हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 62, कुल 185 में से
संदर्भ में पढ़ें२ ] पूर्वजवर्णनम् १३ महीं महीं भूपयतिस्म तस्मात् श्रीविश्वलो विश्वविलासिकीर्तिः । समूलमुन्मूल्य कुलं रिपूणा मेकाधिपत्यं भुवि यश्चकार ॥ ३३ ॥ प्रसृत्वराजनीतिलतावितान-कुठारकल्पेपि यदीयराज्ये । ललास लोके यदनीतितैव तत्कस्य नो विस्मयमाततान ॥ ३४ ॥ यस्यारिनारीगिरिगह्वरेषु सुदृन्मृगाक्षीरतिमंदिरेषु । स्थिता सुखं भूषणभूषितांगी विवेद नैवोदितमस्तमर्कं ॥ ३५ ॥ हताऽहितानां सकलेवराणां स्पर्शोलसत्स्रुप्तिभराप्तदोषे । तल्लोलदृग्लोचनवारिपूरैः क्षोणीतलैऽवूक्षणमक्षिपेद्यः ॥ ३६ ॥ अहीनधामानमदीनसेनं सहावदीनं समरे निहत्य । अमूमुचन्म्लेच्छकुलैर्द्विधापि यो मालवस्यापि विभुर्विभुत्वं ॥ ३७ ॥ ततो भुवं भूपयतिस्म पृथ्वी-राजः स्वकीयैर्विशदैर्यशोभिः । प्रकंपमाने युधि यत्कृपाणे चित्रं निपेतुर्द्विपतां वतंसाः ॥ ३८ ॥ मूर्च्छुह्यमाना सततं जनानां मनोरथानाशु समर्थयंती । आज्ञा यदीया हरपादपद्म-सेवेव कल्याणकरी बभूव ॥ ३९ ॥ गंधर्ववृंदैर्दिवि गीयमानां सौभाग्यभंगीं विनिशम्य यस्य ॥ सा का सुरी स्वस्य न या ववांछ तत्संगमावाप्तिकरं नरत्वं ॥ ४० ॥ ततो बभोव्हाल्हणदेवसंज्ञो भूभृद्भटं मन्यशिरोवतंसः ॥ वने द्विपंतः स्मृतयद्गजेंद्रा श्चकंपिरे वीक्ष्य महीभृतोपि ॥ ४१ ॥ देहीति जल्पन्नपि याचकेन दानप्रियो यो न जजल्प नेति ॥ दातन्नकिं दानपदेस्ति नोर्पि बलीयसी केवलमीश्वरेच्छा ॥ ४२ ॥ छिन्नद्विषच्छोणितशोणशोची रणेषु यस्यासिलता चकासे । या स्पार्द्धिनीं वाचमुवाच तेन कृष्टेव जिह्वा युधि सैव तेषां ॥ ४३ ॥ यद्रूपगानं भुवि गीयमानं निपीय कर्णांजलिभिर्निकामं । स्वप्नप्रसंगात्तदीयसंगा बभूव का नो धृतकामरंगा ॥ ४४ ॥ भानल्लदेवो भटमौलिमौलिरथोपयेमे नृपतित्वलक्ष्मीं । यः संगरे दारितवैरिवार-पाणिंधमं स्वर्गपथं चकार ॥ ४५ ॥