हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 82, कुल 185 में से
संदर्भ में पढ़ें४ ] तज्जन्मवर्णनम् ३३ प्रीतोस्मि तव शौर्येण त्वं मे भ्राताऽतः परं । द्रुह्यामि यद्यहं तुभ्यं तर्हि शपे ध्रुवं ॥ ८९ ॥ एकवेलं समेतव्यं मिलनाय परं त्वया । न चेदहं समाकार्य स्वदादेशवशंवदः ॥ ९० ॥ वक्षःस्थलपुरेशेन विग्रहाख्येन विग्रहैः । सुतरां विगृहीतस्य सिसाधयिषतोय तं ॥ ९१ ॥ ताभिर्द्वूतोक्तिभंगीभि भृंगीभिरिव वारिजं । चुंबितं चाहमानस्य हृदयं व्यश्वसीत्तमां ॥ ९२ ॥ युग्मं ० ततोवनीपतिं वीक्ष्य शकसंगमनोत्सुकं । रहः संवादयामास वाग्भटः प्रतिभाभटः ॥ ९३ ॥ नयशास्त्रांबुधेः पार-दृश्वनः का तवौचिती । क्रियते दुष्टहृन्म्लेछ-संगमाय यदुद्यमः ॥ ९४ ॥ शत्रुर्न मित्रतां गच्छे च्छतशः सेवितोपि सन् । दीपः स्नेहेन सिक्तोपि शीतात्मत्वमियार्ति किं ॥ ९५ ॥ प्रचिकीर्षसि चेद्राज्यं जिजीविषसि चोचिरं । तदा मद्युक्तिभृंगीयं नीयतां हृदयांबुजं ॥ ९६ ॥ गुरवो यदि वा संतो हितवाक्योपदेशिनः । हेयोपादेयतां तस्या-भव्यभव्यौ चिकीर्षतः ॥ ९७ ॥ इत्युक्त्वा तत्र तूष्णीके सर्वांगीणक्रुधांधलः । घटयन् भ्रकुटीं भीमां पार्थिवो जगिवानिति ॥ ९८ ॥ अकार्यं यदि वा कार्यं यन्मे रोचिष्यतेतमां । करिष्ये तदहं स्वैरं चिंतयात्र कृतं तव ॥ ९९ ॥ वाग्भटस्तेन वाक्येन प्रासेनेव हतो हृदि । ययौ तद्राज्यमुत्सृज्य मालवे सपरिच्छदः ॥ १०० ॥ परमप्रीतिगौराणां पौराणामपि भाषितं । उपेक्ष्य गर्वादुर्वशो ययिवान् योगिनीपुरं ॥ १०१ ॥ 5 A