भारतकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

२. हम्मीरदेव का राज्याभिषेक व दिग्विजय

२ श्रीहम्मीरमहाकाव्ये [सर्गः अतोस्य किंचिच्चरितं प्रवक्तु मिच्छामि राजन्यपुपूषयाहं । तदीययत्तद्गुणगौरवेण विगाह्य नुन्नः किल कर्णजाहं ॥ १० ॥ क्वैतस्य राज्ञः सुमहच्चरित्रं कैषा पुनर्मे धिषणाऽणुरूपा । ततोतिमोहोद्धतयैकयैव मुग्धस्तितीर्षामि महासमुद्रं ॥ ११ ॥ गुरुप्रसादाद्यदि वास्मि शक्त स्तदीयवृत्तस्तवनं विधातुं । सुधाकरोत्सगसरंगयोगान्मृगो न खे खेलति किं सखेलं ॥ १२ ॥ श्रीचाहमानान्वयमौलिमौलि र्बभूव हम्मीरनराधिपस्सत् । ऐतह्यतो वच्मि पुरा तदीया मुत्पत्तिमुत्पादितहर्षहेलां ॥ १३ ॥ यज्ञाय पुण्यं कचन प्रदेशं द्रष्टुं विधातु र्भ्रमतः किलादौ । प्रपेतिवत् पुष्करमाशुपाणि-पद्मात्पराभूतमिवांस्य भासा ॥ १४ ॥ · ततः शुभं स्थानमिदं विभाव्य प्रारब्धयज्ञो यमपास्तदैन्यः । विशंक्य भीतिं दनुजव्रजेभ्यः स्मेरस्य सस्मार सहस्ररश्मेः ॥ १५ ॥ अवातरन्मंडलतोथभासां पत्युः पुमानुद्यतमंडलाग्रः । तं चाभिषिच्याश्वदसीय रक्षा-विधौ व्यधादेष मखं सुखेन ॥ १६ ॥ पपात यत् पुष्करमत्रपाणेः ख्यातं ततः पुष्करतीर्थमेतत् । यच्चायमागादथ चाहमानः पुमानतो ऽख्यायि स चाहमानः ॥ १७ । ततश्चतुर्वक्त्रभवात्प्रसादात् साम्राज्यमासाद्य स चाहमानः। चक्रेऽर्कवद्भूत आशुपादा-क्रांतान् गुरून्प्ययमस्य वत्ता ॥ १८ ॥

  • स्वदानजन्मोरुयशोर्जितश्री-विलोपि दानं समवेक्ष्य यस्य । बलिः स पातालविलं सिषेवे त्रपातुराणामपरा गतिः का ? ॥ १९ ॥
  • त्वं पाप रे कामयसे मदीयां कीर्तिं शशी येन रुषेति रुद्धः । बिंबं रवेर्दिव्यमिव प्रदातुं प्रविश्य निर्गच्छति मासि मासि ॥ २० ॥
  • प्रतापवह्नि र्ज्वलितो यदीय स्तथा द्विषां कीर्तिवनान्यधाक्षीत् । तदुत्थधूमाश्रयतौ जहाति वियद्यथा ऽद्यापि न कालिमानं ॥ २१ ॥ निशम्य सुप्रीतमना यदीयां कीर्तिं विचित्रोरुचरित्ररम्यां । महीतलध्वंसभिया शिरः स्व मकंपयंस्तापमवाप शेषः ॥ २२ ॥

१ ] पूर्वजवर्णनम् ३ जयश्रिया प्राप्तमहावियोगान्संमूर्च्छयन् वैरिगणान्निकांमं । यो युध्यवाची पवनायितोपि चित्रं द्विजिह्वान् सुखीचकार ॥ २३ ॥ प्रस्पर्धते मद्यशसा ऽस्य सूनुः शशीयमर्पात् किल यौम्बुराशेः । गांभीर्यलक्ष्मीं हरतिस्म किन्न सुतापराधे जनकस्य दंडः ? ॥ २४ ॥* तदा ऽख्यया जायत चाहमान-वंश स्त्रिलोकीविहितप्रशंसः । शश्वत् सुपर्वावलिसेव्यमान उत्पत्तिहेतु र्नरमौक्तिकानां ॥ २५ ॥ तस्मिन् स्फुरद्विक्रमचक्रवाला वंशे बभूवु र्बहवो नृपालाः । त्रिवर्गसंसर्गपवित्रचित्र-चरित्रविन्नासितपापभाराः ॥ २६ ॥ पराक्रमाक्रांतजगत्क्रमेणा भवन्नृपो दीक्षितवासुदेवः । शकासुरान् जेतु मिहावतीर्णः स्वयं धरायामिव वासुदेवः ॥ २७ ॥ सपत्नसंघातशिरोधिसंधि-च्छेदादसिं कुंठतरं निजे यः । प्रतापवह्लावभिताप्य काम मपाययत्तद्रमणीदृगंबु ॥ २८ ॥ छिन्नद्विषन्मंडलमौलिमूला-सृक्पूरदिग्धासिलताछलेन । रणाजिरे यस्य करे विरेजे व्यक्त्तानुरागेव भृशं जयश्रीः ॥ २९ ॥ प्रवाद्यमाने रणवाद्यवृंदे संपश्यमानेषु दिवः सुरेषु । शौर्यश्रियं यो रणरंगभूमा वनर्त्तयद्देलदसिच्छलेन ॥ ३० ॥ भास्वान् जितो यन्महसा ददाति झंपां किमद्यापि न वारिराशौ । उन्मज्जति व्याकुलितो ऽन्वहं द्य सुदुस्त्यजं हा ! हतजीवितव्यं ॥ ३१ ॥ तदंगजन्मा ऽजनि नाभिजन्मा-र्हणाचणः श्रीनरदेवभूपः । तनूदरीलोचनलोभनीय-तनुश्रिया र्जितकामरूपः ॥ ३२ ॥ * अशात्रवं विश्वमिदं विधातुं क्रुद्धे परिक्राम्यति यत्र भूपे ।

  • राज्यश्रियं पातुमरातयः स्व-कोशादसून्यांचकृषुर्न खङ्गान् ॥ ३३ ॥ संख्येपु पूर्वाचलचूडशोभां बाहुर्यदीयः कलयांबभूव । म्लानिं नयन्वैरिमुखांबुजानि रराज यस्मिन् नवचंद्रहासः ॥ ३४ ॥ प्रतापवह्नि र्ज्वलितो यदीयः स्थाने यदन्यायवनान्यधाक्षीत् । जगज्जनाश्चर्यकरं तदैतत् यद्वैरिणां कंपभरं ततान ॥ ३५ ॥

