भारतकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

१८ श्रीहम्मीरमहाकाव्ये [: एषा प्रोद्गच्छदच्छामृतकरकिरणक्षुब्धदुग्धाब्धिमुग्धा यत्कीर्तिर्विस्फुंती यदि सपदि न तत् श्वेततामापयिष्यत् ॥ ८९ ॥ वीरे यत्र रणे तथा वितरणे सन्मार्गणानां गणां- स्तन्वाने प्रथमानमानविभवे संलब्धलक्षान् क्षणात् । पूर्वोपार्जितकीर्तिकर्त्तनभिया संभ्रांतचित्ताश्चिरं कश्चिन्न श्रयतिस्म दानपरतां नो वा भटंमन्यतां ॥ ९० ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- महाकाव्ये वीरांक्रे श्रीभीमदेवप्रभृतिपूर्वजवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ छ ॥ अथ तृतीयः सर्गः अथ प्रथीयस्तरसा रसायास्तलं शयालुं स्वंशये शकेन । सहाबदीनेन वितन्वतालमुपद्रुताः पश्चिमभूमिपालाः ॥ १ ॥ आह्लादनेनाखिलभूतधात्र्या यथार्थतां नाम निजं नयंतं । गोपालचंद्रांगवितीर्णरंगं श्रीचंद्रराजं पुरतो निधाय ॥ २ ॥ उपायनानीतमहेभकुंभ—गलन्मदाद्रीकृतभूमिभागं । भेजुर्भुजोर्जाविजितारि पृथ्वी—राजा लयद्वारमुदारवेगाः ॥ ३ ॥ त्रिभिर्विशेषकं प्रवेशिता नाथगिराथ वेत्र—करेण कांताभरणा नरेण । पृथ्वीपतेः पादसरोजयुग्मं नत्वा यथा स्थानमुपाविशंस्ते ॥ ४ ॥ दीनाननाँस्तान् प्रविलोक्य पृथ्वी—राजस्ततः पार्श्वचरानुवाच । पद्मा हिमासीव निदाघसंङ्गे श्रियं किमंते दधते न भूपाः ॥ ५ ॥ तं चंद्रराजोथ जगाद चंद्र—श्रीगर्वकूलंकषदंतदीप्त्या । हृद्युल्लसद्भाङ्ग्यदुग्धसिंधौ विस्तारयंस्तारतरानिवोर्मीन् ॥ ६ ॥ तपःप्रभावाजितवर्यवीर्यः सहाबदीनः शकमेदिनीनः । उपप्लवायाजनि धूमकेतु रिवावनौ बाहुजमंडलानां ॥ ७ ॥

२ ] पृथ्वीराजसंग्रामवर्णनम् १९ देशानशेषान् जहि नागराणां हरेणनेत्रा दह मंदिराणि । विगृह्य यो बाहुजराजराजेः कुलानि चक्रे विपदाकुलानि ॥ ८ ॥ अशेषभूपालविशेषकाभ के नाम ते क्षोणिभुजः क्षमायां । स स्वौजसा त्रासितबाहुजानां वृंदैर्दर्रीः पूरितवान्न येषां ॥ ९ ॥ यः संगरे संगररंगवेदी क्षात्रं क्षणाद्द्वेषम नयन् यमस्य । किं भार्गवोयं पुनरेव जात इत्याकुलैर्वीरकुलैर्न्यतर्कि ॥ १० ॥ अयं समागादयमः समागाज्जना इति स्फारितलोचनाब्जं । दिशो दशापि प्रविलोकयंतो यतो भयेनानिमिषीबभूवुः ॥ ११ ॥ उद्वास्य शस्यान्यपि भूपतीनां यस्त्रैपुराणीव पुराणि शंभुः । अतिष्ठिपत् द्विट्कुलशूल मूल—स्थाने प्रधाने निजराजधानीं ॥ १२ ॥ निःकारणं दारुणवैरभाजा तेनाभिभूता नृपभूभुजोमी । समैयुरुस्त्वां शरणं शरण्य मतो भवानेव परं प्रमाणं ॥ १३ ॥ इत्येतदीयां विनिशम्य वाचं वाच्यंमानामापि कोपरूचीं । आकृप्य कूर्चं तरवारिमुष्टि—पट्टिष्टनाभात्करवारिजेन ॥ १४ ॥ मयूरबंधेन निबंध्य नैनं पादारविंदे यदि वः क्षिपामि । जातोन्वये तर्हि न चाहमाने इति प्रतिज्ञामकरोन्नरेशः ॥ १५ ॥ ततस्ततः श्रीः शुभकारिसर्व—ग्रहे विलग्ने विजये च योगे । चचाल चंचन् प्रतिपंधिमथ चिकीर्षया व्याकुलचित्तवृत्तिः ॥ १६ ॥ पौरैणपोताभदृशः प्रयांतं प्रक्षिप्तिक्षितुस्तं प्रति यान् कटाक्षान् । मांगत्यहेतोः स्म भवंति तस्य त एव दूर्वाक्षतकांतिभाजः ॥ १७ ॥ निरंतरप्राप्तमहाप्रसाद—विशुद्धये शुद्धधियः प्रकामं । करस्फुरत्स्फारतरासिदंड-स्फुराः प्रचेलुर्बरवीरवाराः ॥ १८ ॥ द्यावापृथिव्योरुदरंभरीणि प्रोत्तुंगरंगद्गजगर्जितानि । अपि द्वयानां धरणीधराणां सत्त्वानि चक्रुर्विधुताधृतीनि ॥ १९ ॥ प्रतापसूर्येऽभ्युदितेऽस्र्यये साध्यं किमेतेन बतोद्यतेन । इतीव तीव्रद्युतिमुद्यतश्चि-सैन्योत्थरेणुस्तिरयांबभूव ॥ २० ॥

