हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 171, कुल 185 में से
संदर्भ में पढ़ें१३] हम्मीरस्वर्गगमनवर्णनम् १२३ प्राणानपि मुमुक्षामो वयमात्मक्षितेः कृते । क्षत्रियाणामयं धर्मो न युगांतेपि नश्वरः ॥ १४९ ॥ - स एव क्षत्रियः प्राणां-तेपि यो हुंकृतौ क्षमः । कि नोदाह्रियते व्यक्त मिह राजा सुयोधनः ॥ १५० ॥ - यूयं वैदेशिकास्तद्वः स्थातुं युक्तं न सापदि । यियासा यत्र कुत्रापि ब्रूत तत्र नयामि यत् ॥ १५१ ॥ नृपस्य वचसा तेन प्रासेनेव हतो हृदि । मूर्छया प्रपतन्मुच्चै रवष्टब्ध इव क्रुधा ॥ १५२ ॥ एवमस्त्विति जल्पाको महिमाभ्येत्य मंदिरं । कुटुंबमसिसात्कृत्वा नृपं गत्वेदमब्रवीत् ॥ १५३ ॥ पाणिगृहीती त्वद्भातु र्गंतुमुत्कंठिताप्यसौ । इलाविलासिनी कांतं मामाहेति सगद्गदं ॥ १५४ ॥ कातैतावंति वर्षाणि तस्थिवांसो यदोकसि । अप्यात्मानुभवं नैवा स्माष्मं शत्रुपराभवं ॥ १५५ ॥ यस्य प्रसादैः संप्राप्त—सौख्यलक्षैर्निरंतरं । अबोधि नापि तिग्मांशुरुदितोस्तमितोपि वा ॥ १५६ ॥ - तमिदानीमदृष्ट्वैव यद्येवं नाथ गम्यते । पश्चात्तापहृतं तर्हि मनः केनोपशाम्यति ॥ १५७ ॥ प्रसाद्यागत्य तत्सद्यो मंदिरं मेदिनीपते । स्वदर्शनामृतैः पश्चा तापतप्तां निर्षिंचतां ॥ १५८ ॥ एवमभ्यर्थितस्तेन महिमासाहिना विभुः । आलंब्य तद्भुजादंडं सादरं सानुजोचलत् ॥ १५९ ॥ - आसाद्य तद्गृहं भूपो यावदंतर्विशत्यसौ । कुरुक्षेत्रमिवाद्राक्षी त्तावत्सर्वं तदंगणं ॥ १६० ॥ - अस्रक्पूरे शिरांसीह शिशूनां योषितामपि । तरंत्यवेक्ष्य मूर्च्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ १६१ ॥ -