हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 69, कुल 185 में से
संदर्भ में पढ़ें२० श्रीहम्मीरमहाकाव्ये [सर्गः रजोव्रजै र्वाजिखुराभिघातो—त्थैर्जातमुद्गत्वमपि प्रयाताः । मदोदकैः सैन्यमतंगजानां वंशद्वयस्यः सरितो बभूवुः ॥ २१ ॥ इति प्रयाणैः कृतवैरिवारः प्राणप्रयाणैर्नृपतिः कियद्भिः । वसुंधरा भूरितरामतीत्याऽभ्यवेष्टयत्तच्छकराजदेशं ॥ २२ ॥ आजग्मिवांसं तमुपस्वदेशं चौरैरथाकर्ण्य शकेश्वरोपि । संनह्य सैन्यं रिपुदत्तदैन्यं भेजेभ्यमित्रत्वमवार्यवीर्यः ॥ २३ ॥ कोदंडदंडद्युतिमंडितांगाः कटीतटावद्धवृहन्निषंगाः । सूक्ष्माखिलक्षीकृतवैरीवीराः पृष्ठेनिरीयुर्यवनप्रवीराः ॥ २४ ॥ प्राक् रेणुजालानि ततः करेणु-कुंभभ्रमत्षट्पदझंकृतानि । ततो भटानां स्फुटसिंहनादाः सैन्यद्वयस्याप्यमिलंस्तदानीं ॥ २५ ॥ परस्परालोकनितांतजात-प्रसृत्वरायत्नकवेल्हदंगाः । नानास्फुरद्धेतिभृतः प्रवीराः प्रतेनिवांसो रणरंगलीलां ॥ २६ ॥ मणीचकानीव महीरुहाणां क्षिपन् यशांसि द्रुतविद्रुतानां । ववौ मरुत्वान् भटराजराजि-करांबुजयक्तपृषत्कजन्मा ॥ २७ ॥ मिथः समानाक्षिनिरीक्षणेन प्ररूढगूढप्रतिघा इवोच्चैः । घटैकदेशीयभटास्तुशोभा- श्वानामयुध्यंत हठात्तदानीं ॥ २८ ॥ दंतावलस्य प्रथरं प्रविश्य कश्चित्तदाघातकलाविपश्चित् । क्षुर्या विदार्योदरमुग्रवीर्यो विलोठयामास तमाशु भूमौ ॥ २९ ॥ उल्लुत्य कश्चित्तरसा रसाया आरूढवांस्तुंगकरींद्रकुंभं । लांगूललीलायितखड्गदंड एणारिलीलां कलयांबभूव ॥ ३० ॥ काश्चित्पदात् स्पंदनमापतंतं धृत्वा करी काकमुखे सुखेन । अवाप्य सद्यो भ्रमिमंतरिक्षे प्रास्फालयत्संगरभूमिशिलायां ॥ ३१ ॥ प्रक्षिप्य पश्चात्करमुग्रवेगात् उत्पाटितस्पंदनकैतवेन । योद्धुं स्वयं पट्टिशमादधान इवेतरोभात्पदगै रमेभः ॥ ३२ ॥ चीत्कारमाकर्ण्य मतंगजानां वित्रस्यतः कोपि तुरंगमस्य । उष्णीषखंडेन पिधाय कर्णावपूपुरत्तैः सममाहवेच्छां ॥ ३३ ॥