[Page Header] ४ श्रीहम्मीरमहाकाव्ये [सर्गः

नखावलीनां कपटेन पुत्र-पौत्रान्वितोप्येष पतिर्द्विजानां । जितोहमैतत् यशसेत्युपेत्य लग्नो यदीये पदपद्मयुग्मे ॥ ३६ ॥ श्रीचंद्रराजेन नयैकधाम्ना ततो धरित्री बिभ्रांबभूवे । वक्त्रेण कीर्त्या च निशाकरं द्वि र्जयन् स्वनामाऽतत यो यथार्थं ॥ ३७ ॥ यस्य प्रतापज्वलनस्य किंचि दपूर्वमेवाजनि वस्तुरूपं । प्रज्वल शत्रौ सरसे प्रकामं यन्नीरसेऽस्मिन् प्रशशाम सद्यः ॥ ३८ ॥ चापस्य यः स्वस्य चकार जीवा-कृष्टं रणे क्षेप्तुमनाः शरौघान् । जवेन शत्रून् यमराजवेश्म ऽनैषीत्तदेतन्महदेव चित्रं ॥ ३९ ॥ यस्य क्षितीशस्य च यन्महासे रन्त्योन्यमासीत्सुमहान् विरोधः । एको विरागः समभूत्परेषां दारेषु चान्यो यदभूत्सरागः ॥ ४० ॥ तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा । यः सिद्धविद्यो जगति प्रसिद्धिं जगाम चक्रीतिजितारिचक्रः ॥ ४१ ॥ भिन्नद्विषत्कुंभिघटाकटाह-कुंभोच्छलच्छोणितशोणशोचिः । यस्याहवे खङ्गलता प्रतापा-शुशुक्षणे रर्चिरिवोल्ललास ॥ ४२ ॥ अनेकधाष्टापदसारदान-दक्षो वशीभूततराक्षचारः । यो द्यूतकृच्चतुरंगयुद्ध-क्रीडास्वजेयः समभूत्परेषां ॥ ४३ ॥ विदारितारातिकांरिद्रकुंभ-विलग्नमुक्ताफलकैतवेन । करे यदीये करवालवल्ली जयश्रियो हारलतेव रेजे ॥ ४४ ॥ यत्कीर्त्तिपूरैरभितः परीते विश्वत्रये सूरिभिरित्यतार्कि । तप्तं प्रतापै र्ध्रुवमेतदीये र्विलिप्तमेतन्नवचंदनेन ॥ ४५ ॥ यदीयकीर्त्यापहतां समंतात् निजां श्रियं स्वर्गधुनी विभाव्य । पतत्प्रवाहध्वनिकैतवेन कामं किमद्यापि न फूत्करोति ॥ ४६ ॥ रणे कणेहत्य निपीय रक्त-मधून्यरीणां वदनांबुजेषु । शिलीमुखा यस्य समंततोपि क्षीबा इव क्षोणितलं स्म यांति ॥ ४७ ॥ यस्य प्रसर्पद्विष्मायुधस्य प्रत्यर्थिनां संगरसँगतानां । स्वेदः प्रकंपो बलहानिरुच्चै रभूद्वधूनामिव वल्लभस्य ॥ ४८ ॥

१] पूर्वजवर्णनम्

  • स्फुरद्धृतिः प्राप्तलसत्प्रतिष्ठो विशुद्धवर्णः स्पृहणीयवृत्तः । कीर्त्तिं स्मरन्सत्कवित्परार्थ-हेतौ मतिं क्वापि न यश्चकार ॥ ४९ ॥ विरुद्धवासादिह मां न कोपि वेत्तीति बिभ्यत्किल यत्प्रतापात् । दारूणि वह्निः प्रविवेश नोचे तद्धर्षणात्तत्प्रभवः कुतः स्यात् ॥ ५० ॥ कामं यदोजःसृजि वेधसोपि स्वेदोदयः कोपि स आविरासीत् । प्रसर्पता येन नदीवदंबु-राशेरपि क्षारमकारि वारि ॥ ५१ ॥ तद्वास्तु तत्तद्धनवस्तुसार-प्राग्भारवीक्षास्तुतधातृसर्गं । स्वर्गश्रियं जित्वरकांनिकांत-मतिष्ठिपत् योऽजयमेरुदुर्गं ॥ ५२ ॥ अदीपि तस्माज्जयराजभूपू स्त्रैलोक्यविख्यातयशःस्वरूप । यत्कीर्त्तिचंद्रैर्मुखमंडलानि दिकामिनीनां सुरभीवभूवुः ॥ ५३ ॥ यशो विताने स्फुरिते यदीये व्यक्तो यदाऽलक्ष्षि न शीतराश्मिः । तदादिशंके विधिना व्यधायि तदीयबिंबांतरयं कलंकः ॥ ५४ ॥ यस्मिन्महीं शासति राजमार्ग-प्रोलंघनं तुंगसुरालयेषु । *निख्रिंशताऽस्त्रेषु मदो द्विंपेषु करग्रहोऽभूत् करपीडनेषु ॥ ५५ ॥ जगत्प्रदीपे किमु यत्प्रतापे पतंगवद्व्यान्निपपात भास्वान् । पतंग इत्येतदमुष्य नामा ऽन्यथा कवींद्राः कथ मामनंति ॥ ५६ ॥ सत्यं किलैकोदरजोपि चैक-नक्षत्रजातोपि सदृग्भवेन्न । अप्येकतोसेः सममस्य जात मुष्णं यदोजः शिशिरं यशस्तु ॥ ५७ ॥ सामंतसिंहो नृपतिस्ततोऽभूत् मत्तारिदंताबलवारसिंहः । यस्य प्रतापैर्नपतोश्चक्रं बभूव भूषैव कृपाणदंडः ॥ ५८ ॥ *अहो अहोरात्रमहोदयश्री र्यशःशशी यस्य नवो बभासे । *नान्यायसिंहीसुतलब्धभीति र्नामित्रधाराधरलब्धकांतिः ॥ ५९ ॥ (३ष्ट! महीभृतां मूर्धसु यत्प्रतापो भास्वान्नवो भात्किल यः प्रसर्पन् । तताप शत्रून् विधुतातपत्रां स्यक्तातपत्रात्र पुनः कदाचित् ॥ ६० ॥ पिस्पर्धिषू एष ममैदूहीनौ पातीति कोपादिव यस्य कीर्त्तिः । जटास्वटत् स्वस्तटिनी छलेना-हरोह मौलिं हिमराश्मिमौलेः ॥ ६१ ॥

६ श्रीहम्मीरमहाकाव्ये [सर्गः . स्पर्धां विधित्सोः सह येन संख्ये स्वस्याविवेकत्वविलुप्तबुद्धेः । तृणानि दद्भिर्दधतः पशुत्व मनागसे स्मारिगणा गदंति ॥ ६२ ॥ ततोभजद्राज्यरमामन्नंता-नंतापति गूंयकनामधेयः । येनानिशं धर्मतरूर्द्धरित्या मुत्सर्गनीरैरभिषिच्यतेस्म ॥ ६३ ॥ उद्दामधाराजलवाल्किं य-त्करांतराले करवालमेघं । अभ्युन्नतं वीक्ष्य विपक्षमान-हंसोद्रुतं मानसतोप्यनेशत् ॥ ६४ ॥ उच्चारयन्वैरिपशूंस्तृणानि निस्त्रिशदंडं च करे दधानः । निरंतरं भूषितसर्वदेहः सत्यां वितेने निजगोपतां यः ॥ ६५ ॥ पलायितानां रिपुभूपतीनां पिवन् कणेह्य यशःपयांसि । तत्स्त्रैणनिश्वाससमीरपुष्टो यस्यासिदंडो भुजगायतेस्म ॥ ६६ ॥ तन्नंदनश्चंदनवज्जनाना मानंदनो नंदननामधेयः । निहत्य शत्रून्समरे समग्रान् स्वसाच्चकारावनिमा समुद्रं ॥ ६७ ॥ आलोकमात्रेण शुभानि पुष्णं स्त्वार्थदृष्ट्या च तमांस्यपास्यन् । प्रजा विवस्वानिव वृत्तरम्यः संवर्धयामास निरंतरं यः ॥ ६८ ॥ पुरः परेषां किल पक्षपातं विहाय के नाधिकमाहुरेनं । नाजौ यथादीदृशदेष पृष्ठं निजं तथा वक्त्रमहो परेपि ॥ ६९ ॥ पुरः परेषां किल पक्षपातं विहाय केनाधिकमाहुरेनं । यथा स्वकोशादयमाचकर्ष खड्गं तथाजौ वसु वैरिणोपि ॥ ७० ॥ यस्य प्रतापो भुवि वाडवाधिक्षेपायदंहः कलयांबभूव । तःसंप्रमाष्टुं किमसो प्रविष्टः पारेबुधेस्तीरतपोवनानि ॥ ७१ ॥ भयार्त्तवप्रायितबाहुदंडः सर्वास्त्रविद्योपनिषत्करंडः । लीलापराभूतसुपर्वराजः क्ष्माभृत्ततो राजत वप्रराजः ॥ ७२ ॥ ज्वलत्प्रतापज्वलनोपतप्ता प्रत्यर्थिभूभोगजुषां जयश्रीः । यदीयनिस्त्रिशनिशातधारा-पाते व्यधान्मज्जनसञ्जलीलां ॥ ७३ ॥ सरीसृपस्यास्य च खङ्गयष्टे राकारमात्राद्यदि साम्यमासीत् । दंष्ट्रा हरेत्प्राणगणान्यदाद्यः परो द्विषां वीक्षितमात्र एव ॥ ७४ ॥

