भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 111, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 111

६२ श्रीहम्मीरमहाकाव्ये [सर्गः अबोधि किं न क्षणिका क्षपेयं मानो दधे यद्भवतीभिरेवं । इत्यभ्यसूयन्निव मानिनीभ्य स्वनोति शब्दान् कृकवाकुरेषः ॥ ५ ॥ जायापतीनां रंतकौतुकेन रात्रिं समग्रामपि जागरित्वा । घूर्णंस्यमी विस्फुरितप्रमीला इव प्रदीपा रतमंदिरेषु ॥ ६ ॥ निवर्त्य चेतः सुरतात्कथंचित् यावत्सुषुप्तंति युवान एते । मार्दंगिकैस्तावदवादि सद्यः प्रत्यूषसूचा सुभगो मृदंगः ॥ ७ ॥ विलेपनामोदितांततांत—स्वेदोदकास्वादनमंदचारः । संभोगशालासु निविश्य यूनः सुखाकरोत्येष उषासमीरः ॥ ८ ॥ प्राप्तप्रबोधा गुरुणोपदिष्टान्‌महाप्रयोगान् प्रणिधाय चित्ते । क्लिष्टै कवींद्रा इव निर्मलाथो—त्पत्तिं नरेंद्राः परिभावयंति ॥ ९ ॥ विप्राननोद्गीर्णविविक्तवर्ण—प्रचारचारुध्वनिवेदमंत्राः । सतां हृदंतस्तरसा प्रविश्य तमः कर्षंतीव समूलकाषं ॥ १० ॥ तमोमये प्रेक्ष्य विधिः प्रलीनं मेरुं युगांतेथ नवं सिसृक्षन् । प्रत्यूषसंध्याभवरागदंभात् चिनोति शृंगानि हिरण्मयानि ॥ ११ ॥ विभा विभातैव विभावरीय मद्यापि मानं किमिवादधासि । इति प्रियाया अपि बद्धमूलं मानं सुखेनैव नुनोद कश्चित् ॥ १२ ॥ संभोगकेलीं प्रविधाय पश्चात्सुप्तापि नारी प्रथमप्रबुद्धा । आलिंग्य सुप्तं प्रियसृप्तिभंगं विशंकमाना न जहाति तल्पं ॥ १३ ॥ कचिद्विभातीकृतयामिनीका अभ्येत्य कांता निभृतप्रचारं । स्वप्नेपि तत्तर्जनशांतचित्ता माश्लिष्य सुप्तां दयितां स्वपंति ॥ १४ ॥ अपि द्विजेशः श्रितवारुणीको ध्रुवं भवेन्नीचजडोपयोग्यः । इति प्रबोधं जगतां प्रयच्छन्नध्यास्त मध्यं जलधेः शशांकः ॥ १५ ॥ असौ सिषेवे चतुरोऽपि यामान् श्यामां क्षये सत्यपि यत्सकामः । तेनैव शंकेस्तमुपैति पकपलांडुपांडुः पतिरोषधीनां ॥ १६ ॥ समस्वरूपे शशिनो रवेश्व बिंबेस्तभावादुदयत्वतश्च । उपैति पूर्वापरयोर्विभेदे मतिर्जनानां क्षणमीश जाड्यं ॥ १७ ॥