हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 77, कुल 185 में से
संदर्भ में पढ़ें२८ श्रीहम्मीरमहाकाव्ये [ सर्गः तत्रास्ति पृथ्वीराजस्य प्राक् पित्रातो निरासितः । पौत्रो गोविंदराजाख्यः स्वसामर्थ्यात्तवैभवः ॥ २४ ॥ स्वस्वामिवंशकासार-हंसं तं भूपमाश्रिताः । कीर्त्तिपानीभवंतोऽव-तिष्ठेम ह्यकुतोभयाः ॥ २५ ॥ मंत्रयित्वेति भूपीयं सर्वं कोशवलादिकं । सहादाय चलंतिस्म रणस्तंभपुरंप्रति ॥ २६ ॥ दावपावकवत् वाध्यं ज्वालयन् देशमुद्धसं । शकः पश्चादुपागत्या ऽजयमेरुपुरं ललौ ॥ २७ ॥ अथ प्राप्य रणस्तंभं पुरं गोविंदभूपतेः । समगंसत ते सर्वे वृत्तांतं च न्यगादिषुः ॥ २८ ॥ पितृव्यस्य तथाभूतं मृत्युं श्रुत्वा धराधिपः । वाचामगोचरं कष्टं कलयामास मानसे ॥ २९ ॥ स्मृतिस्मृतिपरित्यक्त-शोकः कृतौर्ध्वदैहिकं । धीसत्त्वांस्तान् यथायोग्य-कार्येणायोजयन्नृपः ॥ ३० ॥ पराभवन् द्विषच्चक्रं प्रभवन् न्यायवृद्धये । सौख्यं चानुभवन्स्फीतं स प्रजाश्चिरमन्वशात् ॥ ३१ ॥ गोविंदे दिविषद्वृंदे संचारयति चातुरीं । तानवं शात्रवं निन्ये श्रीमद्वाल्हण भूपतिः ॥ ३२ ॥ घनवत् समरे यत्र शरासारं वितन्वति । नाशेनैवा ऽभवद्व्यक्ता रिपूणां राजहंसतां ॥ ३३ ॥ वर्षत्यपि भृशंवाण-धाराभिर्यद्धनुर्घने । चित्रं विच्छायतामेव भेजिरे शत्रुभूभृतः ॥ ३४ ॥ सखरं जिखरं वीक्ष्य समरे यमरिन्वजाः । अभिलेषुः सपक्षत्वं न वरं नाशहेतवे ॥ ३५ ॥ नाम्नि धाम्नि च संक्षेपं विधित्सन् यो विरोधिनां । अवनीपालतां हित्वा द्राग् वनीपालतां ददौ ॥ ३६ ॥