हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 68, कुल 185 में से
संदर्भ में पढ़ें२ ] पृथ्वीराजसंग्रामवर्णनम् १९ देशानशेषान् जहि नागराणां हरेणनेत्रा दह मंदिराणि । विगृह्य यो बाहुजराजराजेः कुलानि चक्रे विपदाकुलानि ॥ ८ ॥ अशेषभूपालविशेषकाभ के नाम ते क्षोणिभुजः क्षमायां । स स्वौजसा त्रासितबाहुजानां वृंदैर्दर्रीः पूरितवान्न येषां ॥ ९ ॥ यः संगरे संगररंगवेदी क्षात्रं क्षणाद्द्वेषम नयन् यमस्य । किं भार्गवोयं पुनरेव जात इत्याकुलैर्वीरकुलैर्न्यतर्कि ॥ १० ॥ अयं समागादयमः समागाज्जना इति स्फारितलोचनाब्जं । दिशो दशापि प्रविलोकयंतो यतो भयेनानिमिषीबभूवुः ॥ ११ ॥ उद्वास्य शस्यान्यपि भूपतीनां यस्त्रैपुराणीव पुराणि शंभुः । अतिष्ठिपत् द्विट्कुलशूल मूल—स्थाने प्रधाने निजराजधानीं ॥ १२ ॥ निःकारणं दारुणवैरभाजा तेनाभिभूता नृपभूभुजोमी । समैयुरुस्त्वां शरणं शरण्य मतो भवानेव परं प्रमाणं ॥ १३ ॥ इत्येतदीयां विनिशम्य वाचं वाच्यंमानामापि कोपरूचीं । आकृप्य कूर्चं तरवारिमुष्टि—पट्टिष्टनाभात्करवारिजेन ॥ १४ ॥ मयूरबंधेन निबंध्य नैनं पादारविंदे यदि वः क्षिपामि । जातोन्वये तर्हि न चाहमाने इति प्रतिज्ञामकरोन्नरेशः ॥ १५ ॥ ततस्ततः श्रीः शुभकारिसर्व—ग्रहे विलग्ने विजये च योगे । चचाल चंचन् प्रतिपंधिमथ चिकीर्षया व्याकुलचित्तवृत्तिः ॥ १६ ॥ पौरैणपोताभदृशः प्रयांतं प्रक्षिप्तिक्षितुस्तं प्रति यान् कटाक्षान् । मांगत्यहेतोः स्म भवंति तस्य त एव दूर्वाक्षतकांतिभाजः ॥ १७ ॥ निरंतरप्राप्तमहाप्रसाद—विशुद्धये शुद्धधियः प्रकामं । करस्फुरत्स्फारतरासिदंड-स्फुराः प्रचेलुर्बरवीरवाराः ॥ १८ ॥ द्यावापृथिव्योरुदरंभरीणि प्रोत्तुंगरंगद्गजगर्जितानि । अपि द्वयानां धरणीधराणां सत्त्वानि चक्रुर्विधुताधृतीनि ॥ १९ ॥ प्रतापसूर्येऽभ्युदितेऽस्र्यये साध्यं किमेतेन बतोद्यतेन । इतीव तीव्रद्युतिमुद्यतश्चि-सैन्योत्थरेणुस्तिरयांबभूव ॥ २० ॥