२० श्रीहम्मीरमहाकाव्ये [सर्गः रजोव्रजै र्वाजिखुराभिघातो—त्थैर्जातमुद्गत्वमपि प्रयाताः । मदोदकैः सैन्यमतंगजानां वंशद्वयस्यः सरितो बभूवुः ॥ २१ ॥ इति प्रयाणैः कृतवैरिवारः प्राणप्रयाणैर्नृपतिः कियद्भिः । वसुंधरा भूरितरामतीत्याऽभ्यवेष्टयत्तच्छकराजदेशं ॥ २२ ॥ आजग्मिवांसं तमुपस्वदेशं चौरैरथाकर्ण्य शकेश्वरोपि । संनह्य सैन्यं रिपुदत्तदैन्यं भेजेभ्यमित्रत्वमवार्यवीर्यः ॥ २३ ॥ कोदंडदंडद्युतिमंडितांगाः कटीतटावद्धवृहन्निषंगाः । सूक्ष्माखिलक्षीकृतवैरीवीराः पृष्ठेनिरीयुर्यवनप्रवीराः ॥ २४ ॥ प्राक् रेणुजालानि ततः करेणु-कुंभभ्रमत्षट्पदझंकृतानि । ततो भटानां स्फुटसिंहनादाः सैन्यद्वयस्याप्यमिलंस्तदानीं ॥ २५ ॥ परस्परालोकनितांतजात-प्रसृत्वरायत्नकवेल्हदंगाः । नानास्फुरद्धेतिभृतः प्रवीराः प्रतेनिवांसो रणरंगलीलां ॥ २६ ॥ मणीचकानीव महीरुहाणां क्षिपन् यशांसि द्रुतविद्रुतानां । ववौ मरुत्वान् भटराजराजि-करांबुजयक्तपृषत्कजन्मा ॥ २७ ॥ मिथः समानाक्षिनिरीक्षणेन प्ररूढगूढप्रतिघा इवोच्चैः । घटैकदेशीयभटास्तुशोभा- श्वानामयुध्यंत हठात्तदानीं ॥ २८ ॥ दंतावलस्य प्रथरं प्रविश्य कश्चित्तदाघातकलाविपश्चित् । क्षुर्या विदार्योदरमुग्रवीर्यो विलोठयामास तमाशु भूमौ ॥ २९ ॥ उल्लुत्य कश्चित्तरसा रसाया आरूढवांस्तुंगकरींद्रकुंभं । लांगूललीलायितखड्गदंड एणारिलीलां कलयांबभूव ॥ ३० ॥ काश्चित्पदात् स्पंदनमापतंतं धृत्वा करी काकमुखे सुखेन । अवाप्य सद्यो भ्रमिमंतरिक्षे प्रास्फालयत्संगरभूमिशिलायां ॥ ३१ ॥ प्रक्षिप्य पश्चात्करमुग्रवेगात् उत्पाटितस्पंदनकैतवेन । योद्धुं स्वयं पट्टिशमादधान इवेतरोभात्पदगै रमेभः ॥ ३२ ॥ चीत्कारमाकर्ण्य मतंगजानां वित्रस्यतः कोपि तुरंगमस्य । उष्णीषखंडेन पिधाय कर्णावपूपुरत्तैः सममाहवेच्छां ॥ ३३ ॥

३ ] पृथ्वीराजसंग्रामवर्णनम् २१ हंतुं क्रुधा दंतिनमापतंतं अरंतुदाग्रैर्युधि दद्रिरेव ॥ प्रार्थ्यना लूनभुजद्वयोन्यो दशन् प्रतेने नययुद्धमेव ॥ ३४ ॥ सन्नाहसंधावभिजातगात्र-प्रभेदने किं कुतुकं भटानां । मनोपि तेषां परमाणुरूपं अभेदि यत्तैः करलाघवेन ॥ ३५ ॥ तदा विपत्तौ पितरः सुतानां प्रमोदपूरं युधि लेभिरे यं । अपुत्रिणामप्यजनिष्ट तेषा मेतच्छतांषोपि न जन्मकाले ॥ ३६ ॥ अयोदृढैश्चारभटैस्तुरुष्का श्चंडासिदंडैरभिताड्यमानाः । नेशुः समंताल्गुडप्रपातै र्यथा कुलान्येकविलोचनानां ॥ ३७ ॥ स्यालेष यंत्रांतरसंस्थितानां यादृग्यवस्था हरिमंथकानां । तादृग्बभूद्भूपतिचाहमान-रणाश्रयाणां यवनेश्वराणां ॥ ३८ ॥ दृष्ट्वा विशीर्णं युधिजीर्णकल्प मिवात्मनीनं शिविरं शकेशः । क्रोधादधाविट महिष्टमुष्टि-धृतासिदंडः स्वयमाशुचंडः ॥ ३९ ॥ तमापतंतं प्रसमीक्ष्य चाह-मानोप्यधावद्द्रुततीव्रवेगः । अंतःस्फुरत्क्रोधकृशानुकीला-नुकारिरागारुणदारुणाक्षः ॥ ४० ॥ करोदरोल्लासिमहासिसिंड—छलोल्लसत्पुष्करदुर्निरिक्षौ । अभ्युद्यतौ वन्यगजौ किमेतौ वितर्क्यमाणाविति वीरवारैः ॥ ४१ ॥ प्रपूरयंतौ भुवनोदराणि पादाभिघातप्रतिजातशब्दैः । मिथः प्रहारप्रयनप्रवीणौ युद्धं चिरायातनुतां क्रुधा तौ ॥ ४२ ॥ एवं नृदेवो युधि युध्यमानः प्रसह्य किंचिच्छलमाकलय्य । शक्राधिराजं विनियम्य सम्य गपूरयत्स्वां विधिवत्प्रतिज्ञां ॥ ४३ ॥ महीमहेंद्रान् शरणागतांस्तान् स्वे स्वेधिकृत्वा विषये नयेन । ततः स मानी निजराजधानी मापद्धिमानानीकृतशत्रुजातः ॥ ४४ ॥ वासांसि दत्वा सुरलोकलोभिमहांसि तस्मा इति राड् मुमोच । हा तत्र को नाम पुनर्विधित्सु रसामया संगरमेवमुच्चैः ॥ ४५ ॥ पृथक् पृथक् संगररंगभंग्ये—त्थं सप्तकृत्वः क्षितिवासवेन । विनिर्जितोऽसौ यवनावनीशो मम्लौ च जम्लौ च भृशं नृशंसः ॥ ४

