हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 174, कुल 185 में से
संदर्भ में पढ़ें१२६ श्रीहम्मीरमहाकाव्ये [सर्ग विसृष्टौल्यांजलीन् तासां दत्वा जाजः सभूबुजा । अगात् छित्त्वा द्रुतं क्षित्वा—ष्टरुयेकां गजमस्तकः ॥ १८७ ॥ किमेतदिति राज्ञोक्ते सोऽवक्राजन् यथा पुरा । रावणः शंभुमानर्च तथाहमर्चयाम्यहं ॥ १८८ ॥ तच्छिरांसि नवैतानि रक्षोहस्तपदे पुनः । शिरो ममेदमित्युक्त्वा स्वं च शीर्षमदीदृशत् ॥ १८९ ॥ राज्यार्थी सोदरं हित्वा वीरमः स्थितवानिति । जनापवादभीतेन वीरमेण तिरस्कृतं ॥ १९० ॥ वितीर्य जाजदेवाय ततो राज्यं मुदा नृपः । द्रव्यं क्व निक्षिपामीति चिंतयन् निद्रयादृतः ॥ १९१ ॥ तदा पद्मसरः स्वप्ने ऽभ्येत्य भूपमदो वदत् । म्लेंच्छा धनं मयि क्षिप्तं लप्स्यंते नाप्यसुव्यये ॥ १९२ ॥ सर्वेऽपि रतिपालाद्या नीचा द्रोहमयासिषुः । एते भटा अहं दुर्गस्तुभ्यं द्रुह्यांति नो पुनः ॥ १९३ ॥ अथापनिद्रभूपाला—देशात्सर्वं स जाहडः । प्रक्षिप्य सारं कासारे तमूचे किं करोम्यहं ॥ १९४ ॥ उक्तो निदेशं देहीति श्रीहम्मीरेण वीरमः । कूष्मांडवच्छिरस्तस्य छित्त्वा भूमौ व्यलोडयत् ॥ १९५ ॥ अथ श्रावणमासस्य सितषष्ठ्यां रवौ निशि । दिवि कीर्तिं कलंतीं स्वां विलोकितुमिवोत्सुकः ॥ १९६ ॥ अहंकारैरिवाध्यक्षै मूर्त्तेर्वीररसैरिव । अन्वितो नवभिर्वीरै रणं शिश्राय पार्थिवः ॥ १९७ ॥ आगाद्धम्मीर इत्युक्ति—श्रुत्या व्यंजितविक्रमः । ससैन्यः शकराज्ञोऽपि भेजे तत्राभ्यमित्रतां ॥ १९८ ॥ एकस्तस्य नृपस्याग्रे वीरमौलिः स वीरमः । बभौ चंपाधिपः प्रौढः कौरवाधिपतेरिव ॥ १९९ ॥