हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 170, कुल 185 में से
संदर्भ में पढ़ें१२२ श्रीहम्मीरमहाकाव्ये [ सर्गः कुर्वन्नपि हितं मूर्खोऽहितायैव प्रगल्भते । अत्रोदाहरणं व्यक्तं किन्न पश्यत जाहडं ॥ १३८ ॥ तद्गिरा चिंतयाचांतो भूकांतोभ्येत्य मंदिरं । उच्चेंद्रे विगलत्तंद्र श्चेतसीति व्यचिंतयत् ॥ १३९ ॥ अमानैरपि सन्मानै र्दानैस्तैस्तैरनेकधा । पूजितौ सत्कृतौ शश्व द्वौ मया भ्रातराविव ॥ १४० ॥ यदि तावप्यहो स्वामिद्रोहमेवं प्रचक्रतुः । तदा स्वभावनीचानां परेषां गणनास्तु का ॥ १४१ ॥ साजात्यात्तस्य संगम्य रिपोश्चेन्मुद्गला अमी । परः प्रेममदुस्तस्य महद्भावि विडंबनं ॥ १४२ ॥ यथा कथंचिदर्हास्त द्विसृष्टुं स्वपुरादमी । परः प्रेमपरोऽप्युच्चैः परत्वं यन्न मुंचति ॥ १४३ ॥ एतस्मिन्नंतरे द्वास्थो विदग्धः कोपि मागधः । प्रत्यूषोन्मेषकं काव्य-द्वयमेतदपीपठीत् ॥ १४४ ॥ कोकीनिश्वासवातज्वलिततमतमौंगारवैभातरागा- र्चिष्मत्स्वर्व्योममूषाजठरविनिहितेपास्तनिःशेषदोषे । क्षित्वा प्रत्यूषकल्कं शशभृति विशदे पारदे कालयोगी भास्वंतं निर्मिमीते नवमिव कनकं भूषणार्थं दिनस्य ॥ १४५ ॥ आयातेन वितन्वता हृदि करस्पर्शं भृशं प्रेयसो- न्निद्रत्वं गमितापि तिग्मरुचिना यांतीव निद्रालुतां । अप्रौढेव सरोजकोशविगलद्भृंगावलीझंकृतैः सोत्कंपं वितनोति पश्य नलिनी प्रौढाप्यहो हुंकृतिं ॥ १४६ ॥ प्रीतस्तदर्थचारिणा नृपस्तत्पारितोषिकं । दत्वा क्षणमुपाक्रांस्त ब्राह्ममौहूर्तिकीं क्रियां ॥ १४७ ॥ अथ प्रातरधिश्रित्य सभां स क्षितिवल्लभः । स्वतत्सोदराध्यक्षं महिमासाहिमब्रवीत् ॥ १४८ ॥