१ ] पूर्वजवर्णनम् ७ सर्वातिशायिद्रुतना विधात्रा विधित्सितौजोधशसी यदीये । अवश्यमेतौ रचितौ प्रशस्या-भ्यासाय तिग्मद्युतिशीतरश्मी ॥ ७५ ॥ शंके प्रतिक्षमापतिकीर्तिलोप पापोपशांत्यै विदधेस्य कीर्तेः । स्नानं मुहुर्नाकनदीप्रवाहे शुभ्रत्वमासी त्कथमन्यथा स्यां ॥ ७६ ॥ अप्यस्तदोषस्य बभूव तस्य दोषद्वयं कामवशित्वलोभौ ।

  • सेनां कुमारीं बुभुजे मृधे य ललौ तथैको विजयश्रियं च ॥ ७७ ॥ यत्कीर्तिगानं विनिशम्य शंके हरः प्रनृत्यन्ससत्प्रमोदः । छुटज्जटानिर्यदमर्त्यसिंधु-पय प्रवाहैरिव शुभ्र आसीत् ॥ ७८ ॥ खेलत्सु भूरिष्वपि याचकेषु दानैकलीलारसिकस्य यस्य । दा पृष्ठचारी किल यो नकारो यदि प्रियोसौ न परः कदाचित् ॥ ७९ ॥ अनल्पसंकल्पनकल्पवल्लीं विपक्षपक्षव्रजभेदभल्लीं । त्रैलोक्यलोकावलिवंद्यपादां सेवापरत्प्रत्तमहाप्रसादां ॥ ८० ॥ शाकंभरीस्थानकृताधिवासां शाकंभरीं नाम सुरीं प्रसाद्य । विश्वापतिर्विश्वहिताय शाकं-भर्या रुमां यः प्रकटीचकार ॥ ८१ ॥ ततो धराभारमुरीचकार जितारिचक्रो हरिराजभूपः । शक्राधिराजस्य रणे निहत्य तन्मानवन्मुग्धपुरं ललौ यः ॥ ८२ ॥ रणाजिरे वैरभृतां भटाना मेकोपि यो ऽनेकत्या चकासे । प्रपश्यतां निर्मलनीरपूर्ण-पात्रेषु तारापतिवज्जनानां ॥ ८३ ॥ भ्रांत्याप्यदभ्रेषु धराधरेषु कुत्राप्यनासादितयोग्ययोगाः । पौरा इवौदार्यमुखा गुणाःस्म दिवानिशं यस्य पुरे वसन्ति ॥ ८४ ॥ अनेन पेठे पठताक्षराणि किं नो वृथा बोध्यथवा निदानं । निषेधतेो स्मान्विशतो निषेद्धु मेवेति यस्मिन्कविवाग्वितर्कः ॥ ८५ ॥ अस्याऽवनीमघवतो ऽसिलतांबुराशे- रक्ताघता सुमहतीति किमद्भुतं नः । अस्याद्भुताद्भुतमिदं तु सनीरतायां सत्यामपि स्फुरति यज्जडता स्म नैव ॥ ८६ ॥

८ श्रीहम्मीरमहाकाव्ये [सर्गः [दंतपृष्ठफणचक्रसहस्रैः] क्रोडकूर्मभुजगाधिपा दधुः । क्ष्मां सुखेन भुजयैकया दधत्तामसा वतत कं न विस्मयं ॥ ८७ ॥ उद्यच्छौर्यविनिर्जितोर्जितरिपुस्तंवेरमौघोनघ- स्त्रीसंचालितचारुचामरयुगव्याजोलसत्केसरः । आत्मीयासनमाश्रितो वनजुषा मीशस्वभावं दधत् जज्ञे सिंह इवोन्नतक्रमगतिः श्रीसिंहराज स्ततः ॥ ८८ ॥ एतेनोत्रासितानां प्रतिधरणिभुजामुल्लसद्दुर्यशस्सु स्फूर्जत्पर्जन्यमालाललितमुपगतेष्वाजिभूमौ समंतात् ॥ किन्न स्थाने तदेतत्प्रवसितमचिरान्मानहंसैर्यदेशा- मश्चैर्यद्वा प्रवृत्तं विरहविधुरिमालिगनात्तद्वधूनां ॥ ८९ ॥ क्षारोप्यंबुनिधिः शितिद्युतिरपि प्रासूत यस्मात्कथं शुभ्रांशुश्च सुधामयश्च सविधुस्तुल्योहि पुत्रः पितुः । आसीदुत्तरमस्य नो ऽद्य नृपते र्यस्य प्रसर्पद्यशः पीयूषैः परिपुष्ट एष उदधिस्तादृग्भवँ स्तज्जनौ ॥ ९० ॥ लक्ष्मीरमेषपराश्रिता मपिवला दाकृष्यभोगास्पदं प्रीत्या स्वस्य तनोति मां च जननादप्येकपत्नीव्रतां । स्वस्माद्दूरयति स्तुतां कविजनै र्न श्रोतुमुत्कंठते क्रुद्धेतीव विपक्षभूमिमभजत्कीर्ति र्यदीयोच्चकैः ॥ ९१ ॥ बाणे महीमघवतोस्य तथा कृपाणे पाणौ स्थितेप्युभयमद्भुतमेतदासीत् । एको दधाव समरे परलक्ष्यहेतो रन्यः स्वकोशमपि दूरमुदौज्झदेव ॥ ९२ ॥

  • अगाधं पाथोधिं गुरुगरिमसारं सुरगिरिं पृथकृत्वा वेधा न खलु कृतकृत्यो मम मते । द्वयं निर्मायास्मिन् पुनरपि किलैकत्र भगवान् तथा प्रीतः सृष्टिं व्यधित न यथा तत्प्रणयने ॥ ९३ ॥

