हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 75, कुल 185 में से
संदर्भ में पढ़ें२६ श्रीहम्मीरमहाकाव्ये [ सर्गः अथ चतुर्थः सर्गः कुर्वन् कुवलयोल्लास मसन्तापकरैः करैः । वेला इव तुषारांशुः स प्रजा अभ्यवीवृधत् ॥ १ ॥ राज्यं निर्विशतेऽन्येद्यु र्हरिराजमहीभृते । प्रीतिव्रततिवृद्ध्यर्थं श्रीगुर्जरनरेश्वरः ॥ २ ॥ विस्फुरच्छुक्रसंबंधाः समुन्नतपयोधराः । वर्षा इवोहसद्धर्षाः प्रेषयामास नर्त्तकीः ॥ ३ ॥ युग्मं अन्यदा स्फुरितोदार—स्फारशृंगारभासुरे । नृपे च नृपलोके च स्फीतप्रीतौ निषेदुषि ॥ ४ ॥ वाद्यमानेषु वाद्येषु तालमेलमनोहरं । गायनेषु च गायत्सु कोकिलालापकोमलं ॥ ५ ॥ दृढयौवनसोपानाः शृंगाररसवारयः । विस्फुरद्बालसेवाला विलासोल्लासवीचयः ॥ ६ ॥ पीनस्तनोल्लसत्कोका विस्मेरवदनांबुजाः । चलदृक्पृथुलोमानः सुमेषोद्दीर्घिका इव ॥ ७ ॥ वात्याव्यतिकराद्धूत—कदलीदलवत्तनुं । वेल्ल्यंत्यो भ्रमंत्यश्च चक्रजीविकचक्रवत् ॥ ८ ॥ कदाचिद्भुजयोर्मूलं कदाचिन्नाभिमंडलं । कदाचन कुचोन्नत्यं दर्शयंत्यो मुहुर्मुहुः ॥ ९ ॥ लसल्लावण्यलीलाभि र्लोकलोचनलोभनाः । मूर्त्ताः (कंदर्प) दर्पास्ताः प्रावर्तंत प्रनर्त्तितुं ॥ १० ॥ सप्तभिः तस्याजननमेवासी दासां लावण्यवारिधौ । मग्ने दृग्मनसी यस्य निर्यातुं शक्ततां गते ॥ ११ ॥