हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 65, कुल 185 में से
संदर्भ में पढ़ें१६ श्रीहम्मीरमहाकाव्ये [ सर्गः कर्पूरदेवीति बभूव तस्य प्रिया [प्रिया] राधनसावधाना । जितं यदास्येन जले निलीया द्याप्यप्सुजं किन्न तपस्तनोति ॥ ७२ ॥ इहस्थितो ऽसौ रमणः कदाचित् विलोक्य लुब्धो भविता बतैताः । इतीव या नो हृदये प्रवेष्टु मेणीदृशामप्यदितावकाशं ॥ ७३ ॥ पत्या भुवो वैषयिकं विनोदं सा निर्विशंकं किल निर्विशंती । अमानधामानमसूत सूनुं हरेरिवाशा तुहिनांशुबिंबं ॥ ७४ ॥ अतुच्छवात्सल्यभरं दधानो वितत्य तज्जन्ममहं महांतं ॥ जगज्जनाल्हादकरस्य पृथ्वी—राजेतिनामाऽधित तस्य भूपः ॥ ७५ ॥ तनुत्विषान्निर्द्दलितांधकार—जालः स बालोऽन्वहमेधमानः । भृशं प्रजानां नयनांबुजानां भद्रं करो भानुरिवाजनिष्ट ॥ ७६ ॥ शस्त्रेषु शास्त्रेषु च लब्धपारं विलोक्य भूमानथ तं कुमारं । साम्राज्यभारं प्रवितीर्य तस्मै योगेन मार्त्तं वपुरुत्ससर्ज ॥ ७७ ॥ पित्रा प्रदत्तं समवाप्य काले राज्यं स भूभृन्नितरां चकासे । अहर्मुखे हर्पति नोदयाद्रि र्यथा तमोव्रातविनाशि रोचिः ॥ ७८ ॥ गुणाभिघातं प्रसभं प्रकुर्व न्नप्येष चक्रे न गुणाभिघातं । अपि प्रतन्वन् परलोकबाधां न च प्रतेने परलोकबाधां ॥ ७९ ॥ निषेवमाणोप्यसितांसवृत्तिं नैवासितां वृत्तिमुपादितैषः । तेनेति तेने परलोकपीडा न तेन तेने परलोकपीडा ॥ ८० ॥ द्विट्कुंभिकुंभतटदत्तदृढप्रहार- प्रत्यंगलग्ननवमौक्तिककैतवेन । क्षमामंडलं फलितुमुन्मिषितप्रसून राजीव यस्य युधि खड्गलता विरेजे ॥ ८१ ॥ कीर्तिर्यस्य सतीव्रतेति मृदुरप्याधत्त न प्रत्ययं चित्ते कस्य न योज्झतिस्म तमहो कल्पांतमप्यास्थितं । अन्येषां तु सतीव्रतापि न सती वेश्येव तान् जीविता वध्येवोज्झति चेन्नयास्म कतिचित्तान् जीवतोप्युज्झति ॥ ८२ ॥