हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 175, कुल 185 में से
संदर्भ में पढ़ें१३] हम्मीरराजस्वर्गगमनम् १२७ विशिखान् विकिरन् भूरीन् ध्वानयंश्चापमंडलं । क्षणात्स वीरकोटीरो व्याकुलं द्विद्कुलं व्यधात् ॥ २०० ॥ श्वेडानादैर्द्विषच्चक्रं त्रासयन्नेणयूथवत् । सिंहः सिंह इवाध्यक्षो जघ्ने यन्नेत्र वैरिणां ॥ २०१ ॥ नयन्नग्निशिरोल्काभिः प्रतिवीराननंगतां । टाको गंगाधरः स्वाख्यां सत्याख्यामिह तेनिवान् ॥ २०२ ॥ चबारोपि व्यराजंत मुद्गलास्ते स्फुरद्बलाः । चतुरंगमपि द्वेषि—बलं जेतुमिवोद्यताः ॥ २०३ ॥ परान् परः शतान् प्रेत—पतेरतिथितां नयन् । परमारान्वयं चक्रे क्षेत्रसिंहोत्र सार्थकं ॥ २०४ ॥ रिपुप्राणापहाराय दंडभृत् दूतिकास्रिव । श्वेडासु वीरैर्मुक्तासु चकितं दधिरे शकाः ॥ २०५ ॥ सा कीदृगस्ति स्वःश्री यां नृपः परिणिनीषते । इति द्रष्टुमिवायासीद्वीरमः प्राग् नृपात् दिवं ॥ १०६ ॥ वीराः परेपि हम्मीरा निर्विण्णा इव जीविते । प्रभोः पूर्वं ययुः स्वर्गं स्थितिरेषा भुजाभृतां ॥ २०७ ॥ मूर्च्छितं महिमासाहिं विभाव्य रिपुपत्रिभिः । युद्धाय स्वयमुत्तस्था—वय हम्मीरभूपतिः २०८ ॥ अतिधारानिपुनस्य वर्षतः शुचिनाऽमुना । शंके द्वेषो भवेन्नोचे त्कथमस्यायमंतकृत् ॥ २०९ ॥ संयत्सेकोपि हम्मीरः परो लक्षलमाश्रयन् । व्योमासिक्तैर्द्विद्वक्त्रैः पद्माकरमिवाकरोत् ॥ २१० ॥ हम्मीराग्निशरश्रेणिपरीताः परितः शकाः । अमंसत प्रविष्टं स्वं मंडलं चंडदीधितेः ॥ २११ ॥ एकोप्यसौ जिगायाशु प्रभूतानपि वैरिणः । एणव्यूहं जयन् सिंहः किं सहायमपेक्षते ॥ २१२ ॥