हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 63, कुल 185 में से
संदर्भ में पढ़ें१४ श्रीहम्मीरमहाकाव्ये [सर्गः जेगीयमानं निजकामिनीभि राकर्ण्य यं शेष इति प्रदध्यौ । कोप्यस्ति धत्ते वसुधां क्षणं यां गत्वा यथैनं प्रविलोकयामि ॥ ४६ ॥ स्वकालिमानं वितरन्नरीणां तेषां च जीवं च यशांसि गृह्णन् । रणे यदीयः करवालदंडो वणिक्फलाकौशलकेलिरासीत् ॥ ४७ ॥ गिरीशकैलाससुधासुभांशु--श्रियं समाकृष्य यशः किमस्य । वेधा व्यधत्तास्य पुरो यदेते निःश्रीकतामाकल्यांबभूवुः ॥ ४८ ॥ प्रोदंच्यपाणिं कनकाद्रिदंभा दिदं जगादेव वसुंधरैषा । दाता विवेकी विनयी नयी वा विहाय नैनं सुगुणं मयान्यः ॥ ४९ ॥ त्रस्तेन पत्याऽर्धपथे विमुक्ता स्थितापि यद्वैरिवधः स्वदेशे । शीतद्युतेस्तीव्रतया नवं स्वं दीपांतरं प्राप्तममंस्त किंचित् ॥ ५० ॥ पर्यंतशैलप्रतिबिंबदंभात् क्रीडारसक्रोडितदिग्द्विपं यः । अचीखनत् पुष्करपुण्यपारं कासारसारं शुचि वारितारं ॥ ५१ ॥ विस्मापकश्रीर्भवति स्म तस्मा द्भूत् जगद्धेव इति प्रतीतः । दानं समानं समवाप्य यस्य वनीपकाः [के धनिनो नचोर्व्यां] ॥ ५२ ॥ सशोकधूमाश्रुजलैर्मिलित्वा निःश्वासवातैररिपुकामिनीनां । सद्यो घनीभूय न दुर्दिनानि तेने यदोजो ज्वलनः किमासां ॥ ५३ ॥ त्यागेतिविश्वस्य विधेर्विधित्सो र्यस्यांगुलीः पाणितलं नखींश्च । स्वर्गोस्तनाः स्वर्तुमलवाः स्व-मणिः किलाभ्यासकृतेयसृष्टिः ॥ ५४ ॥ गुणान् यदीयान् गणयन् विधाता परिश्रमं तं कलयांचकार । त्रिलोक्य सृष्टावपि नानुभूतो र्यल्लेशमात्रं विषयीबभूव ॥ ५५ ॥ ततो भवद्विश्वलदेवनामा विश्वापतिर्विश्वविकासिधामा । यत्पाणिपाथोरुहि कर्णिकायाः पुपोष भावं ननु भूतधात्री ॥ ५६ ॥ विदारिताऽरातिकरींद्रकुंभा द्यान्यत्र पेतुर्युधि मौक्तिकानि । तान्येव पुष्पाणि विकस्वराणि यदीयकीर्तिव्रततेर्बभूवुः ॥ ५७ ॥ यदीयकीर्त्या विजितो हिमाद्रि रद्यापि नाश्रूणि विमुंचते किं । भृशं तपत् तापनतापनेन द्रवीभवद्धैमशिलाछलेन ॥ ५८ ॥