हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 104, कुल 185 में से
संदर्भ में पढ़ें७ ] जलक्रीडावर्णनम् ५५ सखि हृदेकहितं भज मार्दवं परुषतां तु दुरंततरां त्यज । परुषता रचिता हि हृदीश्वरे फलति केवलमात्मनि मूढता ॥ ५५ ॥ मम वचोद्य कुरु स्वहितं नचे दनुशयं हृदयं तव यास्यति । इति परा प्रतिबोध्य सखीं निजां रमणमंदिरमध्यमपानयत् ॥ ५६ ॥ षड्भिः कुलकं स कितवोऽद्य समेष्यति चेत्तदा भुजयुगेन निबध्य रतालयं । समुपनीय निहन्मि तथा पुरा पुनरुपैति यथा न तदालयं ॥ ५७ ॥ हृदयनिकूटमध्यकृतोद्गमा कमितरीति मनोरथवल्लरी । सुभगया परया परया मुदा सफलभावमनीयत सत्वरं ॥ ५८ ॥ अनुनयान्वितमाश्रितगद्गदं सखि तथा वद जीवितवल्लभं । स समुपैति यथा न च कुप्यती—त्यभिविबोध्य सखीप्रहितान्यया ॥ ५९ ॥ यदि वियोगमवेक्ष्यमियद्व्यथं स्मयमधास्यमिमं हृदि किं तदा । इति परा परितप्य मुहुर्मुहु र्नयनमालिषु दीनमयाक्षिपत् ॥ ६० ॥ प्रिय स मेद्यसि सुभ्रु विमानह त्व किमीश यशो मदनस्य किं । सहि भवेक्षणजः किल सोपि तत्तव परेति हृदीशमजीहसत् ॥ ६१ ॥ प्रतिदिनं शतशोऽपि निवारितो मुहुरिह त्वमुपैषि कयाऽशया । कृतक कोपवतीत्यपरारया दुपरि तल्पमपातयदीश्वरं ॥ ६२ ॥ विनयतो वसनं कमितुः करौ करयुगेन परा त्रपयाऽग्रहीत । स्वयमपि स्फुरितोद्धषणैर्गल—न्निवसना सहसाथ किमातत ॥ ६३ ॥ यतिविरोधिंलसद्रसपूर्णयो रुपरि लोलदृशस्तनकुंभयोः । बभतुरीशकरांबुरुहे अधो—मुखपिधानतुलामिव बिभ्रती ॥ ६४ ॥ दृगतीतौ दयिते मृगचक्षुषां हृदि लवं यदि मानभरोऽल्लसत् । गृहपतौ समुपैयुषि कश्चिरं परगृहे लभते यदि वा स्थितिं ॥ ६५ ॥ स्पृशति भर्त्तरि हृत् हृदयेशयः सचकितं मदनोऽन्यनतध्रुवः । रासमुदतिष्ठदसंशयमत्रुटन् इतरया किमु कंचुकसंधयः ॥ ६६ ॥