१ ] पूर्वजवर्णनम् ९

  • यत्सौन्दर्यवशीकृतेव विजयश्रीकन्यका संगरे सर्वानप्यपहाय राजतनुजान् दौर्भाग्यदग्धानिव । उद्वोढुं यमुपागता करतलं स्पृष्ट्वापि सद्यो महः सूनुं कीर्तिसुतामसूत तदिदं लोके महत्कौतुकं ॥ ९४ ॥ कर्णाटश्चटुपाटवप्रकटनो लाटः कपटप्रद- श्चोलश्वासविलोमहृत् परिगलद्वीजर्जरो गुर्जरः । अंगः संगररंगभंगुरमतिः संपद्यते स्म क्षणात् दिक्कुक्षिभरि यत्प्रयाणपटहध्वाने समुत्सर्पति ॥ ९५ ॥
  • “गांभीर्येण विनिर्जितोहममुने” त्यंभोनिधे त्वं वृथा खेदं मास्म कृथा जनः किल जनं दृष्ट्वा समाश्वासयेत् । सत्त्वाधारतया तथोन्नततया पश्यैष देवाञ्चलो जिग्ये ऽनेन तथा यथा नयनयो र्हित्वा गतो गोचरं ॥ ९६ ॥ यावत्कर्तु मयं ववांछ विलसत्कोदंड माजौ करे तावद्वैरिनृपः पुरैव विलसत्कोदंडमाधात्पुरः । एतस्मात्कयमन्यया प्रकुपितात्साक्षात्कृतांतादिव प्राणत्राणविधिर्दिगंतबलिभूः स्वर्गं गतानामपि ॥ ९७ ॥ निर्विण्णोयमरीन्निहत्य गणशोप्याजौववाह क्षमां इत्याकर्ण्य निधत्त दर्पिततमान् रे भूपुजो मा भुजान् । दुर्लक्ष्यं किमु वेधसापि चरितं जानीय नास्याखिलं बाह्यामेव वहत्यसौ सुमहतीमेनां न चांतर्गतां ॥ ९८ ॥ पंचाप्यस्य करेण दानविधिना कल्पद्रुमा निर्जिता एकैकां कलिकां बलिव्यतिकराद्दत्त्वांगुलीं स्वामिव । आसन्नांगुलिकाः स चाभिरभवत्पंचांगुलिः पप्रथे लोकेपि व्यवहार एष न भवेत्प्राग्भिः किमंगीकृतं ॥ ९९ ॥ उज्जत्येष विपक्षवृत्तिमपि नो खड्गं करात्कर्हिचित् नांगुल्यापि यदि स्पृशेद्वृणवतोप्यस्मान्सपक्षानपि । 2 k

१० श्रीहम्मीरमहाकाव्ये [सर्गः

बिभ्राणा इषवो विशन्क्षितितलं दूरे यदीया रणे ॥ १०० ॥ हाहा केयमनौचिती जलनिधेरद्यापि हृष्यत्यसौ यं दृष्ट्वा जितमप्यमुष्य यशसा चंद्रं मुहुः स्वांगजं । प्राप्यैतन्महसा तथैव वडवावह्निं च शुष्यत्यहो सर्वः कोपि परस्य पश्यति जनो दोषं न च स्वस्य तं ॥ १०१ ॥ उत्सर्पद्गुरुदर्पदर्पितभुजादंडारिदंतावल- व्रातावर्ग्रहनिग्रहाग्रहमहानागेंद्रसांद्रप्रभः । हत्वा यो युधि हेतिमं शकपतिं निर्व्याजवीरव्रतो मत्तेभांश्चतुरोऽग्रहीद्वलकरान्मूर्तानुपायानिव ॥ १०२ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीरांक तदीयपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ १ ॥ अथ द्वितीयः सर्गः अथो अभावात्तनुजस्य भीमं भ्रात्रेयमात्मीयपदे निवेश्य । कृतारिषड्वर्गजयः स सिंह-राजो हरेर्धाम जगाम नाम ॥ १ ॥ तद्राज्यमासाद्य स भीमदेवः सद्यस्तथा विक्रममाततान । न वास्तवौ कापि यथा धरायां बभूवुषी शत्रुरिति प्रवृत्तिः ॥ २ ॥ कौक्षेकायक्षतकुंभिकुंभो—च्छलद्गलन्मौक्तिककैतवेन । अपातयद्यो रिपुशौर्यवल्ले र्यशःप्रसूनानि चिरार्जितानि ॥ ३ ॥ स्वप्नेपि यद्दर्शनतो भयार्त्ता निद्रां प्रियमप्यजहुर्विपक्षाः । क्रियेत किं शर्करया तया वा या भक्ष्यमाणाऽशु दतो भनक्ति ॥ ४ ॥ श्रेयस्तरं हंत गुणाऽगुणानां परीक्षणं यद्यपि नो तथापि । चकार यः प्रार्थिषु नेयतापि गर्वोद्धुराः संतु सुरद्रुमाद्याः ॥ ५ ॥ अथोद्दिदीपेऽनयनिग्रहाय बद्धाग्रहो विग्रहराजभूपः । द्विधापि यो विग्रहमाजिभूमा वभंजयद्दौरिमहीपतीनां ॥ ६ ॥

२] पूर्वजवर्णनम् ११ संकोचयन्वैरिमुखांबुजानि प्रवर्द्धयन् कौमुदमासमुद्रं । संपीडयन् दुर्नयसैंहिकेयं नवो विवस्वान् भुवि यत्प्रतापः ॥ ७ ॥ पुरा निजैः प्रौढतरैः प्रतापै रतापयद्यः कुपितो धरित्रीं । ततो दयार्द्रकृतचित्तवृत्ति र्यशःसुधाभिर्नितरामसिंचत् ॥ ८ ॥ अप्युग्रवीरव्रतवीरवीर-संसेव्यमानक्रमपद्मयुग्मं । श्रीमूलाजं समरे निहत्य यो गुर्ज्जरं जर्जरतामनैषीत् ॥ ९ ॥ कृतारिषड्वर्गजयो नयज्ञः श्रीगुंददेवोय बभौ नृदेवः । कवींद्रबद्धापि यदीयकीर्त्ति र्जगत्समस्तं भ्रमतस्म चित्रं ॥ १० ॥ चकार निर्विघ्नविधित्सितस्य यदोजसो द्रव्यलवेन वेधाः । गौरीपतेर्यं तिलकं खमूर्त्ते श्चकास्ति सोद्यापि सहस्ररश्मिः ॥ ११ ॥ महीमृगांकोहमिति प्रजानां न्यधत्त यो नैव करान् कठोरान् । युक्तं स ईदृग् चकोरहर्ष-दायी परं चित्रमिदं न कस्य ॥ १२ ॥ कल्पांतकालज्वलनोपमाने यस्य प्रतापे ज्वलितेभितोपि । यन्प्रीतिवल्ली क्वच नापि नागा म्लानिं तदेतद्गुरुविस्मयाय ॥ १३ ॥ त्रस्तः समंतादपि यत्प्रतापात् द्विषोभिगच्छन् शरणं जलस्य । अकृत्यमप्याद्रियतौर्ववन्हि रहो दुरंता बत जीविताशा ॥ १४ ॥ प्रत्यर्थिनां वेश्मसु यत्प्रताप-ज्वालावलीढेषु सुमंततो यत् । उज्जंगमामास तृणोच्चयस्त दुक्तं जनेप्यस्य तथैव सिद्धेः ॥ १५ ॥ भूवल्लभो वल्लभराजनामा ततोभवद्भास्वदनर्घधामा । लीलावतीलोचनलोभनीय-लावण्यलीलाद्रुतरूपसंपत् ॥ १६ ॥ हित्वा वपुर्मानुषमाजिभूमौ धृतत्वरा देवभुवं व्रजंतः । प्रत्यर्थिभूपाः स्मृतयत्प्रतापा श्चकंपिरे वीक्ष्य सहस्ररश्मिं ॥ १७ ॥ स्वर्गश्रिया वैभवाजिन्त्वरीणां श्रियामपारत्वमवेक्ष्य यस्य । तत्स्पर्धयेवाऽशु यशांस्यपारी-भूय व्यजृंभंत जगत्यशंकं ॥ १८ ॥ विश्वंभराभारधुरीणबाहू रामस्ततो ऽजायत बाहुजेशः । विमर्दितोद्यत्खरदूषणेन येन त्रिलोकी वशमाशु निन्ये ॥ १९ ॥

