हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 66, कुल 185 में से
संदर्भ में पढ़ें२ ] पूर्वजवर्णनम् १७ वाग्देवीं चिकुरे शशांक मुदरे शंभुं गले तद्वृषं प्रोद्यामे बलमंबरे मदकलं स्वःकुंभिनं कुंभयोः । जग्राहास्य यशोभ्रमेण भुवने भ्राम्याद्विषां दुर्यशो धिग्वैरस्य दुरंततां स्फुरति या तत्संततावप्यहो ॥ ८३ ॥ भेजे यस्य शयालुतां शयपयोजन्मन्यसा विंदिरा । तद्रागेण समेदसिच्छलमलंकृत्य स्वयं श्रीपतिः । नैवं चेत् बलिवैरिविक्रमभरध्वंसेऽस्यकौतस्कुती शक्तिः संयति संबभूव नितमामुल्लासिनीलद्युतेः ॥ ८४ ॥ दिक्शैलद्विपकूर्मभोगिविभवः प्रोद्धृत्य सर्वसहां तद्भूयो भरभंगुराः परिमुमुक्षंतोपि कंपच्छलात् । दृष्ट्वा यं प्रतिपन्नसूरमनिशं भूपालचूडामणि लज्जाकीलककीलिता इव न तां शंके त्यजंति स्म ते ॥ ८५ ॥ औन्नत्येन यशोभरेण च पराभूतिं परां लंभितो- ऽस्योचैर्लभयितुं पराभवपदं वांछन् स्वयं तौ पुनः । ईशाराधनमाततान हिमवान् कन्याप्रदानादिभि र्व्यर्थं किं यशसैककेन न तयोस्तं वेदमूढोज्झित ॥ ८६ ॥ चिंतारत्नावनद्धेऽनवरतममृता सिक्तकल्पद्रुसांद्र- च्छायाच्छन्ने निषण्णाः श्रमविगमकृते चत्वरे चत्वरेपि । तीरे सिद्धापगायाः सुरसुरभिगणांश्चारयंत्योस्पदानं जेगीयंतेस्म देव्यः करकमलमिलद्वेणुवीणाविलासाः ॥ ८७ ॥ शश्वद्येन निरीतितां गमयता क्षोणीतलं क्ष्माभृता दिष्ट्याप्यतिवृष्टयो जलनिधेः पारं प्रयातुं परं । यत्प्रक्षिप्य ददृशिरेऽक्षिषु निजेषूच्चैरिपुस्त्रीजनै- स्तत्तेनैव हतप्रियेण पुपुषे साकं न किं वैरिना ॥ ८८ ॥ यत्खड्गक्षुण्णभूमीपतिविततिशिरःसंचरद्रक्तधारा- वारां राशिः प्रसर्पन् क्षितितलमखिलं रक्तमेवाकरिष्यत् । 3 k