भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 59, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 59

गोपथब्राह्मणे पूर्वभागे प्र० १ । क० १० ॥ २१ त्रैवाभ्यश्राम्यदभ्यतपत्सम तपत्ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः सन्तप्ताभ्यः पञ्च वेदान्निरमिमत सर्पवेदं पिशाचवेदमसुरवेदमितिहासवेदं पुराणवेदमिति । स खलु प्राच्या एव दिशः सर्पवेदं निरमिमत, दक्षिणस्याः पिशाचवेदं, प्रतीच्या असुरवेद- मुदीच्या इतिहासवेदं ध्रुवायाश्चोर्द्ध्वायाश्च पुराणवेदम् । स तान् पञ्च वेदानभ्य- श्राम्यदभ्यतपत्समपतत्तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः सन्तप्तेभ्यः पञ्च महाव्याहृती- र्निरमिमत वृधत् करद् गुहद् महत् तदिति । वृधदिति सर्पवेदात्, करदिति पिशाचवेदात्, गुहदित्यसुरवेदात्, महदितीतिहासवेदात्, तदिति पुराण- वेदात्, स य इच्छेत्सर्वैरेतैः पञ्चभिर्वेदैः कुर्वीयेत्येताभिरेव तं महाव्याहृतिभिः कुर्वीत सर्व्वं वा अस्यैतैः पञ्चभिर्वेदैः कृतं भवति य एवं वेद यश्चैवं विद्वानेव- मेताभिर्महाव्याहृतिभिः कुरुते ॥ १० ॥ कण्डिका १० ॥ सर्पवेदादि ५ वेद, वृधत् आदि ५ महाव्याहृति ॥ ( सः दिशः अनु ऐक्षत ) वह [ परमात्मा ] दिशाओं को देखने लगा, (प्राचीम्) पूर्व वा सामने वाली, ( दक्षिणाम्, दक्षिण वा दाहिनी, ( प्रतीचीम् ) पश्चिम वा पीछे वाली, ( उदीचीम् ) उत्तर वा बाईं, ( ध्रुवाम् ) दृढ़ वा नीचे वाली, ( ऊर्द्ध्वाम् इति ) और ऊपर वाली । ( ताः तत्र एव अभि अश्राम्यत् ) उन को वहीं ही उसने सब ओर से दबाया, ( अभि अतपत् ) सब ओर से तपाया, ( सम् अतपत् ) भली भांति तपाया । ( ताभ्यः श्रान्ताभ्यः तप्ताभ्यः सन्तप्ताभ्यः ) उन दवाई हुई, तपाई हुई भली भांति तपाई हुई से ( पञ्च वेदान् ) पाँच वेदों [विद्याओं] को (निर् अभिमत) उसने बनाया-( सर्पवेदम् ) सर्प वेद [ चलते हुये लोकों की विद्या ], ( पिशाचवेदम् ) पिशाच वेद [ अवयवों की व्यापक विद्या वा मांस खाने वाले रोगों की विद्या ], ( असुरवेदम् ) असुर वेद [ प्राण वालों की विद्या ] (इतिहासवेदम् ) इतिहास वेद [बड़े लोगों वा कार्यों की वृत्तान्त विद्या], (पुराणवेदम् इति ) और पुराणवेद ( पुराने लोगों अथवा कारणों की वृत्तान्त विद्या ] । ( सः खलु ) उसने निश्चय करके ( प्राच्याः एव दिशः ) पूर्व वा सामने वाली दिशा से (सर्पवेदम्) सर्प वेद को ( निर् अभिमत ) बनाया-( दक्षिणस्याः ) दक्षिण वा दाहिनी से ( पिशाचवेदम् ) पिशाच वेद को, ( प्रतीच्याः ) पश्चिम वा पीछे वाली से (असुर- वेदम्) असुर वेद को, ( उदीच्याः ) उत्तर वा बायीं से ( इतिहासवेदम् ) इतिहास वेद को, ( ध्रुवायाः च ऊर्द्धायाः च ) नीचे वाली और ऊँचे वाली से ( पुराण- १०-(सर्पवेदम्) सृप्लृ गतौ-अच् । ये सर्पन्ति गच्छन्ति ते लोकास्तेभ्यः । इमे वै लोकाः सर्पास्ते हानेन सर्वेण सर्पन्ति । शत० ब्रा० ७ । ३ । १ । २५ । इति दयानन्दः-यजुर्वेदभाष्ये १३ । ६ । अत्रैव सर्पन्ति सर्पा लोकाः इति च महीधरः । गमनशीलानां लोकानां विद्याम् । (पिशाचवेदम्) इगुपधज्ञाप्रीकिरः कः (पा० ३ । १ । १३५ ) पिश अवयवे-कः । कर्मण्यण् ( पा० ३ । २ । १ ) पिश + अञ्चु गतौ -अण् । अवयवव्यापिकां विद्याम् । यद्वा पिशित + अश भोजने-अण्, पृषो-