हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 144, कुल 185 में से
संदर्भ में पढ़ेंइत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीकाः । शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥२॥ युग्मं ॥ वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय । व्रजद्भिरन्यैः कुतुकेक्षणाय शून्योभवंतिस्म दिशां प्रदेशाः ॥ ३ ॥ याते मयीदं बलभारभुग्नं कः सासहिर्धत्तुमिमां धरित्रीं । इतीव शेषाहिरमुष्य सैन्ये न केवलं गंतुमना बभूव ॥ ४ ॥ साश्वद्विपेष्वेषु चलत्सु भूभृ—न्निदेशमात्रेण दिशो दशापि । दिग्दंतिनो दंतिषु यद्यतिष्ठन् भास्वद्रथाश्वाश्च तुरंगमेषु ॥ ५ ॥ पादातिकानां करिणां रथानां चया हयानां च तथा प्रसस्रुः । तलं तिलस्यापि तुषानुमेयं रिक्तं यया न काचिदास भूमेः ॥ ६ ॥ ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ । इदं महावीर्य्य वितीर्य्य सैन्यं अचीचलत् जेतुममुं हम्मीरं ॥ ७ ॥ शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं । शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥ लब्ध्वा सहायं निसुरत्तखानं ज्वलन् क्रुधोलूपपदः सखानः । इयेष मूलादपि वैरिवंशान् दग्धुं बृहद्भानुरिवाहिंकांतं ॥ ९ ॥ बलं किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तंत्र ॥ महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्य्यः ॥ १० ॥ पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसो न शक्तः । तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तुं गुर्वी ॥ ११ ॥ धावद्वयालीपद्पादजात—रेणूत्करैः पूरिषताब्धयो मा । हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १२ ॥ सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तार्हि पराभविष्यन् । इत्यूचुषः कांश्चिदुपेत्पूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥ गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च । जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