भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 160, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 160

११२ श्रीहम्मीरमहाकाव्ये [सर्गः स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं । मृगनाभिस्फुरन्नाभि यदंगणमराजत ॥ ८ ॥ नूपुरस्थेंद्रनीलाश्म—दाम यत्स्फाटिकाश्मसु । निरीक्ष्य विवितं सर्प—भ्रांत्या लोकाश्चकंपिरे ॥ ९ ॥ अधो निबद्धभूभाग—प्रतिबिंबिततामिषात् । भोगींद्राणामपि सभां विजेतुं प्रस्थितेव या ॥ १० ॥ वीरशोभानृपात्तत्र दक्षिणे चारुलक्षणः । हासंहासं सृजन् गोष्ठीं रतिपालो रतिं दधौ ॥ ११ ॥ परीतो महिमासाहि स्त्रिभिरप्यनुजन्मभिः । व्यक्तामभजत्तत्र परमात्मा गुणैरिव ॥ १२ ॥ मार्दंगिका मृदंगानि वीणामपि च वैणिकाः । अपि वैणविका वेणुं यथातालमवीवदन् ॥ १३ ॥ रणद्वेणुझणत्कारा—नुकारिप्रसरत्स्वराः । गायना वीरहम्मीरकीर्तिस्फूर्तिंमगासिषुः ॥ १४ ॥ मिथोपि स्पर्धया वर्धमानत्वादिव संयते । दृढं चोलांतरीयाभ्यां स्तनश्रोणीप्रबिभ्रती ॥ १५ ॥ वपुर्वल्लिविलासेन मूर्छयंतीव कामिनः । कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥ ❳ त्रिभिर्विशेषकं प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी । प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ॥ १७ ॥ तस्या लास्येन वेलंतो रेजिरे पाणिपल्लवाः । मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८ ॥ गोलकत्रितयोच्छाल—च्छलेन भुवनत्रयीं । सा जगादेव लोकानां कृतां स्वशयशायिनीं ॥ १९ ॥ अंगुल्यग्रभ्रमचक्र—दंभेन युवतीजने । रूपलावण्यसौंदर्यैः सा दधौ चकितामिव ॥ २० ॥

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास) · पृष्ठ 160, कुल 185 में से · BharatKosha