हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 72, कुल 185 में से
संदर्भ में पढ़ें३] • पृथ्वीराजसंग्रामवर्णनं २३ तमश्वमारूढममुं विभाव्य शकात्तचित्ता अथ तौर्यिकास्ते । अवीवदन् वीरवरप्रियाणि मृदंगभेरीपटहादिकानि ॥ ५९ ॥ अभ्युन्नतांभोधरधीरगार्जि—वितार्जनं तूर्यरवं निशम्य । प्रनर्तितुं बर्हणवद्ववृत्ते तार्क्ष्यं विलक्षः क्षणमास भूपः ॥ ६० ॥ भज स्थिरत्वं व्रज मा विषादं इत्युक्तिभाजो यवना जवेन । किं कार्यता मूढममुं तयास्थ मवेष्टयन् द्राक् चटका इवाहिं ॥ ६१ ॥ भुवं स्पृशन् दक्षिणपादजानुं—गुष्ठेन चाकुंचितवामपादः । वहन् कृपाणावरशं च हस्ते ज्योत्स्न्य सप्तेनिषसाद भूमौ ॥ ६२ ॥ भंग्या ध्रुवः कांश्चन कांश्चिदुग्रा—सैर्बलनैः कांश्चन सिंहनादैः । वित्रासयन् चित्रविधायि युद्धं चिराय चक्रे भटचक्रशक्रः ॥ ६३ ॥ पृष्ठे शकस्तावदुपेल्य कश्चित्प्रक्षिप्य कंठे धनुर्राततन्यं । अपीपतद्द्पतिमाशु पश्चात् संभूय सर्वे तरसा बबंधुः ॥ ६४ ॥ अथ स धरणिकांतः सद्गुणाली निशांतः प्रतिहतखलजातः प्रौढराढावदातः ॥ विधिविलसितयोगादाप्तबंधः शकेन्द्रात् द्विरपि रतिमहासीद्भोजने जीवने च ॥ ६५ ॥ यवनाधिपदेशमनुप्रहितं विभुनै[व] पुरोदयराजभटं । समुपेतमवेक्ष्य तदा शकराट् प्रविवेश पुरीमुररीकृतभीः ॥ ६६ ॥ कष्टं निशम्योदयराज ईशितुः प्राप्तं तथा नाह मभूव मित्यथ । मूर्धानमुच्चैरधुनोन्मुहुर्मुहुः शल्यं तदुद्धर्तुमिव स्वतो हृदः ॥ ६७ ॥ संत्यज्यैनं व्यसनपतितं स्वामिनं चेद्व्रजामि व्रीडां व्रीडा कलयति तदा गौडगोत्रे सुखं मे । इत्थं ध्यात्वा शकपतिपुरीं संनिरुध्याभितोसौ तस्थौ पक्षद्वयमनुदिनं युध्यमानो हठेन ॥ ६८ ॥ म्लेच्छावनीपमिममेवमन्यदा कश्चिज्जगाद सविषादमानसः । त्वामेष कोऽमुचदनेकशो रणे त्वं नैकवेळमपि हा जहास्यमुम् ॥ ६९ ॥