हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 176, कुल 185 में से
संदर्भ में पढ़ेंश्रीहम्मीरमहाकाव्ये [सर्गः निषादी पदगः सादी रथी वा यो यथाऽमुना । निहतः स तथैवास्थात् चित्रन्यस्त इवोच्चकैः ॥ २१३ ॥ वरीवर्षन् शरासारै स्तपालयपयोदवत् । नृपः कदर्थयामास वक्त्रांभोजानि वैरिणां ॥ २१४ ॥ भृशं शरप्रपातेना-कुलयन्मत्तवारणं । तदारोदुश्च तस्यापि मदं स उदतीतरत् ॥ २१५ ॥ रतिपालंवदेतेपि जाता इत्यपवादतः । भीता इवास्याराख्यंगं भित्वा दूरं ययुः शराः ॥ २१६ ॥ अयर्जुनं धनुर्विद्यावेदिनामपि विद्विषां । कोदंडस्थं करस्थं च गुणं चिच्छेद पार्थिवः ॥ २१७ ॥ धनुर्गुणटणत्कार-श्रुत्यैव त्यक्तजीविताः । द्विषो नान्वभवंस्तस्य शरप्रहरणव्यथां ॥ २१८ ॥ नृपेण मध्यतश्छिन्ने भूगताग्रैर्द्विषच्छिरैः । रणांगणमभाल्लून-तिलक्षेत्रमिवातंकं ॥ २१९ ॥ शरौघान् क्षिपतस्तस्य शकराजवरूथिनी । वसुहीनस्य वेश्येव क्षणेनासीत्पराङ्मुखी ॥ २२० ॥ नृपः कांश्चिद्दुरःपूरं पूरयामास सायकैः । दूर्वालावं लुलाबोच्चैः कांश्चित्खङ्गेन मध्यतः ॥ २२१ ॥ वीरोसौ समरेऽरीणां तथात्र कदनं व्यधात् । यथामीभिर्यमस्यापि संकीर्णमभवद्गृहं ॥ २२२ ॥ सध्वजान् खंडयन् दंडान् व्यध्यन्नश्वांन् ससादिनः । द्विधापि विग्रहं भिन्दन् सोऽरेश्चक्रे चिरं रणं ॥ २२३ ॥ अतिधारानिषून्वर्षन् रिपुक्षेत्रेषु भूरिषु । चाक्षुषः श्रावणो जज्ञे चित्रं हम्मीरभूपतिः ॥ २४ ॥ श्रीहम्मीरोथ वीरव्रजमुकुटमणिम्लेंच्छबाणप्रहारैः सर्वांगेषु प्ररूढैः क्षितितलमभितो भावितो भीष्मकर्मा ।