हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 99, कुल 185 में से
संदर्भ में पढ़ें५० श्रीहम्मीरमहाकाव्ये [सर्गः विलोक्यतां स्वच्छतयाऽबलानां जग्मुर्न वासांसि जलाद्रितानि । ध्रुवं परित्यागभयेन तासां निलीय देहद्युतिषु स्थितानि ॥ ५८ ॥ गतेऽगरागेपि तनूदरीणां न कायलक्ष्मीराधरीबभूव । स्वभावंरम्यस्य जनस्य यद्वा विभूषणं मंगलमात्रदायि ॥ ५९ ॥ विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः । परीक्षितुं प्रत्युत हेमपट्टे निवेशिताभात् कषपट्टिकेव ॥ ६० ॥ विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः । मेरोः शिलायां सुखमासितस्य शिखंडिनो बर्हमिव व्यराजत् ॥ ६१ ॥ निर्णीरितानि बिबभुर्वनिताजनानां चेलांचलैर्मृदुतरैर्नितरां वपूंषि । उत्तेजितानि सुमनोविशिखस्य शस्त्राणीवाखिलत्रिजगतीजयबद्धबुद्धेः ॥ ६२ ॥ उन्मिषन्नयननीलसरोजा भ्रूलतालसितकांततरंगाः । मुक्तबंधकचशैवलरम्याः सारसीं श्रियमलानिष नार्यः ॥ ६३ ॥ भूषापहृत्या रिपुरमस्मदीय मसौ यमात्तः सलिलं बिभर्ति । इति प्रकोपादिरिवांगनाभि रबध्यतावर्त्यशिरोजपाशः ॥ ६४ ॥ इत्थं विधाय जलकेलिमनन्यजन्यां श्रीजैत्रसिंहतनयः स हमीरवीरः । स्वान् स्वान् गृहान् प्रतिविसृज्य जनान्सहैतान् वेश्माससाद निजमर्थिकृतप्रसादः ॥ ६५ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- महाकाव्ये वीरांक जलक्रीडावर्णनोनाम षष्ठः सर्गः समाप्तः ॥ अथ सप्तमः सर्गः अथ निशासमयागमलालसं चलदृशां प्रविदन्निव मानसं । चरमभूमिधराग्रिमचूलिका महिमरश्मिरभूषयदंशुभिः ॥ १ ॥ विधिवशाद्विपदं समुपेष्युषीं न खलु कोप्यवधीरयितुं क्षमः । गददिवेद्यहिमद्युतिमंडलः समभवद्विगलद्द्युतिमंडलः ॥ २ ॥