हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 96, कुल 185 में से
संदर्भ में पढ़ें६ ] जलक्रीडावर्णनम् ४७ प्रेयसीवदनमुक्षितुमात्तं नीरमंजलिपुटे दयितेन । तत्र बिंबितमवेक्ष्य तदेवा--मोचिनोपचितभंगभयेन ॥ २२ ॥ सेसिचत् प्रियतमो मदिराक्ष्या शक्तया कुलतया प्रतिसेके । गृह्यतेस्म भुजया लघु कंठे बाणयुद्धविदिवासि करेण ॥ २३ ॥ वल्लभे विकसितंबुजमुख्या उन्मदे पिबति वक्त्रसरोजं । भ्रश्यदंबुकणकेशकलाप--च्छद्मनालिभिररोदि शुचेव ॥ २४ ॥ गाढपीडितरदावलिरंध्रै र्याः स्त्रियो मुमुचिरे जलधाराः । ताभिरास्त मदनः सलिलाश्रो भर्तृमानदहनास्त्रशमाय ॥ २५ ॥ कंठदघ्नपयसि स्थितवत्या जीविताधिपतिना गजगत्याः । यद्यबुध्यत तयोर्द्युतिहान्या--ब्जद्वयांतरगतं वदनाब्जं ॥ २६ ॥ श्रीरपाहियत नो नयनाना मेभिरेभिरिति संभृतकोपाः । मज्जयंति कमलानि सरस्तू--न्मज्जयंति च मुहुः सुदृशः स्म ॥ २७ ॥ वारिणि प्रतिनिधिव्यपदेशात् व्यत्ययेन मदनश्च रतिश्च । तत्तदाप्तरुचिरत्वविशेषौ संश्रिताविव वधूं च वरं च ॥ २८ ॥ कैतवेन करवारिभिरेकां प्राप्य कश्चन पराङ्मुखभावं । चुंबतिस्म विदितोदितरागो ऽन्यां मुहुः कमलिनीमिव भृंगः ॥ २९ ॥ शैलसारकठिने प्रमदाना मंभसां स्तनतटे स्खलितानां । फेनपंक्तिरिव हारलताया द्विगुते सरसि मौक्तिकपंक्तिः ॥ ३० ॥ अंभसाहृतविलेपनभंगौ योषितां वपुषि कांतकृतानि । रेजिरे नखपदानि सपत्न्यु--च्चाटनार्थमिव मंत्रपदानि ॥ ३१ ॥ त्रुट्यतोपि जलपूरितरंध्रैः शुक्तिजन्मभिरपाति न हारात् । के त्यजंति सुदृशां कुचयुग्म--स्पर्शसौख्यमभिलब्धरसा वा ॥ ३२ ॥ नीरपूरणवशाद्रितमौनं नूपुरं चटुलपादसरोजे । संननाय्यसदवेदि मृगाक्ष्या गुह्यको वट इवानुपलब्धेः ॥ ३३ ॥ कंठदघ्न उदके विहरंती वाणिनीविशदपक्ष्मधत्त । स्मेरमब्जमिति तन्मुखवीक्षा--सख्यविश्वसितमानसमाशु ॥ ३४ ॥