२२ श्रीहम्मीरमहाकाव्ये [ सर्गः अथासहस्तं स्वबलच्छलाभ्यां जेतुं शकेशः शक्रचक्रकेतुं । बलाभिलाषी प्रचचाल चंद्र इव ग्रहेशं प्रति षर्परेरशं ॥ ४७ ॥ कांबोजलंगाहथभीमभिल्ल—बंगादिदेशाधिपपेंटलश्री । शिष्टाष्टलक्षप्रमितामिताहि—कांतखराजिखरवाजिराजी ॥ ४८ ॥ संपादितातातिविपत्तिपत्ति—कोश्याकुलं शौर्यकलं बलं स्वाक् । उक्तात्मवार्ताय नृपाय तस्मै घट्टैकदेशीय नृपो ददेऽथ ॥ ४९ ॥ सद्यस्ततोऽसौ प्रसरत् प्रसादात् साम्राज्यमासाद्य सहाबदीनः । न केनचित् ज्ञातचरः समेत्य जग्राह दिल्लीमतिविग्रहेण ॥ ५० ॥ ततो भियाभ्यस्तपलायनानां हताहता हेति कृतारवाणां । भग्नप्रभाणां मुखतो जनानां समागमं शत्रुपेर्तर्निशम्य ॥ ५१ ॥ रणे मयासौ शतशो जितोपि किं चापलं बाल इवातनोति । वहन्नहंकारमिति क्षितीशः प्रचेलिवांस्तुच्छपरिच्छदोपि ॥ ५२ ॥ युग्मं प्राग्लग्नतद्धस्तभृशानुभूत—भीस्तं समीक्ष्येति शकः प्रद्धयौ । अस्माकमेकाक्यपि नैष जेतुं शक्यो मृगाणामिव पंचवक्त्रः ॥ ५३ ॥ ततो निशीथे निभृतांधकारे संप्रषितैः प्रत्ययितैः शकेशः । अबीभिदत्पुष्कलनिष्कदानै स्तस्याश्वपालं सह तौर्यिकैः सः ॥ ५४ ॥ दिष्ट्या समेता ध्रुवमस्मदुक्ता यास्यंति वेश्मानि परं निजानि । हन्मो वितन्मोद्य दृढं स्वराज्य मित्युक्तियुक्तिप्रथका मिथोपि ॥ ५५ ॥ आकाशशेषे तुहिनांशुबिंबे प्रकाशकल्पेऽतुहिनद्युतौ च । शकाः समंतान्निभृतं समेत्य पृथ्वीपतीये शिबिरे निपेतुः ॥ ५६ ॥ युग्मं गृहाण शस्त्रं निगृहाण शीघ्रं प्रयात एवैष शक्रोऽग्रतस्ते । आहन्म एतान्निहता बतैतै रित्थं भटोप्रोट्ठवाक्यचित्रे ॥ ५७ ॥ प्रवर्त्तमाने समरे समंता च्छकेशनुन्नेन तदाश्वपेन । तुरंगमस्तेन नृपाय नाटा—रंभाभिधानो श्रयते ददे सः ॥ ५८ ॥

३] • पृथ्वीराजसंग्रामवर्णनं २३ तमश्वमारूढममुं विभाव्य शकात्तचित्ता अथ तौर्यिकास्ते । अवीवदन् वीरवरप्रियाणि मृदंगभेरीपटहादिकानि ॥ ५९ ॥ अभ्युन्नतांभोधरधीरगार्जि—वितार्जनं तूर्यरवं निशम्य । प्रनर्तितुं बर्हणवद्ववृत्ते तार्क्ष्यं विलक्षः क्षणमास भूपः ॥ ६० ॥ भज स्थिरत्वं व्रज मा विषादं इत्युक्तिभाजो यवना जवेन । किं कार्यता मूढममुं तयास्थ मवेष्टयन् द्राक् चटका इवाहिं ॥ ६१ ॥ भुवं स्पृशन् दक्षिणपादजानुं—गुष्ठेन चाकुंचितवामपादः । वहन् कृपाणावरशं च हस्ते ज्योत्स्न्य सप्तेनिषसाद भूमौ ॥ ६२ ॥ भंग्या ध्रुवः कांश्चन कांश्चिदुग्रा—सैर्बलनैः कांश्चन सिंहनादैः । वित्रासयन् चित्रविधायि युद्धं चिराय चक्रे भटचक्रशक्रः ॥ ६३ ॥ पृष्ठे शकस्तावदुपेल्य कश्चित्प्रक्षिप्य कंठे धनुर्राततन्यं । अपीपतद्द्पतिमाशु पश्चात् संभूय सर्वे तरसा बबंधुः ॥ ६४ ॥ अथ स धरणिकांतः सद्गुणाली निशांतः प्रतिहतखलजातः प्रौढराढावदातः ॥ विधिविलसितयोगादाप्तबंधः शकेन्द्रात् द्विरपि रतिमहासीद्भोजने जीवने च ॥ ६५ ॥ यवनाधिपदेशमनुप्रहितं विभुनै[व] पुरोदयराजभटं । समुपेतमवेक्ष्य तदा शकराट् प्रविवेश पुरीमुररीकृतभीः ॥ ६६ ॥ कष्टं निशम्योदयराज ईशितुः प्राप्तं तथा नाह मभूव मित्यथ । मूर्धानमुच्चैरधुनोन्मुहुर्मुहुः शल्यं तदुद्धर्तुमिव स्वतो हृदः ॥ ६७ ॥ संत्यज्यैनं व्यसनपतितं स्वामिनं चेद्व्रजामि व्रीडां व्रीडा कलयति तदा गौडगोत्रे सुखं मे । इत्थं ध्यात्वा शकपतिपुरीं संनिरुध्याभितोसौ तस्थौ पक्षद्वयमनुदिनं युध्यमानो हठेन ॥ ६८ ॥ म्लेच्छावनीपमिममेवमन्यदा कश्चिज्जगाद सविषादमानसः । त्वामेष कोऽमुचदनेकशो रणे त्वं नैकवेळमपि हा जहास्यमुम् ॥ ६९ ॥

२४ . श्रीहम्मीरमहाकाव्ये [ सर्ग : धर्मोचितामपि तदेति तद्गिरं श्रुत्वा भृशं स कुपितो नृशंसधीः । उच्चैत एत इत एव विद्रव—द्राजज्ञकोपनिषदस्तिमित्यवक् ॥ ७० ॥ वीरेंद्रेष्वथ दत्तदृष्टिषु धरापीठे ह्रिया स्वाक् सतां सांद्राश्रुस्रुतिसिक्तशोकलतिकाकंदेषु वृंदेषु च । आनीयैष नृपं तमुग्रतररुट् दुर्गांतरे चीचय- त्कार्याकार्यविचारणांधबधिरा हाहाऽधमाः सर्वतः ॥ ७१ ॥ शैवा यं “चिच्छव” मामनंति “सुगतं” बौद्धा यदाचक्षते “सर्वज्ञं” यदुदाहरंति नितमामर्हन्मते छेकिलाः । तद्ब्रह्माद्रुतचिन्मयं स्थिरमनास्तत्र स्थितोऽसौ स्मरन् पृथ्वीराजनृपो नृपालितिलको लेभे शिवं शाश्वतं ॥ ७२ ॥ पृथ्वीपतेरिति विनाशगतिं निशम्य दूनः स गौडकुलपंकजबालसूर्यः । स्थानं निजं तदुपगम्य बलं स्वयं च युध्वा दिवस्पतिपदं तरसाससाद ॥ ७३ ॥ अधिगत्य भूपतिविपत्तिमिति स्रवदश्रुमिश्रनयनस्तदनु । विहितौर्ध्वदैहिक इलामखिलां स्वकरे चकार हरिराजनृपः ॥ ७४ ॥ यन्नामप्रतिवर्णसंश्रुतसुधापूरापतद्यद्यशः कर्पूरोरुरजोभरप्रसृमराविर्भाविपंकाकुले । वाणीनां पथि नाभजंत पथिकीभावं यदीया गुणा औदार्यप्रमुखाः किमद्भुतमहो तत्तत्कवीनामपि ॥ ७५ ॥ यत्पाणि सरसीरुहं किल रमा भेजेऽसिदंभाच्च तां रागादन्वगमत्स्वयं हरिरभूत्सूनुः प्रतापस्तयोः । यः श्रुत्वाऽग्रजवैरिणं स्मररिपुं कोपांत्तथाऽतीतपत् नालं दूरयितुं यथा क्षणमपि स्वस्मात्स गंगामभूत् ॥ ७६ ॥ भूचक्रे स्वयशोऽद्रितुंगशिखरादभ्युद्गतैरंशुभि- र्ब्रह्मांडादहतिभ्रमवेगविधुरैः पश्चान्निवृत्तैः पुनः ।

