हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 87, कुल 185 में से
संदर्भ में पढ़ें३८ श्रीहम्मीरमहाकाव्ये [ सर्गः अकृत्रिमालंकृतिराननस्य तस्योत्थिते श्मश्रुलते व्यभातां । आधिक्यतो घ्राणयुगाध्वनिर्य—च्छृंगारधारे इव नेत्रपेये ॥ १५४ ॥ केशाः केकिकलापकांतिजयिनो वक्त्रं शशिप्रीतिभित् कंठः कंबुरिपुः कपाटपटुताविशेषि वक्षस्थलं । दोर्दंडौ परिघापघातनिबिडौ पादौ कृताब्जापदौ किंकिं रम्यतरं न यौवनपदं प्राप्तस्य तस्याभवत् ॥ १५५ ॥ विंध्ये सिंधुरवत् धने विधनवत् जातिप्रसूनेऽलिवत् त्यागे याचकवत् गुणे सगुणवन्न्याये महीपालवत् । माकंदे पिकवच्छ्रुते विदुरवत्पाथोरुहे हंसवत् तस्मिन् संसृजतिस्म वागविषयां प्रीतिं मनो योषितां ॥ १५६ ॥ नारीभिः सुमचाप इत्यमरभूजन्मेति च प्रार्थिभि- र्गंगाभूरिति सत्यसंगरपरै र्ब्रह्मेति तत्वोन्मुखैः । स्वर्भूभूरिति योद्धृभिर्यम इति प्रत्यर्थिपृथ्वीधवैः कैः कैरेष कथं कथं न युवतामध्याश्रितस्तर्कितः ॥ १५७ ॥ सौंदर्यधन्या अथ सप्तकन्या पित्रा प्रमोदात्परिणायितोसौ । चिक्रीड ताभिः सह शश्वदस्तव्रीडं यथा दुश्चवनः शचीभिः ॥ १५८ ॥ हम्मीरादितरावपि क्षितिपतेर्जैत्रस्य पित्र्यानुजौ जज्ञातेऽगरुहौ गुहाविव जगज्जैत्रप्रतापोदयौ । आद्योभादनयोर्नयोदयदलद्दल्लीवसंतः सुर- त्राणोन्यः परवीरदारणरणारंभप्रभो वीरमः ॥ १५९ ॥ पूर्द्धारार्गलदीर्घपीनभुजभू प्रौढप्रतापज्वलत्- ज्वालाजिह्वविषावलीकवलितप्रत्यर्थिभूमीधवैः । इत्यभ्यस्तनयैस्त्रिभिः स्वतनयैः संसेव्यमानोन्वहं श्रीजैत्रः क्षितिपः स्म वीरजनकोत्तंसत्वमास्तिष्ठते ॥ १६० ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते हम्मीरमहा- काव्ये वीरांक तज्जन्मवर्णनोनाम चतुर्थः सर्गः समाप्तः ॥