१२ श्रीहम्मीरमहाकाव्ये [सर्गः जयश्रियं स्वामिशयांबुजेन संयोजयन् शत्रुतमस्यपास्यन् । ज्वलत्प्रतापावलिदीप्तकांती रणे कृपाणो रवयददीयः ॥ २० ॥ छिदन् शिरांसि प्रतिपक्षभूमी-भृतामसिर्यस्य विशुद्धधारः । पस्पर्श रक्तं न यतो विशुद्धाः परस्य केनापि न संसृजंति ॥ ततो महीक्षित्तमतां दधार चामुंडराजस्तरसा प्रचंडः । यत्पाणिपद्मे करवालवली जयश्रियो वेणिरिव व्यराजत् ॥ २२ ॥ यस्य प्रतापः प्रसृतः पृथिव्यां बिभेद शंके दृषदोपि नूनं । अद्यापि नोचेत्स्फटिकोपलेभ्यो हिरण्यरेताः प्रकटः कुतोस्तु ॥ २३ ॥ कृतांतक्रांताकुचकुंभपत्र-लतापिधाने विधृतावधानं । यः संगरे हेजमदीनसंज्ञं शकाधिराजं तरसा व्यधत्त ॥ २४ ॥ नृपोथ दध्रे वसुधां सुधांशु-भाजिद्यशा दुर्लभराजसंज्ञः । भ्रुवैव संगान्समरांगणे यः प्रापीपठद्वैरिगणान्न्रिकामं ॥ २५ ॥ जितं स्वमालोक्य यदीयकीर्त्या शंके त्रिनेत्रो ग्रहिलत्वमाप । महेश्वरस्यापि कुतोन्यथास्य कौपीनवासो वसनेनुरागः ॥ २६ ॥ यत्खड्गधाराभिररित्रिजानां प्रतापवह्निः शमितः समंतात् । तदंगनाबाष्पभरैरथास्य चित्रं न कुत्रापि निरस्यते स्म ॥ २७ ॥ सहावदीनं समरे विजित्य जग्राह यो बाहुबलेन मानी । असंख्यसंख्यार्जितशारदीन-शशिप्रभाभेतृ तदीयकीर्ति ॥ २८ ॥ ततो भवद्दुःशलदेवनामा भूमानगर्विवातविजितृधामा । यन्मानसं प्राप्य न धर्महंसः काँस्कांन् विलासान् कलयांचकार २९ ॥ पलायमाना दरतो द्विषंतो बुंवारवान् यान् समरेष्वकार्षुः । जयश्रियः पाणिमहाय यस्य त एव वेदध्वनयो बभूवुः ॥ ३० ॥ नाकेशनारीजनगीयमान-गीतामृतास्वादवितीर्णकर्णं । श्रीकर्णदेवं समरे विधाय तद्राज्यलक्ष्मीं परिणीतवान् यः ॥ ३१ ॥ हस्ते लगित्वास्य जगत्समक्षं कंठे लुठंत्याः प्रतिभूपतीनां । यत्खड्गवल्लेरसतीव्रतायाः किमौचितीं नांचति कालिका स्म ॥ ३२ ॥

२ ] पूर्वजवर्णनम् १३ महीं महीं भूपयतिस्म तस्मात् श्रीविश्वलो विश्वविलासिकीर्तिः । समूलमुन्मूल्य कुलं रिपूणा मेकाधिपत्यं भुवि यश्चकार ॥ ३३ ॥ प्रसृत्वराजनीतिलतावितान-कुठारकल्पेपि यदीयराज्ये । ललास लोके यदनीतितैव तत्कस्य नो विस्मयमाततान ॥ ३४ ॥ यस्यारिनारीगिरिगह्वरेषु सुदृन्मृगाक्षीरतिमंदिरेषु । स्थिता सुखं भूषणभूषितांगी विवेद नैवोदितमस्तमर्कं ॥ ३५ ॥ हताऽहितानां सकलेवराणां स्पर्शोलसत्स्रुप्तिभराप्तदोषे । तल्लोलदृग्लोचनवारिपूरैः क्षोणीतलैऽवूक्षणमक्षिपेद्यः ॥ ३६ ॥ अहीनधामानमदीनसेनं सहावदीनं समरे निहत्य । अमूमुचन्म्लेच्छकुलैर्द्विधापि यो मालवस्यापि विभुर्विभुत्वं ॥ ३७ ॥ ततो भुवं भूपयतिस्म पृथ्वी-राजः स्वकीयैर्विशदैर्यशोभिः । प्रकंपमाने युधि यत्कृपाणे चित्रं निपेतुर्द्विपतां वतंसाः ॥ ३८ ॥ मूर्च्छुह्यमाना सततं जनानां मनोरथानाशु समर्थयंती । आज्ञा यदीया हरपादपद्म-सेवेव कल्याणकरी बभूव ॥ ३९ ॥ गंधर्ववृंदैर्दिवि गीयमानां सौभाग्यभंगीं विनिशम्य यस्य ॥ सा का सुरी स्वस्य न या ववांछ तत्संगमावाप्तिकरं नरत्वं ॥ ४० ॥ ततो बभोव्हाल्हणदेवसंज्ञो भूभृद्भटं मन्यशिरोवतंसः ॥ वने द्विपंतः स्मृतयद्गजेंद्रा श्चकंपिरे वीक्ष्य महीभृतोपि ॥ ४१ ॥ देहीति जल्पन्नपि याचकेन दानप्रियो यो न जजल्प नेति ॥ दातन्नकिं दानपदेस्ति नोर्पि बलीयसी केवलमीश्वरेच्छा ॥ ४२ ॥ छिन्नद्विषच्छोणितशोणशोची रणेषु यस्यासिलता चकासे । या स्पार्द्धिनीं वाचमुवाच तेन कृष्टेव जिह्वा युधि सैव तेषां ॥ ४३ ॥ यद्रूपगानं भुवि गीयमानं निपीय कर्णांजलिभिर्निकामं । स्वप्नप्रसंगात्तदीयसंगा बभूव का नो धृतकामरंगा ॥ ४४ ॥ भानल्लदेवो भटमौलिमौलिरथोपयेमे नृपतित्वलक्ष्मीं । यः संगरे दारितवैरिवार-पाणिंधमं स्वर्गपथं चकार ॥ ४५ ॥