३ ] पृथ्वीराजसंग्रामवर्णनम् २५ देवानामपि कुंभजन्ममुनये दातुं किमर्थं व्यधात् नित्योल्लासिविकासिकाससुभगं भूष्णुश्रियं यौ दिवम् ॥ ७७ ॥ विधुरतिविधुरश्रींनिस्तरंगा च गंगा कनकगिरिरगौरस्तंक्तगर्वश्च शर्वः । कुमुदममदमैंद्रः सिंधुरो नोद्दुरोजा अजनि लसति विवस्त्रीचि यत्कीर्तिपूरे ॥ ७८ ॥ यान् यान् व्यत्यगमन्नृपान् कृतनतीस्ते ते प्रकाशं ययु- र्यान् यान् प्रत्यचलच्च भेजुरभितस्ते ते क्षणान्म्लानतां । यस्य क्षोणिपतेः प्रतापवसतेर्दिग्जैत्रयात्रोत्सवे सेना कापि न वा व्यराजततमां संचारिणी दीपिका ॥ ७९ ॥ कर्तुं दिग्गजमुद्यतस्य निखिलं क्षोणीतलं क्रामता- मश्वानां गतिभंगता मुपनयन् वेगोत्तरं धावतां । वारांराशिरसावजायत तमां यस्यांतरायः कवे- र्वाचां वाच्यविचारभास्वररुचां गोष्ठीशठानामिव ॥ ८० ॥ हत्तानेन विपक्षभूमिपतयः स्वैर्विभवं लंमिता अस्येमामुपकारितां स्वहृदये संभाव्य तेपि क्षणात् । सचक्रुर्गजवाजिराजिवसुधाकोशादिदानैरमुं वंध्यं सारपरोपकारजनितं पुण्यं न शत्रावपि ॥ ८१ ॥ हुत्वा यो निजकोपपावकमुखे द्विद्वीरहव्यं शुचा- कंदत्कंदमणीविलोचनगलद्वाष्पांबुभिर्भूरिभिः । भूचक्रेञ्च तथातिवृष्टिमनिश् प्रोल्लासयामासिनान् आशिश्राय यथाविनाशमचिरादन्यायबीजांकुरः ॥ ८२ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा- काव्ये वीरांक श्रीपृथ्वीराजसंग्रामवर्णनो नाम तृतीयः सर्गः॥ 4 A . .

२६ श्रीहम्मीरमहाकाव्ये [ सर्गः अथ चतुर्थः सर्गः कुर्वन् कुवलयोल्लास मसन्तापकरैः करैः । वेला इव तुषारांशुः स प्रजा अभ्यवीवृधत् ॥ १ ॥ राज्यं निर्विशतेऽन्येद्यु र्हरिराजमहीभृते । प्रीतिव्रततिवृद्ध्यर्थं श्रीगुर्जरनरेश्वरः ॥ २ ॥ विस्फुरच्छुक्रसंबंधाः समुन्नतपयोधराः । वर्षा इवोहसद्धर्षाः प्रेषयामास नर्त्तकीः ॥ ३ ॥ युग्मं अन्यदा स्फुरितोदार—स्फारशृंगारभासुरे । नृपे च नृपलोके च स्फीतप्रीतौ निषेदुषि ॥ ४ ॥ वाद्यमानेषु वाद्येषु तालमेलमनोहरं । गायनेषु च गायत्सु कोकिलालापकोमलं ॥ ५ ॥ दृढयौवनसोपानाः शृंगाररसवारयः । विस्फुरद्बालसेवाला विलासोल्लासवीचयः ॥ ६ ॥ पीनस्तनोल्लसत्कोका विस्मेरवदनांबुजाः । चलदृक्पृथुलोमानः सुमेषोद्दीर्घिका इव ॥ ७ ॥ वात्याव्यतिकराद्धूत—कदलीदलवत्तनुं । वेल्ल्यंत्यो भ्रमंत्यश्च चक्रजीविकचक्रवत् ॥ ८ ॥ कदाचिद्भुजयोर्मूलं कदाचिन्नाभिमंडलं । कदाचन कुचोन्नत्यं दर्शयंत्यो मुहुर्मुहुः ॥ ९ ॥ लसल्लावण्यलीलाभि र्लोकलोचनलोभनाः । मूर्त्ताः (कंदर्प) दर्पास्ताः प्रावर्तंत प्रनर्त्तितुं ॥ १० ॥ सप्तभिः तस्याजननमेवासी दासां लावण्यवारिधौ । मग्ने दृग्मनसी यस्य निर्यातुं शक्ततां गते ॥ ११ ॥

४ ] तज्जन्मवर्णनम् २७ इति तासां स्फुरद्वासो नाट्यं पश्यन्नहर्निशं । क्षणमात्रमपि त्यक्तुं नालंभूष्णुरभूदयं ॥ १२ ॥ ततोऽसौ गीतनृत्तादि—दक्षदानपरायणः । मितंपचत्वं शिश्राय सेविनां जीविकार्पणे ॥ १३ ॥ वार्तामलभमानास्ते तस्य सेवामहासिनुः। स्वार्थसिद्धिं विना कोपि किं स्यात्कस्यापि सेवकः ॥ १४ ॥ राज्यस्थितिं तथाभूतां दर्शदर्शं प्रजा अपि । विरज्यंतेस्म तस्मात् द्वाग् स्त्रितमा दुर्भगादिव ॥ १५ ॥ एतत्स्वरूपं विज्ञाय प्राग्वैरी शकनायकः । ससैन्योभ्येत्य दिल्लीतो देशसीमानमानशे ॥ १६ ॥ काकनाशं ततो भीत्या प्रनष्टजनताननात् । सौख्यसर्वंकषं श्रुत्वा गमनं शत्रुभूपतेः ॥ १७ ॥ आरभ्य पृथ्वीराजेंद्र—नाकलोकातिवासरं । अकृत्यमिति संत्यक्त—शकाननविलोकनः ॥ १८ ॥ सांतःपुरपुरंध्रीक स्ततोऽसौ ज्वलने विशत् । भाविनी यादृशी कीर्ति र्मतिः स्यात्तादृशी नृणां ॥ १९ ॥ त्रिभिर्विशेषकं नाकलोकं पृणे ऽमुष्मि नम्लासीत्तत्परिच्छदः । अस्तंगते जगद्दीपे स्मेरः किं कमलाकरः ॥ २० ॥ अपुत्रत्वेन भूभर्तुः शत्रोरागमनेन च । चिंताचांतहृदो बाढं मंत्रयंति स्म मंत्रिणः ॥ २१ ॥ अपत्यं भूपतेर्नास्ति भटा न च रणोद्धताः । विपक्षस्तु महावीर्यः कथं रक्षिष्यते पुरं ॥ २२ ॥ तत् त्यक्त्वा नीवृतं यामो रणस्तंभपुरं प्रति । सूरोपि बलवैकल्यात् श्रयेत् द्वीपांतरं न किं ॥ २३ ॥

