्यायन्निति; न हीमां पृथिवीं प्रत्यायंस्तामु ह जरितः प्रत्यायन्निति, प्रतिहितेषु मायंस्तां ह जरितनंः प्रत्यगृभ्णन्निति, न हीमां पृथिवीं प्रत्यगृभ्णंस्तामु ह जरितनंः प्रत्यगृभ्णन्निति, प्रगृह्यादित्यमगृभ्णन्नहानेतरसन्न वि चेतनानीति । एष ह वा अह्नां विचेता, योऽसौ तपति । स वै शंसति, यज्ञाने- तरसं न पुरोगवाम इति । एष ह वै यज्ञस्य पुरोगवी, यद्दक्षिणा यथार्हामः स्रस्त- मितिरेतदन्तेत्येष एवेश्वर उन्नेता । उत श्वेत आशुप्तवा उतो पद्याभिर्यंविष्ठः । उतेमाशु मानं पिपर्तीत्येष एव श्वेत एष शिशुप्त्येष उतो पद्याभिर्यंविष्ठः, उतेमाशु मानं पिपर्त्तीति, आदित्या रुद्रा वसवस्त्वेऽनु त इदं राधः प्रतिगृह्णी- ह्यङ्गिरः । इदं राधो विभुः प्रभुरिदं राधो बृहत् पृथुः । देवा ददत्वासुरन्तद्वो अस्तु सुचेतनम् । युष्माँ अस्तु दिवेदिवे प्रत्येव गृह्णायतेति । तद्यदादित्याश्चा- १. पू. सं. "हाग्निर" इति पाठः ॥ २. पू. सं. "चक्रुधुः" इति पाठः ॥ ३. पू. सं. "एताः" इति पाठः ॥ ४. पू. सं. "प्रतरा" इति पाठः ॥ सम्पा० ॥