१४ श्रीहम्मीरमहाकाव्ये [सर्गः जेगीयमानं निजकामिनीभि राकर्ण्य यं शेष इति प्रदध्यौ । कोप्यस्ति धत्ते वसुधां क्षणं यां गत्वा यथैनं प्रविलोकयामि ॥ ४६ ॥ स्वकालिमानं वितरन्नरीणां तेषां च जीवं च यशांसि गृह्णन् । रणे यदीयः करवालदंडो वणिक्फलाकौशलकेलिरासीत् ॥ ४७ ॥ गिरीशकैलाससुधासुभांशु--श्रियं समाकृष्य यशः किमस्य । वेधा व्यधत्तास्य पुरो यदेते निःश्रीकतामाकल्यांबभूवुः ॥ ४८ ॥ प्रोदंच्यपाणिं कनकाद्रिदंभा दिदं जगादेव वसुंधरैषा । दाता विवेकी विनयी नयी वा विहाय नैनं सुगुणं मयान्यः ॥ ४९ ॥ त्रस्तेन पत्याऽर्धपथे विमुक्ता स्थितापि यद्वैरिवधः स्वदेशे । शीतद्युतेस्तीव्रतया नवं स्वं दीपांतरं प्राप्तममंस्त किंचित् ॥ ५० ॥ पर्यंतशैलप्रतिबिंबदंभात् क्रीडारसक्रोडितदिग्द्विपं यः । अचीखनत् पुष्करपुण्यपारं कासारसारं शुचि वारितारं ॥ ५१ ॥ विस्मापकश्रीर्भवति स्म तस्मा द्भूत् जगद्धेव इति प्रतीतः । दानं समानं समवाप्य यस्य वनीपकाः [के धनिनो नचोर्व्यां] ॥ ५२ ॥ सशोकधूमाश्रुजलैर्मिलित्वा निःश्वासवातैररिपुकामिनीनां । सद्यो घनीभूय न दुर्दिनानि तेने यदोजो ज्वलनः किमासां ॥ ५३ ॥ त्यागेतिविश्वस्य विधेर्विधित्सो र्यस्यांगुलीः पाणितलं नखींश्च । स्वर्गोस्तनाः स्वर्तुमलवाः स्व-मणिः किलाभ्यासकृतेयसृष्टिः ॥ ५४ ॥ गुणान् यदीयान् गणयन् विधाता परिश्रमं तं कलयांचकार । त्रिलोक्य सृष्टावपि नानुभूतो र्यल्लेशमात्रं विषयीबभूव ॥ ५५ ॥ ततो भवद्विश्वलदेवनामा विश्वापतिर्विश्वविकासिधामा । यत्पाणिपाथोरुहि कर्णिकायाः पुपोष भावं ननु भूतधात्री ॥ ५६ ॥ विदारिताऽरातिकरींद्रकुंभा द्यान्यत्र पेतुर्युधि मौक्तिकानि । तान्येव पुष्पाणि विकस्वराणि यदीयकीर्तिव्रततेर्बभूवुः ॥ ५७ ॥ यदीयकीर्त्या विजितो हिमाद्रि रद्यापि नाश्रूणि विमुंचते किं । भृशं तपत् तापनतापनेन द्रवीभवद्धैमशिलाछलेन ॥ ५८ ॥

२ ] पूर्वजवर्णनम् १५ गुणान् कणेह्रत्य निपीय यस्य भृशं प्रहृष्टोऽपि सुपर्ववर्गः । कष्टं [सचित्त्राहत एव तस्थौ न देवभूपं] श्रितवान् यदेषः ॥ ५९ ॥ तस्मादशोभिष्ट महिष्टधामा महीमहेंद्रो जयपालनामा । स्रवद्दिस्रैरिपुकामिनीनां यशस्तरूर् पल्लवितो यदीयः ॥ ६० ॥ वृंदानि संख्ये बलिनामरीणां वीक्ष्यावरोधे च तनूदरीणां । •यो विश्वविख्यातयशः प्रकाशो भृशं न कंदर्पमुरीचकार ॥ ६१ ॥ दुग्धोदधिस्फीततरत्तरंग—श्रेणिश्रियां वैभवजेतृभारः । जगूग्र्गणेन्दुरवाभिरामं गुणान् यदीयानुरगेंद्रकन्याः ॥ ६२ ॥ गांगेयवद्वेयगुणस्ततोऽभात् श्रीगंगदेवो वसुधासुधांशुः । निश्वासवातै रिपुकामिनीनां प्रतापरसार्धिरदीपि यस्य ॥ ६३ ॥ दोषाकरो यद्यशसो महत्त्वं विलोक्य मात्सर्यभरं दधानः ॥ यदर्जयामास तमःकलंक—च्छलात्तदद्यापि न मुंचते ऽसौ ॥ ६४ ॥ परः शतेभ्योऽपि रिपुव्रजेभ्यो यच्छन्न तुच्छां सुरलोकलक्ष्मीं । उद्दामसंग्राममवाप्य मात्रा हीनः कृपाणोऽजनि यस्य नैव ॥ ६५ ॥ गतेषु कर्णादिषु दानशौंडे—त्रयं जनो मा जनि दौस्थ्यपात्रं । ध्यातेति यं दायकचक्रशक्रं मन्ये दयालुर्वदधे विधाता ॥ ६६ ॥ त्रैलोक्यलोकावलिकर्णकर्ण—पूरीकृतानंतगुणैकधाम । इलाविलासी जयंतिस्म तस्मात् सोमेद्ववरोऽन्नभरनीतिरीतिः ॥ ६७ ॥ रणेषु येन स्वकरांबुजेन प्रोल्लास्यमानासिलता चकासे । अंतः स्फुरत्क्रोधकृशानुजात—धूम्येव साक्षाद्वहिरुल्लसंती ॥ ६८ ॥ उक्तेन गोत्रस्खलनाद्यदीय—नाम्ना विलक्षं रमणं विधाय । चिराय संभोगरसप्रसंगि चेतो निजं प्रीणयतिस्म का न ॥ ६९ ॥ वह्नेंद्विपन्नंश्विति यत्प्रतापा द्विमभ्यवर्षन्नरियोषितो ऽस्रैः । हविर्विदेभिर्ववृधे सकामं वामे विधौ वाममशेषमेव ॥ ७० ॥ अनेन राज्ञा सममेकभावं कथं समायातु भुजंगराजः ॥ अधात्सहस्रेण रा गां शिरोभि रयं पुनस्तां भुजयैकयैव ॥ ७१ ॥

१६ श्रीहम्मीरमहाकाव्ये [ सर्गः कर्पूरदेवीति बभूव तस्य प्रिया [प्रिया] राधनसावधाना । जितं यदास्येन जले निलीया द्याप्यप्सुजं किन्न तपस्तनोति ॥ ७२ ॥ इहस्थितो ऽसौ रमणः कदाचित् विलोक्य लुब्धो भविता बतैताः । इतीव या नो हृदये प्रवेष्टु मेणीदृशामप्यदितावकाशं ॥ ७३ ॥ पत्या भुवो वैषयिकं विनोदं सा निर्विशंकं किल निर्विशंती । अमानधामानमसूत सूनुं हरेरिवाशा तुहिनांशुबिंबं ॥ ७४ ॥ अतुच्छवात्सल्यभरं दधानो वितत्य तज्जन्ममहं महांतं ॥ जगज्जनाल्हादकरस्य पृथ्वी—राजेतिनामाऽधित तस्य भूपः ॥ ७५ ॥ तनुत्विषान्निर्द्दलितांधकार—जालः स बालोऽन्वहमेधमानः । भृशं प्रजानां नयनांबुजानां भद्रं करो भानुरिवाजनिष्ट ॥ ७६ ॥ शस्त्रेषु शास्त्रेषु च लब्धपारं विलोक्य भूमानथ तं कुमारं । साम्राज्यभारं प्रवितीर्य तस्मै योगेन मार्त्तं वपुरुत्ससर्ज ॥ ७७ ॥ पित्रा प्रदत्तं समवाप्य काले राज्यं स भूभृन्नितरां चकासे । अहर्मुखे हर्पति नोदयाद्रि र्यथा तमोव्रातविनाशि रोचिः ॥ ७८ ॥ गुणाभिघातं प्रसभं प्रकुर्व न्नप्येष चक्रे न गुणाभिघातं । अपि प्रतन्वन् परलोकबाधां न च प्रतेने परलोकबाधां ॥ ७९ ॥ निषेवमाणोप्यसितांसवृत्तिं नैवासितां वृत्तिमुपादितैषः । तेनेति तेने परलोकपीडा न तेन तेने परलोकपीडा ॥ ८० ॥ द्विट्कुंभिकुंभतटदत्तदृढप्रहार- प्रत्यंगलग्ननवमौक्तिककैतवेन । क्षमामंडलं फलितुमुन्मिषितप्रसून राजीव यस्य युधि खड्गलता विरेजे ॥ ८१ ॥ कीर्तिर्यस्य सतीव्रतेति मृदुरप्याधत्त न प्रत्ययं चित्ते कस्य न योज्झतिस्म तमहो कल्पांतमप्यास्थितं । अन्येषां तु सतीव्रतापि न सती वेश्येव तान् जीविता वध्येवोज्झति चेन्नयास्म कतिचित्तान् जीवतोप्युज्झति ॥ ८२ ॥

