हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 70, कुल 185 में से
संदर्भ में पढ़ें३ ] पृथ्वीराजसंग्रामवर्णनम् २१ हंतुं क्रुधा दंतिनमापतंतं अरंतुदाग्रैर्युधि दद्रिरेव ॥ प्रार्थ्यना लूनभुजद्वयोन्यो दशन् प्रतेने नययुद्धमेव ॥ ३४ ॥ सन्नाहसंधावभिजातगात्र-प्रभेदने किं कुतुकं भटानां । मनोपि तेषां परमाणुरूपं अभेदि यत्तैः करलाघवेन ॥ ३५ ॥ तदा विपत्तौ पितरः सुतानां प्रमोदपूरं युधि लेभिरे यं । अपुत्रिणामप्यजनिष्ट तेषा मेतच्छतांषोपि न जन्मकाले ॥ ३६ ॥ अयोदृढैश्चारभटैस्तुरुष्का श्चंडासिदंडैरभिताड्यमानाः । नेशुः समंताल्गुडप्रपातै र्यथा कुलान्येकविलोचनानां ॥ ३७ ॥ स्यालेष यंत्रांतरसंस्थितानां यादृग्यवस्था हरिमंथकानां । तादृग्बभूद्भूपतिचाहमान-रणाश्रयाणां यवनेश्वराणां ॥ ३८ ॥ दृष्ट्वा विशीर्णं युधिजीर्णकल्प मिवात्मनीनं शिविरं शकेशः । क्रोधादधाविट महिष्टमुष्टि-धृतासिदंडः स्वयमाशुचंडः ॥ ३९ ॥ तमापतंतं प्रसमीक्ष्य चाह-मानोप्यधावद्द्रुततीव्रवेगः । अंतःस्फुरत्क्रोधकृशानुकीला-नुकारिरागारुणदारुणाक्षः ॥ ४० ॥ करोदरोल्लासिमहासिसिंड—छलोल्लसत्पुष्करदुर्निरिक्षौ । अभ्युद्यतौ वन्यगजौ किमेतौ वितर्क्यमाणाविति वीरवारैः ॥ ४१ ॥ प्रपूरयंतौ भुवनोदराणि पादाभिघातप्रतिजातशब्दैः । मिथः प्रहारप्रयनप्रवीणौ युद्धं चिरायातनुतां क्रुधा तौ ॥ ४२ ॥ एवं नृदेवो युधि युध्यमानः प्रसह्य किंचिच्छलमाकलय्य । शक्राधिराजं विनियम्य सम्य गपूरयत्स्वां विधिवत्प्रतिज्ञां ॥ ४३ ॥ महीमहेंद्रान् शरणागतांस्तान् स्वे स्वेधिकृत्वा विषये नयेन । ततः स मानी निजराजधानी मापद्धिमानानीकृतशत्रुजातः ॥ ४४ ॥ वासांसि दत्वा सुरलोकलोभिमहांसि तस्मा इति राड् मुमोच । हा तत्र को नाम पुनर्विधित्सु रसामया संगरमेवमुच्चैः ॥ ४५ ॥ पृथक् पृथक् संगररंगभंग्ये—त्थं सप्तकृत्वः क्षितिवासवेन । विनिर्जितोऽसौ यवनावनीशो मम्लौ च जम्लौ च भृशं नृशंसः ॥ ४