हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 182, कुल 185 में से
संदर्भ में पढ़ें१३४ श्रीहम्मीरमहाकाव्ये [सर्गः तद्बन्ध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना- माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥ ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस- प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः । वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा नैते चर्वणसाधनं तदिह ये दुर्लक्ष्यरूपास्तु ते ॥ ३३ ॥ काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत् तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् । तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत् कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥ वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः । किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णवडंबरेण ॥ ३५ ॥ रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टशृंगाररसो रसाय । सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥ कविता वनिता गीतिः प्रायो नादौ रसप्रदाः । उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥ प्रायोपशब्दादिकृतोपि दोषो नचात्र चिंत्यो मम मंदबुद्धेः । न कालिदासादिभिरप्यपास्तो योऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥ प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् । वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञैः ॥ ३९ ॥ वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः । मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता द्वित्राश्चेत्तेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥ भवंति काव्येषु महाकवीनां यद्येवभावा अशुभाः शुभा वा । प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