२ ] पूर्वजवर्णनम् १७ वाग्देवीं चिकुरे शशांक मुदरे शंभुं गले तद्वृषं प्रोद्यामे बलमंबरे मदकलं स्वःकुंभिनं कुंभयोः । जग्राहास्य यशोभ्रमेण भुवने भ्राम्याद्विषां दुर्यशो धिग्वैरस्य दुरंततां स्फुरति या तत्संततावप्यहो ॥ ८३ ॥ भेजे यस्य शयालुतां शयपयोजन्मन्यसा विंदिरा । तद्रागेण समेदसिच्छलमलंकृत्य स्वयं श्रीपतिः । नैवं चेत् बलिवैरिविक्रमभरध्वंसेऽस्यकौतस्कुती शक्तिः संयति संबभूव नितमामुल्लासिनीलद्युतेः ॥ ८४ ॥ दिक्शैलद्विपकूर्मभोगिविभवः प्रोद्धृत्य सर्वसहां तद्भूयो भरभंगुराः परिमुमुक्षंतोपि कंपच्छलात् । दृष्ट्वा यं प्रतिपन्नसूरमनिशं भूपालचूडामणि लज्जाकीलककीलिता इव न तां शंके त्यजंति स्म ते ॥ ८५ ॥ औन्नत्येन यशोभरेण च पराभूतिं परां लंभितो- ऽस्योचैर्लभयितुं पराभवपदं वांछन् स्वयं तौ पुनः । ईशाराधनमाततान हिमवान् कन्याप्रदानादिभि र्व्यर्थं किं यशसैककेन न तयोस्तं वेदमूढोज्झित ॥ ८६ ॥ चिंतारत्नावनद्धेऽनवरतममृता सिक्तकल्पद्रुसांद्र- च्छायाच्छन्ने निषण्णाः श्रमविगमकृते चत्वरे चत्वरेपि । तीरे सिद्धापगायाः सुरसुरभिगणांश्चारयंत्योस्पदानं जेगीयंतेस्म देव्यः करकमलमिलद्वेणुवीणाविलासाः ॥ ८७ ॥ शश्वद्येन निरीतितां गमयता क्षोणीतलं क्ष्माभृता दिष्ट्याप्यतिवृष्टयो जलनिधेः पारं प्रयातुं परं । यत्प्रक्षिप्य ददृशिरेऽक्षिषु निजेषूच्चैरिपुस्त्रीजनै- स्तत्तेनैव हतप्रियेण पुपुषे साकं न किं वैरिना ॥ ८८ ॥ यत्खड्गक्षुण्णभूमीपतिविततिशिरःसंचरद्रक्तधारा- वारां राशिः प्रसर्पन् क्षितितलमखिलं रक्तमेवाकरिष्यत् । 3 k

१८ श्रीहम्मीरमहाकाव्ये [: एषा प्रोद्गच्छदच्छामृतकरकिरणक्षुब्धदुग्धाब्धिमुग्धा यत्कीर्तिर्विस्फुंती यदि सपदि न तत् श्वेततामापयिष्यत् ॥ ८९ ॥ वीरे यत्र रणे तथा वितरणे सन्मार्गणानां गणां- स्तन्वाने प्रथमानमानविभवे संलब्धलक्षान् क्षणात् । पूर्वोपार्जितकीर्तिकर्त्तनभिया संभ्रांतचित्ताश्चिरं कश्चिन्न श्रयतिस्म दानपरतां नो वा भटंमन्यतां ॥ ९० ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- महाकाव्ये वीरांक्रे श्रीभीमदेवप्रभृतिपूर्वजवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ छ ॥ अथ तृतीयः सर्गः अथ प्रथीयस्तरसा रसायास्तलं शयालुं स्वंशये शकेन । सहाबदीनेन वितन्वतालमुपद्रुताः पश्चिमभूमिपालाः ॥ १ ॥ आह्लादनेनाखिलभूतधात्र्या यथार्थतां नाम निजं नयंतं । गोपालचंद्रांगवितीर्णरंगं श्रीचंद्रराजं पुरतो निधाय ॥ २ ॥ उपायनानीतमहेभकुंभ—गलन्मदाद्रीकृतभूमिभागं । भेजुर्भुजोर्जाविजितारि पृथ्वी—राजा लयद्वारमुदारवेगाः ॥ ३ ॥ त्रिभिर्विशेषकं प्रवेशिता नाथगिराथ वेत्र—करेण कांताभरणा नरेण । पृथ्वीपतेः पादसरोजयुग्मं नत्वा यथा स्थानमुपाविशंस्ते ॥ ४ ॥ दीनाननाँस्तान् प्रविलोक्य पृथ्वी—राजस्ततः पार्श्वचरानुवाच । पद्मा हिमासीव निदाघसंङ्गे श्रियं किमंते दधते न भूपाः ॥ ५ ॥ तं चंद्रराजोथ जगाद चंद्र—श्रीगर्वकूलंकषदंतदीप्त्या । हृद्युल्लसद्भाङ्ग्यदुग्धसिंधौ विस्तारयंस्तारतरानिवोर्मीन् ॥ ६ ॥ तपःप्रभावाजितवर्यवीर्यः सहाबदीनः शकमेदिनीनः । उपप्लवायाजनि धूमकेतु रिवावनौ बाहुजमंडलानां ॥ ७ ॥

२ ] पृथ्वीराजसंग्रामवर्णनम् १९ देशानशेषान् जहि नागराणां हरेणनेत्रा दह मंदिराणि । विगृह्य यो बाहुजराजराजेः कुलानि चक्रे विपदाकुलानि ॥ ८ ॥ अशेषभूपालविशेषकाभ के नाम ते क्षोणिभुजः क्षमायां । स स्वौजसा त्रासितबाहुजानां वृंदैर्दर्रीः पूरितवान्न येषां ॥ ९ ॥ यः संगरे संगररंगवेदी क्षात्रं क्षणाद्द्वेषम नयन् यमस्य । किं भार्गवोयं पुनरेव जात इत्याकुलैर्वीरकुलैर्न्यतर्कि ॥ १० ॥ अयं समागादयमः समागाज्जना इति स्फारितलोचनाब्जं । दिशो दशापि प्रविलोकयंतो यतो भयेनानिमिषीबभूवुः ॥ ११ ॥ उद्वास्य शस्यान्यपि भूपतीनां यस्त्रैपुराणीव पुराणि शंभुः । अतिष्ठिपत् द्विट्कुलशूल मूल—स्थाने प्रधाने निजराजधानीं ॥ १२ ॥ निःकारणं दारुणवैरभाजा तेनाभिभूता नृपभूभुजोमी । समैयुरुस्त्वां शरणं शरण्य मतो भवानेव परं प्रमाणं ॥ १३ ॥ इत्येतदीयां विनिशम्य वाचं वाच्यंमानामापि कोपरूचीं । आकृप्य कूर्चं तरवारिमुष्टि—पट्टिष्टनाभात्करवारिजेन ॥ १४ ॥ मयूरबंधेन निबंध्य नैनं पादारविंदे यदि वः क्षिपामि । जातोन्वये तर्हि न चाहमाने इति प्रतिज्ञामकरोन्नरेशः ॥ १५ ॥ ततस्ततः श्रीः शुभकारिसर्व—ग्रहे विलग्ने विजये च योगे । चचाल चंचन् प्रतिपंधिमथ चिकीर्षया व्याकुलचित्तवृत्तिः ॥ १६ ॥ पौरैणपोताभदृशः प्रयांतं प्रक्षिप्तिक्षितुस्तं प्रति यान् कटाक्षान् । मांगत्यहेतोः स्म भवंति तस्य त एव दूर्वाक्षतकांतिभाजः ॥ १७ ॥ निरंतरप्राप्तमहाप्रसाद—विशुद्धये शुद्धधियः प्रकामं । करस्फुरत्स्फारतरासिदंड-स्फुराः प्रचेलुर्बरवीरवाराः ॥ १८ ॥ द्यावापृथिव्योरुदरंभरीणि प्रोत्तुंगरंगद्गजगर्जितानि । अपि द्वयानां धरणीधराणां सत्त्वानि चक्रुर्विधुताधृतीनि ॥ १९ ॥ प्रतापसूर्येऽभ्युदितेऽस्र्यये साध्यं किमेतेन बतोद्यतेन । इतीव तीव्रद्युतिमुद्यतश्चि-सैन्योत्थरेणुस्तिरयांबभूव ॥ २० ॥