२८ श्रीहम्मीरमहाकाव्ये [ सर्गः तत्रास्ति पृथ्वीराजस्य प्राक् पित्रातो निरासितः । पौत्रो गोविंदराजाख्यः स्वसामर्थ्यात्तवैभवः ॥ २४ ॥ स्वस्वामिवंशकासार-हंसं तं भूपमाश्रिताः । कीर्त्तिपानीभवंतोऽव-तिष्ठेम ह्यकुतोभयाः ॥ २५ ॥ मंत्रयित्वेति भूपीयं सर्वं कोशवलादिकं । सहादाय चलंतिस्म रणस्तंभपुरंप्रति ॥ २६ ॥ दावपावकवत् वाध्यं ज्वालयन् देशमुद्धसं । शकः पश्चादुपागत्या ऽजयमेरुपुरं ललौ ॥ २७ ॥ अथ प्राप्य रणस्तंभं पुरं गोविंदभूपतेः । समगंसत ते सर्वे वृत्तांतं च न्यगादिषुः ॥ २८ ॥ पितृव्यस्य तथाभूतं मृत्युं श्रुत्वा धराधिपः । वाचामगोचरं कष्टं कलयामास मानसे ॥ २९ ॥ स्मृतिस्मृतिपरित्यक्त-शोकः कृतौर्ध्वदैहिकं । धीसत्त्वांस्तान् यथायोग्य-कार्येणायोजयन्नृपः ॥ ३० ॥ पराभवन् द्विषच्चक्रं प्रभवन् न्यायवृद्धये । सौख्यं चानुभवन्स्फीतं स प्रजाश्चिरमन्वशात् ॥ ३१ ॥ गोविंदे दिविषद्वृंदे संचारयति चातुरीं । तानवं शात्रवं निन्ये श्रीमद्वाल्हण भूपतिः ॥ ३२ ॥ घनवत् समरे यत्र शरासारं वितन्वति । नाशेनैवा ऽभवद्व्यक्ता रिपूणां राजहंसतां ॥ ३३ ॥ वर्षत्यपि भृशंवाण-धाराभिर्यद्धनुर्घने । चित्रं विच्छायतामेव भेजिरे शत्रुभूभृतः ॥ ३४ ॥ सखरं जिखरं वीक्ष्य समरे यमरिन्वजाः । अभिलेषुः सपक्षत्वं न वरं नाशहेतवे ॥ ३५ ॥ नाम्नि धाम्नि च संक्षेपं विधित्सन् यो विरोधिनां । अवनीपालतां हित्वा द्राग् वनीपालतां ददौ ॥ ३६ ॥

४ ] तज्जन्मवर्णनम् २९ स दानभोगौ गोचक्र-मंडनौ पापखंडनौ । उभावभूतां तत्पुत्रौ सूर्याचंद्रमसाविव ॥ ३७ ॥ गुणश्रेष्ठस्तयोर्ज्येष्ठः ख्यातः प्रल्हादनाह्वयः । द्वैतीयीको द्वितीयश्रीर्वाग्भटः प्रतिपद्भटः ॥ ३८ ॥ समं वितन्वतः क्रीडां सममभ्यस्यतः कलाः । अवर्द्धिष्ट तयोः प्रीती रामलक्ष्मणयोरिव ॥ ३९ ॥ वीक्ष्यान्यदा नृपो मूर्ध्नि पलितं करणीं जरां । शपतिस्माऽशु भोगेभ्यो योगेभ्यः श्लाघते स्म च ॥ ४० ॥ ततोऽनुशास्य विधिना भूपः पुत्रावुभावपि । न्यधात् प्रल्हादनं राज्ये प्रधानत्वे च वाग्भटं ॥ ४१ ॥ स्वयं स्थित्वा कियत्कालं तयोः प्रीतिमिवेक्षितुं । प्रांते स्मरन् परंब्रह्म बभूवे दिविषत्पदं ॥ ४२ ॥ कृतौर्ध्वदैहिकं वस्तु स्ततः प्रल्हादनो नृपः । अरंजयत्प्रजा नास्थ्यो-पनिषज्ज्ञो यथा सभाः ॥ ४३ ॥ भास्वत्यभ्युदिते यस्मि न्नासन्नजनि कर्त्तरि । सपक्षैश्च विपक्षैश्च कौतुकं कौशिकायितं ॥ ४४ ॥ विशामीशे दशाऽप्याशा जेतुं यत्र कृतोद्यमे । वैरिणो जीवितं त्रातुं द्विधापि प्रधनं जहुः ॥ ४५ ॥ बलिध्वंसोलसदाम शय शायिसुदर्शनः । विष्वक्सेनोऽपि यच्चित्रं न भेजे दानवारितां ॥ ४६ ॥ उत्सलद्धूलिविज्ञात-खुरामक्षुण्णभूतलाः । त्वरया वायुविस्फूर्ति-जिह्वरा स्तुरगा बभुः ॥ ४७ ॥ मुदान्यदा स दावाग्नि-प्रतापश्वापविप्लुतः । विधित्सुः पटुमाखेटं निरैगान्नगराद्वहिः ॥ ४८ ॥ आजानुलंबि सुस्थूल-नीलीचीवरधारिणः । चेलुः पदातयो मूर्त्ता भयानकरसा इव ॥ ४९ ॥

