हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 81, कुल 185 में से
संदर्भ में पढ़ें३२ श्रीहम्मीरमहाकाव्ये [ सर्गः दौःशल्येन सुतस्यास्य सशल्य इव वाग्भटः । मंदमंदमथाचख्यौ मन्युगद्गदया गिरा ॥ ७६ ॥ भवितव्यं तु न स्वामिन्निरोद्धुं कोपि सासहिः । त्वामिवैनं पुरोपासे सावधानः परं सदा ॥ ७७ ॥ उक्तेति वाग्भटे तूष्णीं तस्थुषि क्षितिपाग्रणीः । चिकीर्षयात्मनीनस्य सस्मार परमात्मनः ॥ ७८ ॥ राज्यथास्तमिते तस्मिन् वीरनारायणो विभुः । भास्वानिवासील्लोकानां कमलोल्लासकोविदः ॥ ७९ ॥ स्वतेजसैव यस्याशु द्विषतः पिंषतः सतः । वृथा मत्प्रतिकर्मेति किमसिः श्यामतामधात् ॥ ८० ॥ विस्फूर्जद्भुजशांडीर्य—फणभृद्दृष्टवैरिणां । यस्य खड्गलता नाग—दमनौषधिवद्बभौ ॥ ८१ ॥ सोन्यदा प्रमदानेत्र—पावनं यौवनं श्रितः । परिणेतुं सुतां कत्स—त्राहस्याऽन्नपुरीमगात् ॥ ८२ ॥ तत्राभिषेणितो जल्ला—लदीनशकभूभुजा । पलाय्यागाद्रणस्तंभं पृष्ठतः सोप्युपागमत् ॥ ८३ ॥ तत्र युध्वा चिरं जल्ला—लदीनः प्रौढपौरुषः । विज्ञाय तं छलग्राह्यं निवृत्यागान्निजां पुरीं ॥ ८४ ॥ कियत्यथगते काले ततः स शकभूपतिः । विजिगीषुच्छलेनामुं दूतेनेत्थमचीकथत् ॥ ८५ ॥ ज्योतिश्चक्रेषु सर्वेषु सूर्याचंद्रमसौ यथा । तथावां सार्वभौमा वो भूभृत्सु निखिलेष्वपि ॥ ८६ ॥ तन्नौ युक्ता मिथः प्रीतिः पचेलिमफलोदया । न च विग्रहविस्फूर्ति र्भिदेलिम तमायतिः ॥ ८७ ॥ सहायं त्वादृशं लब्ध्वा समीरमिव पावकः । दंदह्येय क्षणेनैव वैरिवंशान् दृढानपि ॥ ८८ ॥