हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 76, कुल 185 में से
संदर्भ में पढ़ें४ ] तज्जन्मवर्णनम् २७ इति तासां स्फुरद्वासो नाट्यं पश्यन्नहर्निशं । क्षणमात्रमपि त्यक्तुं नालंभूष्णुरभूदयं ॥ १२ ॥ ततोऽसौ गीतनृत्तादि—दक्षदानपरायणः । मितंपचत्वं शिश्राय सेविनां जीविकार्पणे ॥ १३ ॥ वार्तामलभमानास्ते तस्य सेवामहासिनुः। स्वार्थसिद्धिं विना कोपि किं स्यात्कस्यापि सेवकः ॥ १४ ॥ राज्यस्थितिं तथाभूतां दर्शदर्शं प्रजा अपि । विरज्यंतेस्म तस्मात् द्वाग् स्त्रितमा दुर्भगादिव ॥ १५ ॥ एतत्स्वरूपं विज्ञाय प्राग्वैरी शकनायकः । ससैन्योभ्येत्य दिल्लीतो देशसीमानमानशे ॥ १६ ॥ काकनाशं ततो भीत्या प्रनष्टजनताननात् । सौख्यसर्वंकषं श्रुत्वा गमनं शत्रुभूपतेः ॥ १७ ॥ आरभ्य पृथ्वीराजेंद्र—नाकलोकातिवासरं । अकृत्यमिति संत्यक्त—शकाननविलोकनः ॥ १८ ॥ सांतःपुरपुरंध्रीक स्ततोऽसौ ज्वलने विशत् । भाविनी यादृशी कीर्ति र्मतिः स्यात्तादृशी नृणां ॥ १९ ॥ त्रिभिर्विशेषकं नाकलोकं पृणे ऽमुष्मि नम्लासीत्तत्परिच्छदः । अस्तंगते जगद्दीपे स्मेरः किं कमलाकरः ॥ २० ॥ अपुत्रत्वेन भूभर्तुः शत्रोरागमनेन च । चिंताचांतहृदो बाढं मंत्रयंति स्म मंत्रिणः ॥ २१ ॥ अपत्यं भूपतेर्नास्ति भटा न च रणोद्धताः । विपक्षस्तु महावीर्यः कथं रक्षिष्यते पुरं ॥ २२ ॥ तत् त्यक्त्वा नीवृतं यामो रणस्तंभपुरं प्रति । सूरोपि बलवैकल्यात् श्रयेत् द्वीपांतरं न किं ॥ २३ ॥