३० श्रीहम्मीरमहाकाव्ये [ सर्गः स्तब्धोर्ध्वकर्णाः सुस्निग्ध-वर्णाः स्वर्णाग्रकंठिकाः । चाक्षुषा मातरिश्वान इव श्वानश्चकासिरे ॥ ५० ॥ वाहिनीशतसंश्लेष-बहुलैः प्रचलद्दलैः । समुद्रैरिव कल्पांत-भ्रांतैर्विह्वलयन्निलां ॥ ५१ ॥ विस्मेरसुमनोबाण-करवीरमनोहराः । नारीरिव वनीर्वीक्ष्य नृपोभूद्द्रुतुमुन्मनाः ॥ ५२ ॥ बलभद्रास्ततः केपि हरिमार्गानुसारिणः । केचिच्छशधरादृष्ट-सिंहिकासुतविक्रमाः ॥ ५३ ॥ केचिच्छिवानुगा रौद्रा वृषोलंघनजांघिकाः । . अंतर्वणं विशंति स्म भटा आखेटलंपटाः ॥ ५४ ॥ द्विधापि पृष्ठदानेन सत्रपः कोपि सिंहयोः । यशोमृतं पिवन्नंतः स्थितः क्रोडं व्यडंबयत् ॥ ५५ ॥ मत्स्वामिवल्लभां शश्वद्वसुधां चंखनीयत्यं । इति प्रकुपितः कोपि वराहं मध्यतो ऽच्छिनत् ॥ ५६ ॥ त्वन्नेत्रकांतिचोरोयं यथारुचि विधीयताम् । इति कश्चित्प्रियाप्रीत्यै मृगं बध्वा समायहीत् ॥ ५७ ॥ निघ्नन् पुरः स्थितं सिंहं हत्वा पृष्ठागतं परं । लेभे काकाक्षगोलस्यो-पमानं कस्याचित्करः ॥ ५८ ॥ तत्कटीदर्शनादाशु प्रियां संस्मृत्य कश्चन । न हातुं न प्रहंतुं च सिंहमासीत्क्षणं क्षमः ॥ ५९ ॥ व्यात्तवक्त्रे करं क्षिप्त्वा छित्त्वा केसरिणः शिरः । उदांचितभुजो बाहु-त्राणवत्कोप्यदीदृशत् ॥ ६० ॥ निजिघांसुं मृगीं कंचिन्मृगो दृष्ट्वातिकोष्टितः । स्वयमासांतरावतीं कटास्नेहकटाक्षितं ॥ ६१ ॥ वंचयित्वाथ दाक्ष्येण कोपि दृग्गोचरं हरेः । पृष्ठमारूढवान् सिंह-यानलीलायितं दधौ ॥ ६२ ॥

४ ] तज्जन्मवर्णनम् ३१ कृत्वातिसिंहस्यामप्राक्—पश्चाच्छस्त्रेण पातितः । वराहो रारटीतिस्म स्वभावः खलु दुस्त्यजः ॥ ६३ ॥ नृपोपि वर्षन् हर्षेण शरासारैररुंतुदैः । श्वापदानापदाक्रांता न्कुर्वन्नाच्छन् यदृच्छया ॥ ६४ ॥ क्वचिद्धिरिणदीतीरे स्फुरच्छ्रवणांतरे । पारींद्रमेकमद्राक्षी निद्रामुद्रितलोचनं ॥ ६५ ॥ युग्मं उत्सार्य भूपो विज्ञात—शरसंधानमोक्षणः । निर्ममे दक्षिणेम्मर्माण तं पारींद्रं विनिद्रितं ॥ ६६ ॥ तेनैवोत्साहनादेन कुतोपि कुपितोऽन्यतः । तावत्परः स्फुरत्फालः सिंहः संहतविक्रमः ॥ ६७ ॥ जग्राह भूपतेरंसं प्रांशुं तीव्राग्रदंष्ट्रया । उरोविदारं राज्ञापि क्षुर्याऽसौ प्रतिचस्करे ॥ ६८ ॥ युग्मं दंष्ट्राघातस्रुवद्रक्त—धाराभिरभितश्चितः । दधौ धातुद्रवक्लिष्ट—शैललीलां क्षणं नृपः ॥ ६९ ॥ ततो दंष्ट्राविषोत्सर्पि—मूर्छाभिर्विह्वलीकृतः । यतीवर्द्धिं स पापर्द्धिं त्यक्त्वागादात्ममंदिरं ॥ ७० ॥ मंत्रवादिगणैर्वैद्य—वृंदैरपि परः शतैः । भृशं चिकित्स्यमानोपि नाभूद्भूयः स्वरूपभाक् ॥ ७१ ॥ दुश्चिकित्सतरं ज्ञात्वा ऽऽत्मानं भूपोथ सर्वथा । वीरनारायणं पुत्र मभ्यषिंचन्निजे पदे ॥ ७२ ॥ पतिष्यच्चाह्मानीय राज्यश्रीवल्लिपादपं । वाग्भटं च समाहूय सोदरं जगिवानिति ॥ ७३ ॥ शौर्यं बुद्धिरविश्वासो राज्यश्रीकारणं त्रयं । तद्युक्तं स्थावरे स्वापं दुरापं शैशवे पुनः ॥ ७४ ॥ तदस्ति स्वापचापल्याद् बाल्येऽसौ वयसि स्थितः । अनुशास्यस्तथाकारं यथास्यान्नाहितं क्वचित् ॥ ७५ ॥

३. जलालुद्दीन खिलजी पराभव व शरणागत महिमा

३२ श्रीहम्मीरमहाकाव्ये [ सर्गः दौःशल्येन सुतस्यास्य सशल्य इव वाग्भटः । मंदमंदमथाचख्यौ मन्युगद्गदया गिरा ॥ ७६ ॥ भवितव्यं तु न स्वामिन्निरोद्धुं कोपि सासहिः । त्वामिवैनं पुरोपासे सावधानः परं सदा ॥ ७७ ॥ उक्तेति वाग्भटे तूष्णीं तस्थुषि क्षितिपाग्रणीः । चिकीर्षयात्मनीनस्य सस्मार परमात्मनः ॥ ७८ ॥ राज्यथास्तमिते तस्मिन् वीरनारायणो विभुः । भास्वानिवासील्लोकानां कमलोल्लासकोविदः ॥ ७९ ॥ स्वतेजसैव यस्याशु द्विषतः पिंषतः सतः । वृथा मत्प्रतिकर्मेति किमसिः श्यामतामधात् ॥ ८० ॥ विस्फूर्जद्भुजशांडीर्य—फणभृद्दृष्टवैरिणां । यस्य खड्गलता नाग—दमनौषधिवद्बभौ ॥ ८१ ॥ सोन्यदा प्रमदानेत्र—पावनं यौवनं श्रितः । परिणेतुं सुतां कत्स—त्राहस्याऽन्नपुरीमगात् ॥ ८२ ॥ तत्राभिषेणितो जल्ला—लदीनशकभूभुजा । पलाय्यागाद्रणस्तंभं पृष्ठतः सोप्युपागमत् ॥ ८३ ॥ तत्र युध्वा चिरं जल्ला—लदीनः प्रौढपौरुषः । विज्ञाय तं छलग्राह्यं निवृत्यागान्निजां पुरीं ॥ ८४ ॥ कियत्यथगते काले ततः स शकभूपतिः । विजिगीषुच्छलेनामुं दूतेनेत्थमचीकथत् ॥ ८५ ॥ ज्योतिश्चक्रेषु सर्वेषु सूर्याचंद्रमसौ यथा । तथावां सार्वभौमा वो भूभृत्सु निखिलेष्वपि ॥ ८६ ॥ तन्नौ युक्ता मिथः प्रीतिः पचेलिमफलोदया । न च विग्रहविस्फूर्ति र्भिदेलिम तमायतिः ॥ ८७ ॥ सहायं त्वादृशं लब्ध्वा समीरमिव पावकः । दंदह्येय क्षणेनैव वैरिवंशान् दृढानपि ॥ ८८ ॥

