हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 105, कुल 185 में से
संदर्भ में पढ़ें५६ श्रीहम्मीरमहाकाव्ये [सर्गः सपदि गोत्रपरिस्खलनात्प्रिया मनुपरो दहनास्त्रमिवाकिरत् । समधित प्रतिशस्त्रमिवाथ सा जलमयं स्वदश्रुततिच्छलात् ॥ ६७ ॥ तव मुखं कमलं मम चंद्रमा स्तनदनयो रधुना स्मरकारितः । भवतु संधिरिति प्रवदन् परः स्वदयिताऽऽननयोजनमातनोत् ॥ ६८ ॥ तव ममाप्यधरं निपिपासतोर्विधुरतास्तु न कस्य च नेत्यथ । विलसतः स्म तथापपतुर्र्यथा—धरदलं सममेव वधूवरौ ॥ ६९ ॥ उपरि यावमृतस्य तयोरिहा—प्युपरितैव भवत्विति दंपती । विलसतः स्म तथा धरयोर्यथो—परितयैव मिथो जनि चुंबने ॥ ७० ॥ दयितयोरमृतोपरि यौ तयो रधरयोरधरेत्यभिधा कथं । अवगतं यदि वाधरता तयो रधरपानविधौ ग्रहणान्मियः ॥ ७१ ॥ अमृतमित्यनृतं दयिताधरो यदि तदेष न किं गद नामृतं । निमिमिषुर्यदमुं पिबतां दृशो विमुमुहुर्हृदयान्यपि कामिनां ॥ ७२ ॥ विशदमेव न किं दयिताविलो—कनसुधारसपानमसूचयन् । मुकुलिताक्षससीत्कृतशब्दिता—ननपुरः करणेन विलासिनः ॥ ७३ ॥ हृदि मयानुसृते तव सा स्वयं निरगमत्किल माऽत्र विषीद तत् । दयितमित्यभिधास्खलनादवा—ङ्मुखमभाषत काप्यधृताधृतिः ॥ ७४ ॥ प्रियतमाधरपल्लवचुंबनो—पनतकांतमुखेंदुमिषाच्छशी । मयि सुधा किल तादृगिहापि किं किमधिकेति विवेक्तुमिवालसत् ॥ ७५ ॥ दयितयोर्मिथ एक मुखासव—ग्रहणलंपटयोर्मुखसंगमे । द्विशशितापनिमित्तमुदलरी न किमुवाह विपर्ययवर्जनां ॥ ७६ ॥ श्रियमुखामुख एव हरन्निजां प्रियतमामुखवेषधरः शशी । अधरपानमिषाद्रुरुधे न किं वदनवारिरुहेण विलासिनः ॥ ७७ ॥ प्रणयिना विधृतापि मनस्विनी वपुरुवाह यदुत्पुलकं किल । क्रिमियतापि जगाद न सा वशं तव गतास्मि विधेहि यदीहितं ॥ ७८ ॥ भजं धृतिं त्यज भीतिमहेतुकां हियमवांचय वक्त्रमुदंचय । अभिनवामुपदेष्टुमिति प्रिया मजनि कोपि सखीव पटुः स्वयं ॥ ७९ ॥