हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 162, कुल 185 में से
संदर्भ में पढ़ें११४ श्रीहम्मीरमहाकाव्ये [ सर्गः तन्मर्म महिमासाहि र्बिभ्रत् हृदि परेदिवि । शकेशं वेद्ध्यतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ॥ यद्यादिशति भूनाथो मामिदानीं तदा रिपुं । शरसारत्तरसा कुर्वे धारामिव धनंजयः ॥ ३५ ॥ नृपोवमिहितेत्रामा रंस्येहं केन संगरे । हित्वा तं महिमासाहे जह्युड्डानं धनुर्धरं ॥ ३६ ॥ शकेशवेध्येनासाद्या देशं दूनमनास्ततः । हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् ॥ ३७ ॥ चकितस्तद्दिनाशेन सद्यः सोपि शकेश्वरः । त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिविरं न्यधात् ॥ ३८ ॥ ढौकनानि ततोभ्येत्य दायंदायमनेकधा । खिन्नोसौ दापयामास सुरंगां समयागिरिं ॥ ३९ ॥ उपलैर्मृत्तिकापूरै र्दलकैस्तृणपूलकैः । परिखां पूरयामास सोदरश्वान्यदेशतः ॥ ४० ॥ कियद्भिरप्यथो मासैः सिद्धेनौपयिकद्वये । शका दुढौकिरे योद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥ विज्ञाय चाहमानास्त त्परिखां वह्निगोलकैः । अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ॥ ४२ ॥ तेन तैलेन पूर्णायां सुरंगायां द्विषद्भटाः । उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ॥ चीत्कारान्मुमुचुः केपि कंठस्थैर्भापिता भटैः । यष्टिलोष्ठकरैर्डिंभै रिव श्वानोधुमध्यगाः ॥ ४४ ॥ तत्तैलदग्धसर्वांगा बभूवुर्द्विषतां भटाः । क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः ॥ ४५ ॥ ज्वलदंगसमुद्भूतो-च्छलत्कीलावलिच्छलात् । तेजांस्यपि शकांगेभ्यो नेशुर्दाहभयादिव ॥ ४६ ॥