४ ] तज्जन्मवर्णनम् ३३ प्रीतोस्मि तव शौर्येण त्वं मे भ्राताऽतः परं । द्रुह्यामि यद्यहं तुभ्यं तर्हि शपे ध्रुवं ॥ ८९ ॥ एकवेलं समेतव्यं मिलनाय परं त्वया । न चेदहं समाकार्य स्वदादेशवशंवदः ॥ ९० ॥ वक्षःस्थलपुरेशेन विग्रहाख्येन विग्रहैः । सुतरां विगृहीतस्य सिसाधयिषतोय तं ॥ ९१ ॥ ताभिर्द्वूतोक्तिभंगीभि भृंगीभिरिव वारिजं । चुंबितं चाहमानस्य हृदयं व्यश्वसीत्तमां ॥ ९२ ॥ युग्मं ० ततोवनीपतिं वीक्ष्य शकसंगमनोत्सुकं । रहः संवादयामास वाग्भटः प्रतिभाभटः ॥ ९३ ॥ नयशास्त्रांबुधेः पार-दृश्वनः का तवौचिती । क्रियते दुष्टहृन्म्लेछ-संगमाय यदुद्यमः ॥ ९४ ॥ शत्रुर्न मित्रतां गच्छे च्छतशः सेवितोपि सन् । दीपः स्नेहेन सिक्तोपि शीतात्मत्वमियार्ति किं ॥ ९५ ॥ प्रचिकीर्षसि चेद्राज्यं जिजीविषसि चोचिरं । तदा मद्युक्तिभृंगीयं नीयतां हृदयांबुजं ॥ ९६ ॥ गुरवो यदि वा संतो हितवाक्योपदेशिनः । हेयोपादेयतां तस्या-भव्यभव्यौ चिकीर्षतः ॥ ९७ ॥ इत्युक्त्वा तत्र तूष्णीके सर्वांगीणक्रुधांधलः । घटयन् भ्रकुटीं भीमां पार्थिवो जगिवानिति ॥ ९८ ॥ अकार्यं यदि वा कार्यं यन्मे रोचिष्यतेतमां । करिष्ये तदहं स्वैरं चिंतयात्र कृतं तव ॥ ९९ ॥ वाग्भटस्तेन वाक्येन प्रासेनेव हतो हृदि । ययौ तद्राज्यमुत्सृज्य मालवे सपरिच्छदः ॥ १०० ॥ परमप्रीतिगौराणां पौराणामपि भाषितं । उपेक्ष्य गर्वादुर्वशो ययिवान् योगिनीपुरं ॥ १०१ ॥ 5 A

३४ श्रीहम्मीरमहाकाव्ये [ सर्गः अंतर्दुष्टो मुखे मिष्टः शकेंद्रोभ्येत्य सन्मुखं । महेन महतानैषी दंतःपुरि नरेश्वरं ॥ १०२ ॥ प्रियालपनसारखं वनंवद्दर्शयन्मुहुः । चिरं चकार चेतोस्य चित्रप्रचयचुंबितं ॥ १०३ ॥ अन्येद्युर्विषयोगेन शकान्तृपममीमरत् । काप्यकृत्यं प्रकुर्वंतः पापा मुह्यंति हंत किं ॥ १०४ ॥ हतेत्रान्यच्छक्रो बोधि जितमेवाशु राजकं । मूले छिन्ने हि सुग्राहं फलागुच्चैस्तरोरपि ॥ १०५ ॥ ततो वाग्भटभूपाल-सूर्येण परिवर्जितं । रणस्तंभपुरव्योम व्यानशे शकतारकैः ॥ १०६ ॥ शकप्रेरणयेहापि जिघांसुं मालवेश्वरं । विज्ञाय वाग्भटो हत्वा ललौ तद्राज्यमूर्जितं ॥ १०७ ॥ शकातंकपरित्रस्तै र्बहुजैः शरणागतैः । तद्राज्यं प्राज्यलीलाभृ दवर्धिष्ट दिने दिने ॥ १०८ ॥ शके जल्लालदीनेय षर्प्परैरभिषेणिते ॥ वाग्भटोप्यमिलत्सैन्यं रणस्तंभांधिधीर्षया ॥ १०९ ॥ पुंनागसंगसुभगाः प्रक्षरन्मदनिर्झराः । जंगमावनिभृल्लीलां कलयांचक्रिरे द्विपाः ॥ ११० ॥ खुरोत्खातरजःपुंजै र्विश्वमप्येकरूपतां । नयंतो वाजिनां व्यूहा रेजिरेऽद्वैतवादिवत् ॥ १११ ॥ संचरद्रथचक्राणां दिशां कूलंकषैः स्वनैः । शब्दाद्वैतमयीवासी दखिलाप्यब्धिमेखला ॥ ११२ ॥ धृतिहेतिततिस्फीत-द्युतियोतितदिङ्मुखाः । बभुः पदातयो द्वेधा-प्यरिप्राणापहारिणः ॥ ११३ ॥ चलद्दलभरैर्भोगि-विभुना दुर्धरां धरां । सृजन्नधो रणस्तंभं शिविरं संन्यवेशयत् ॥ ११४ ॥

