हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 67, कुल 185 में से
संदर्भ में पढ़ें१८ श्रीहम्मीरमहाकाव्ये [: एषा प्रोद्गच्छदच्छामृतकरकिरणक्षुब्धदुग्धाब्धिमुग्धा यत्कीर्तिर्विस्फुंती यदि सपदि न तत् श्वेततामापयिष्यत् ॥ ८९ ॥ वीरे यत्र रणे तथा वितरणे सन्मार्गणानां गणां- स्तन्वाने प्रथमानमानविभवे संलब्धलक्षान् क्षणात् । पूर्वोपार्जितकीर्तिकर्त्तनभिया संभ्रांतचित्ताश्चिरं कश्चिन्न श्रयतिस्म दानपरतां नो वा भटंमन्यतां ॥ ९० ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- महाकाव्ये वीरांक्रे श्रीभीमदेवप्रभृतिपूर्वजवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ छ ॥ अथ तृतीयः सर्गः अथ प्रथीयस्तरसा रसायास्तलं शयालुं स्वंशये शकेन । सहाबदीनेन वितन्वतालमुपद्रुताः पश्चिमभूमिपालाः ॥ १ ॥ आह्लादनेनाखिलभूतधात्र्या यथार्थतां नाम निजं नयंतं । गोपालचंद्रांगवितीर्णरंगं श्रीचंद्रराजं पुरतो निधाय ॥ २ ॥ उपायनानीतमहेभकुंभ—गलन्मदाद्रीकृतभूमिभागं । भेजुर्भुजोर्जाविजितारि पृथ्वी—राजा लयद्वारमुदारवेगाः ॥ ३ ॥ त्रिभिर्विशेषकं प्रवेशिता नाथगिराथ वेत्र—करेण कांताभरणा नरेण । पृथ्वीपतेः पादसरोजयुग्मं नत्वा यथा स्थानमुपाविशंस्ते ॥ ४ ॥ दीनाननाँस्तान् प्रविलोक्य पृथ्वी—राजस्ततः पार्श्वचरानुवाच । पद्मा हिमासीव निदाघसंङ्गे श्रियं किमंते दधते न भूपाः ॥ ५ ॥ तं चंद्रराजोथ जगाद चंद्र—श्रीगर्वकूलंकषदंतदीप्त्या । हृद्युल्लसद्भाङ्ग्यदुग्धसिंधौ विस्तारयंस्तारतरानिवोर्मीन् ॥ ६ ॥ तपःप्रभावाजितवर्यवीर्यः सहाबदीनः शकमेदिनीनः । उपप्लवायाजनि धूमकेतु रिवावनौ बाहुजमंडलानां ॥ ७ ॥