हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 100, कुल 185 में से
संदर्भ में पढ़ें७ ] जलक्रीडावर्णनम् ५१ जगति-नाम पतंग इति स्फुटं मम दधुस्तदमी शलभेषु किं । इति वहन्निव सूरिपु कोपितां यहपुपौ जनि लोहितविग्रहः ॥ ३ ॥ अविरतांवरसंचरणोल्लसत् गुरुपरिश्रमसंगतविग्रहः । सलिलकेलिचिकीरिव वाहिनी दयितमध्यमगाहत भास्करः ॥ ४ ॥ जलशयेशशयांबुजनिन्हुते ककुचसिंधुसुतोरासिजभ्रमं । प्रवितरञ्जगतां जलधेर्जले-शकमप्रमभाद्रविमंडलं ॥ ५ ॥ भुवनचक्षुपि भास्वति वारुणी मभिनिषेव्य जडेऽपधिमज्जति । उचितमेव तदा त्वमपि व्यधात् यदखिलं भुवनं स्ववशं तमः ॥ ६ ॥ अहिंमभासि हृदेकतमप्रिये नयनमार्ग मतीत्य गते क्वचित् । अपरादिग्भवरागहुताशने प्रविविशे प्रणयेन दिनश्रिया ॥ ७ ॥ गलितभासि हृदेकतमप्रिये व्रजति भास्वति शोच्यदशांतरं । विशदतिव्रजैकतवतो विशात् हृदिव शोकतसः सरसीरुहां ॥ ८ ॥ विधिनियोगतयापतदापदं समभिवीक्ष्य पतिं महसामिह । सपदि संचुकुचे सरसीरुहे रपश्श्रिभिः सुहृदा मुचितं ह्यदः ॥ ९ ॥ सितगुरेव कुरंगकलंकभाग् मलिनहृत्क्षणदास्प वधूरपि । तदिहही किमवेक्ष्यत इत्यभूत् कमलिनी विनिमीलिसरोजदृक् ॥ १० ॥ उडुपतिश्रुतिपानपरिस्फुर त्वगजिगीषुतयेव दिनात्यये । निशि वियोगवतां पततां गणा निखिलमेव रवेः पपुरातपं ॥ ११ ॥ पुनरनाप्तिभिया पपुरातपं दिनकृतः किममून्यधिकं रुचेः । रथपदाह्व पतन् मिथुनानि नो यदधुना व्यपहंतं सहासितुं ॥ १२ ॥ निशि वियोगवतः पततः स्थिता बिसलतायलचंचुपुटे बभौ । असुगणं वनिताविरहाद्दिनि-र्जिगमिषुं विनिरोद्धुमिवार्गला ॥ १३ ॥ विसगुणोपि ययोर्युगचारिणोः कथमपि स्म नमाति पुरांतरा । अपि सरिद्दयितः सममात्तयो र्विलसितं न विधेः स्मृतिगोचरः ॥ १४ ॥ रुहद्दशां स्ववशे सकलं जगत् रचयितुं रतिजीवितवल्लभः । दिनविरामरणन्मुरजावलि-स्वनमिषेण निदेशमिवादित ॥ १५ ॥