दृष्ट्वानेकरणोत्सेक—क्रीडद्वीरकुलं बलं । दधिवांसोदरोद्रेकं दुर्गस्थाः शकपुंगवाः ॥ ११५ ॥ लोका अपि लसच्छोका बभूवुः पुरवासिनः । सौख्यनाडिंधमाः के वा परचक्रे समेयुषि ॥ ११६ ॥ नृपादेशाततः स्फूर्जच्छौर्यावेशा भटव्रजाः । दुर्गग्राहग्रहग्रस्ता अभियोद्धुं द्रुतौकिरे ॥ ११७ ॥ गोलैष्टंकैः कुशीभिश्च प्रभिंदंतोप्यनेकशः । न तेऽलंभूषणवोभूवन् दुर्गं भेत्तुं मनागपि ॥ ११८ ॥ भटानां शौर्यचातुर्यं दुर्ग्राह्यबलं पुरस्य च । दर्शंदर्शं नरेंद्रोभू द्विपादाश्चर्यचुंबितः ॥ ११९ ॥ मत्वा दुर्गं बलाग्राह्यं सोथ नीतिविदां गुरुः । वेष्टयित्वाभितस्तस्थौ निवार्य समराद्भटान् ॥ १२० ॥ निर्यातुं च प्रवेष्टुं चा—शक्नुवंतस्ततो भिया । पुरोदरस्थिता लोका लेगिवांसो विषीदितुं ॥ १२१ ॥ वारीण्यदुग्धपर्यंतक्षु—यटीयंत तृणान्यपि । एधांस्यचंदनायंत प्राप्यभावात्पुरांतरे ॥ १२२ ॥ त्रिमास्यामपि जग्मुष्या पुरं रक्षितुमक्षमाः । पलायिषत सर्वेपि जीवं लात्वा शकध्रुवाः ॥ १२३ ॥ भक्तिगौरास्ततः पौरा उपदापात्रपाणयः । संजग्मिरे महीशस्य जयशस्य तमद्रुतेः ॥ १२४ ॥ नृपोपि तेभ्यो वस्त्रादि दत्वा कृत्वा च सत्क्रियां । स्वच्छोत्सवोच्छलच्छायं प्रविवेश पुरांतरं ॥ १२५ ॥ सैंहिकेयास्यनिर्मुक्त—चंद्रबिंबविडंबिनीं । पश्यन्नयारिनिर्मुक्त—रणस्तंभपुरश्रियं ॥ १२६ ॥ गजाश्वस्वर्णरत्नाद्यैर्यथास्थाननिवेशितैः । स चकार धरां सार—मंदिरां माद्यदिंदिरं ॥ १२७ ॥

३६ श्रीहम्मीरमहाकाव्ये [ सर्गः क्रमागतोदयस्थानं भास्वान् लब्ध्वा स वाग्भटः । कान्कान्भूमीभृतो नैव पादाक्रांतानरीरचत् ॥ १२८ ॥ निवेश्य देशसीमासु चतुर्दिक्षु बलं निजं । सुखं द्वादशवर्षाणि स्वयं राज्यं स तेनिवान् ॥ १२९ ॥ तस्मिन्स्वर्लोकलोलाक्षी—कटाक्षविशिखावलैः । वीरयोगव्रतावाप्यां वेध्यतामुपचालरे ॥ १३० ॥ तन्नंदनो जगन्नेत्रा—नंदनश्चंदनद्रुवत् । जैत्रप्रतापः श्रीजैत्रसिंहोऽभूद्भूमिबल्लभः ॥ १३१ ॥ युग्मं समूलकार्षकषिता—ऽन्यायसंतमसोदयः । तिग्मांशुरिव लोकानां यः प्रियं भावुकोऽभवत् ॥ १३२ ॥ सद्वंशस्यापि यच्चाप—दंडस्पाहो अनौचिती । जग्राह दोषमेवास्य समाजे संगते द्विषां ॥ १३३ ॥ बिभ्रत्सदानभोगत्वं सुमनःश्रेणिसेवितः । शचीवरयितुर्लीलां यो भूमिष्ठोप्यचूचुरत् ॥ १३४ ॥ कर्णजाहं जगाहाने शौर्ये यद्दुजदंडयोः । चकंपिरे शिरांसि द्राक् दृढानामपि भूभृताम् ॥ १३५ ॥ यदातंकतमग्रस्ते शत्रुशौर्यनभोमणौ । व्यक्तं शोकतमोभासी तन्नारीणां कचच्छलात् ॥ १३६ ॥ सद्वंशस्याप्यैकमत्यं न यच्चापस्य यस्य च । पृष्ठं यद्युध्यदात्माच्यः परेषां न पुनः परः ॥ १३७ ॥ अगण्यपुण्यलावण्य—रसप्रसरसारणिः । हीरादेवीति तस्यासी त्प्रेयसी श्रेयसी गुणैः ॥ १३८ ॥ सौंदर्येण जिता यस्या रतिस्तामेव भेजुषी । जगदे वह्निदग्धस्य शरणं वह्निरेव वा ॥ १३९ ॥ भुंजाना भूभुजा साकं सा कंदर्परसं भृशं । शुभं गर्भं दधातिस्म विस्मयैकपदं सतां ॥ १४० ॥

४ ] तज्जन्मवर्णनम् ३७ स्वकरांभोजकीनाश—दासीकृतशकासृजा । गर्भानुभावतो राज—पत्नी सिक्तासतिस्म सा ॥ १४१ ॥ प्रहर्षुलमनः प्रेयः पूरितोद्दामदौहृदा । समये सुपुवे सूनुं सा श्रीरिव सुमायुधं ॥ १४२ ॥ असौ शकासृग्वाप्पूरैः संस्नाप्य धरणीमिमां । दृष्टातन्मूं — — — — — — — — — — — — — — — — — — — — — — — — सृत्खरैः अभ्युद्यत्सहस्रार्क मिवासीत्सूतिकागृहं ॥ १४४ ॥ दिशः प्रसादमासेदुः सुखसेव्यो ववौ मरुत् । नभो निर्मलतां भेजे दिनकृद्दिद्युतेतरां ॥ १४५ ॥ विशदं सम्मदं यं त—ज्जनने जनको दधौ । शतांशोपि न तस्यासीत् कवीनां गोचरो गिरां ॥ १४६ ॥ तज्जनौ स्वर्णधाराभि रवर्षद्भूपतिस्तया । मूलतोपि यथाशुष्य द्दारिद्र्योरुखवासकः ॥ १४७ ॥ कृत्वा दशाहिकमहं विश्वं विश्वसुखावहं । हर्षार्द्धंमीरदेवेति नामामुष्मै पिता ददौ ॥ १४८ ॥ मातापित्रोर्दृशः सिंचन् स्वदर्शनसुधारसैः । सौम्यमूर्तिरवर्धिष्ट स शशीव दिने दिने ॥ १४९ ॥ दिनैः कतिपयैरेवा—कृच्छ्रं गुर्व्वनुभावतः । शस्त्रशास्त्ररहस्यानि स स्ववश्यानि तेनिमान् ॥ १५० ॥ न तच्छास्त्रं न तच्छस्त्रं न च तज्जनरंजनं । सदाशयांबुजे तस्य न यद्भ्रमरायत ॥ १५१ ॥ अथामंगुरशृंगार—जीवनं यौवनं श्रितः । कासां मृगीदृशां निन्ये वशं दृग्मनसी न–सः ॥ १५२ ॥ दृग्द्वंद्वपेयसौंदर्य—श्रीणामेकं तमास्पदं । दृष्ट्वा वांछन् पतीकर्त्तुं कामिन्यः का न मानसे ॥ १५३ ॥