हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 98, कुल 185 में से
संदर्भ में पढ़ें८ ] जलक्रीडावर्णनम् ४९ बिंबिते॑बुनि निजाननपद्मे कापि दृग्द्वयमवेक्ष्य झषाक्षी । पद्मकोशगतमीनधिया तत् गृह्णती दयितचित्तमगृहीत् ॥ ४८ ॥ सांद्रितेंबुनि किलललनानां नेत्रकज्जलभरैर्हसितैश्च । गांगवारिकलितं रविकन्यां मेनिरे युवजनाः किमु धन्यां ॥ ४९ ॥ एहि मंक्षु नलिनीषु निलीनां दर्शयामि सुतनो भवदाली । विप्रतार्य दयितामिति कश्चित्तां जिगाय निभृते पणबंधे ॥ ५० ॥ प्रौढदेवनवशाद्रितवृद्धौ सारसैर्भसि निमग्नसरोजे । कुंतलच्छलमिलद्भ्रमरौघे योषितां सरसिजायितमास्यैः ॥ ५१ ॥ उत्तानमंभसि सुखं प्लुतिलाघवेन निष्पंदमंबुजदृशामभितस्थुषीनां । रेजुः स्तनाः सुविवृता भृशमुच्छ्वसंत- श्चक्रा इवापविवरं मिलितस्स्वकांताः ॥ ५२ ॥ व्यात्युक्षीषु भृशोक्षणाकुलितया वक्रीकृतग्रीवया व्यालोक्य प्रतिबिंषितां स्वकबवीं पृष्ठप्रतिष्ठेंबुनि । प्रेयान्वाराहिशंकया स्म परया संश्लिष्यते भीतया प्लातुं स्वासिलताशया पुनरिमां चिक्षेप हस्तं स च ॥ ५३ ॥ चिकुरनिचयमाशु खंसयामास नेत्रां—बुरुहमपि चुचुंबोरोजपीठे लुलोठ । जघनतटमुपासामास पस्पर्श पादौ प्रिय इव वनितानां सारसो वारिपूरः॥५४॥ स्रस्तो धम्मिल्लबंधो गलितमखिलमप्यंजनं लोचनानां भ्रष्टो रागोघराणामविरलपुलकैर्व्याप्तमंगं समग्रं । नष्टा शक्तिः कपोलस्तनतटलिखितापत्रलेखाप्यपास्ता वारिक्रीडा वधूनामजनि रतिरसस्य प्रवेशध्रुवेव ॥ ५५ ॥ परिनिस्सरच्चटुलदृग्जघनो—रसिजावलीरितरंगतति । अभिन्नज्जलं झगिति कूलभुवः सहयानमाभिरभितन्वदिव ॥ ५६ ॥ अत्युत्सुकत्वनिपतत्पदपातजात—स्फीतध्वनिश्रुतिवियोजितपक्षि पक्षाः । अन्योन्यपाणितलताडनलब्धलक्ष्या नीरान्निरीयुरथ दंपतयः सहेलं ॥ ५७ ॥ 7 k