२० श्रीहम्मीरमहाकाव्ये [सर्गः रजोव्रजै र्वाजिखुराभिघातो—त्थैर्जातमुद्गत्वमपि प्रयाताः । मदोदकैः सैन्यमतंगजानां वंशद्वयस्यः सरितो बभूवुः ॥ २१ ॥ इति प्रयाणैः कृतवैरिवारः प्राणप्रयाणैर्नृपतिः कियद्भिः । वसुंधरा भूरितरामतीत्याऽभ्यवेष्टयत्तच्छकराजदेशं ॥ २२ ॥ आजग्मिवांसं तमुपस्वदेशं चौरैरथाकर्ण्य शकेश्वरोपि । संनह्य सैन्यं रिपुदत्तदैन्यं भेजेभ्यमित्रत्वमवार्यवीर्यः ॥ २३ ॥ कोदंडदंडद्युतिमंडितांगाः कटीतटावद्धवृहन्निषंगाः । सूक्ष्माखिलक्षीकृतवैरीवीराः पृष्ठेनिरीयुर्यवनप्रवीराः ॥ २४ ॥ प्राक् रेणुजालानि ततः करेणु-कुंभभ्रमत्षट्पदझंकृतानि । ततो भटानां स्फुटसिंहनादाः सैन्यद्वयस्याप्यमिलंस्तदानीं ॥ २५ ॥ परस्परालोकनितांतजात-प्रसृत्वरायत्नकवेल्हदंगाः । नानास्फुरद्धेतिभृतः प्रवीराः प्रतेनिवांसो रणरंगलीलां ॥ २६ ॥ मणीचकानीव महीरुहाणां क्षिपन् यशांसि द्रुतविद्रुतानां । ववौ मरुत्वान् भटराजराजि-करांबुजयक्तपृषत्कजन्मा ॥ २७ ॥ मिथः समानाक्षिनिरीक्षणेन प्ररूढगूढप्रतिघा इवोच्चैः । घटैकदेशीयभटास्तुशोभा- श्वानामयुध्यंत हठात्तदानीं ॥ २८ ॥ दंतावलस्य प्रथरं प्रविश्य कश्चित्तदाघातकलाविपश्चित् । क्षुर्या विदार्योदरमुग्रवीर्यो विलोठयामास तमाशु भूमौ ॥ २९ ॥ उल्लुत्य कश्चित्तरसा रसाया आरूढवांस्तुंगकरींद्रकुंभं । लांगूललीलायितखड्गदंड एणारिलीलां कलयांबभूव ॥ ३० ॥ काश्चित्पदात् स्पंदनमापतंतं धृत्वा करी काकमुखे सुखेन । अवाप्य सद्यो भ्रमिमंतरिक्षे प्रास्फालयत्संगरभूमिशिलायां ॥ ३१ ॥ प्रक्षिप्य पश्चात्करमुग्रवेगात् उत्पाटितस्पंदनकैतवेन । योद्धुं स्वयं पट्टिशमादधान इवेतरोभात्पदगै रमेभः ॥ ३२ ॥ चीत्कारमाकर्ण्य मतंगजानां वित्रस्यतः कोपि तुरंगमस्य । उष्णीषखंडेन पिधाय कर्णावपूपुरत्तैः सममाहवेच्छां ॥ ३३ ॥

३ ] पृथ्वीराजसंग्रामवर्णनम् २१ हंतुं क्रुधा दंतिनमापतंतं अरंतुदाग्रैर्युधि दद्रिरेव ॥ प्रार्थ्यना लूनभुजद्वयोन्यो दशन् प्रतेने नययुद्धमेव ॥ ३४ ॥ सन्नाहसंधावभिजातगात्र-प्रभेदने किं कुतुकं भटानां । मनोपि तेषां परमाणुरूपं अभेदि यत्तैः करलाघवेन ॥ ३५ ॥ तदा विपत्तौ पितरः सुतानां प्रमोदपूरं युधि लेभिरे यं । अपुत्रिणामप्यजनिष्ट तेषा मेतच्छतांषोपि न जन्मकाले ॥ ३६ ॥ अयोदृढैश्चारभटैस्तुरुष्का श्चंडासिदंडैरभिताड्यमानाः । नेशुः समंताल्गुडप्रपातै र्यथा कुलान्येकविलोचनानां ॥ ३७ ॥ स्यालेष यंत्रांतरसंस्थितानां यादृग्यवस्था हरिमंथकानां । तादृग्बभूद्भूपतिचाहमान-रणाश्रयाणां यवनेश्वराणां ॥ ३८ ॥ दृष्ट्वा विशीर्णं युधिजीर्णकल्प मिवात्मनीनं शिविरं शकेशः । क्रोधादधाविट महिष्टमुष्टि-धृतासिदंडः स्वयमाशुचंडः ॥ ३९ ॥ तमापतंतं प्रसमीक्ष्य चाह-मानोप्यधावद्द्रुततीव्रवेगः । अंतःस्फुरत्क्रोधकृशानुकीला-नुकारिरागारुणदारुणाक्षः ॥ ४० ॥ करोदरोल्लासिमहासिसिंड—छलोल्लसत्पुष्करदुर्निरिक्षौ । अभ्युद्यतौ वन्यगजौ किमेतौ वितर्क्यमाणाविति वीरवारैः ॥ ४१ ॥ प्रपूरयंतौ भुवनोदराणि पादाभिघातप्रतिजातशब्दैः । मिथः प्रहारप्रयनप्रवीणौ युद्धं चिरायातनुतां क्रुधा तौ ॥ ४२ ॥ एवं नृदेवो युधि युध्यमानः प्रसह्य किंचिच्छलमाकलय्य । शक्राधिराजं विनियम्य सम्य गपूरयत्स्वां विधिवत्प्रतिज्ञां ॥ ४३ ॥ महीमहेंद्रान् शरणागतांस्तान् स्वे स्वेधिकृत्वा विषये नयेन । ततः स मानी निजराजधानी मापद्धिमानानीकृतशत्रुजातः ॥ ४४ ॥ वासांसि दत्वा सुरलोकलोभिमहांसि तस्मा इति राड् मुमोच । हा तत्र को नाम पुनर्विधित्सु रसामया संगरमेवमुच्चैः ॥ ४५ ॥ पृथक् पृथक् संगररंगभंग्ये—त्थं सप्तकृत्वः क्षितिवासवेन । विनिर्जितोऽसौ यवनावनीशो मम्लौ च जम्लौ च भृशं नृशंसः ॥ ४