हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 101, कुल 185 में से
संदर्भ में पढ़ें५२ श्रीहम्मीरमहाकाव्ये [सर्गः तिमिरराशिरुदित्वरशक्तिरप्यधित नीचपदानि पुरा वशे । निजसमानवशीकरणोद्यमः प्रविजिगीषुगुणो ह्ययमादिमः ॥ १६ ॥ स्मरशरव्यितदुर्दयितांगना ज्वलितदुःखहुताशकणा इव । प्रतिपदं कृतलोचनकौतुका रुरुचिरेतितरां शिखिकीटकाः ॥ १७ ॥ अतिविदग्धतयाभ्रमिमाचरन्न कुलटा जन आट दृशोः पथं । विविधयुक्तिनिषेवणहृष्टहन् मनसिजेन वितीर्णवरादिव ॥ १८ ॥ भृशमपि क्षिपति प्रतिवासरं मयि मुहुर्मुहुरेति तमः कुतः । इति रुषेव वहन्नतिलोहितं वपुरगादुदयं रजनीकरः ॥ १९ ॥ शमयितुं तिमिराणि यदुत्सुको—प्यमृतसूरुदियाय शनैः शनैः । तदिदमंकमृगो मघवाप्रिया—र्पिततृणग्रसने खलु लुब्धवान् ॥ २० ॥ भुवनभेदनसंभवशोणितो—पचितमन्मथमार्गणघर्षणैः । अरुणतामिव यच्छशिमंडलं श्रियमदाद्गगनस्य निजस्य च ॥ २१ ॥ क्रकचचक्रजकेसरपांडुर—प्रसृमरोरुकरोत्करकैतवात् । अनुनिशादयितां हिमवालुका—प्रकरमास्यदिवाखरदीधितिः ॥ २२ ॥ हृदयमध्यगतं दधदुच्चकैः स्फुटतरांकमिषेण तमस्विनीं । अजयदर्धवपुर्धृतवल्लभं पशुपतिं प्रणयातिशयाच्छशी ॥ २३ ॥ सरसिजानि विहाय हरिप्रि —————————— ————————— कटाक्षनिरीक्षणलक्षिता ॥ २४ ॥ हिमकरं दयितं मिलितुं निशा विवसिताद्भुतभूषणया दधे । अविरलोदिततारकपेटक—च्छलमयी नवमौक्तिकजालिका ॥ २५ ॥ चिरभवन्मिलनादुपगूहनं द्विजपतावदयं ददति श्रियः । त्रुटति हारलतास्मसमुत्पत—द्विविधमौक्तिकतारकितांबरा ॥ २६ ॥ सुमशरान्प्रविहाय सुमायुधः शशिकरान् यदमन्यत तत्पदे । उचितमेव नवंनवमिच्छतां परिचिते रिपुता हि महीयसी ॥ २७ ॥ किममृतैः सिसिचे किमु चंदनैः किमु हमीरकुमारयशोभरैः । चितमिदं जगदिंदुकरोत्करै व्यतनुतेति वितर्कपरंपरां ॥ २८ ॥