हारीत संहिता (महर्षि आत्रेय-हारीत मुनि संवाद - सम्पूर्ण ६ स्थान सटीक)
Harita Samhita of Sage Harita with Hindi Commentary
महर्षि हारीत / आत्रेय मुनि द्वारा
पृष्ठ 395, कुल 548 में से
संदर्भ में पढ़ेंअ० २१ ] भाषाटीकासमेता । ( ३६३ ) विजलो यस्य स्नेही वामः प्रकीर्तितः ॥ ११ ॥ तस्य नो स्नेहनं कार्यं चोपवासञ्च कारयेत्॥पाचनं चैव कर्त्तव्यमामं चैवा- तिसारयेत् ॥ १२ ॥ जिसके शरीरपै चिकनाई हो, जडता हो, मन्दाग्नि हो और जलसे रहित चिकनी चिकनी आम गिरे वह स्नेही आम होता है ॥ ११ ॥ उसकी स्नेहन औषध नहीं करे, उपवास बस्तिकर्म करे और पाचन औषध करे, आमको निकासे ॥ १२ ॥ अथ आमके लक्षण । यस्य शोफाननं जाड्यं तथा चैव घनोदरम् ॥ अरुच्यामाति- सारश्च स चासाध्यो विजानता ॥ १३ ॥ प्रत्याख्येया क्रिया कार्या जीवितस्यापि संशये ॥ पाचनं पाचितं ज्ञात्वा तस्मा- च्चूर्णानि दापयेत् ॥ १४ ॥ जिसके मुखपै शोजा हो, जडता हो, पेट कडा हो, अरुचि हो, आमातिसार हो वह असाध्य कहा है ॥ १३ ॥ उसकी सब क्रिया त्याग देनी चाहिये । उसके जीवनेमें संदेह है वह पाचन औषधोंको पकानेवाली जानके चूर्ण देना चाहिये ॥ १४ ॥ अथ पक्काम और सर्वांगआमके लक्षण । सपीतो विजलः श्यामः पक्कामः पतते त्वधः ॥ न बस्तिशूलो भवति आमवाते श्रमः क्लमः॥१५॥ आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम् ॥ विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कार- येत्॥१६॥कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलवान् ॥ गुल्मतो जठरं गर्जेत्तथातः शोफ एव च ॥ १७ ॥ शिरोगुरुत्वं भवति आमश्च पतते भृशम् ॥ सर्वाङ्गो भवेत्सोऽपि विज्ञेयोऽसौ विजानता॥१८॥तस्य च पाचनं कुर्याद्विरेचनमनन्तरम्॥वि- ष्टम्भी गुल्मपाकी च अन्यः सर्वाङ्गो मतः ॥ १९ ॥ विज्ञेया- श्चात्र ये साध्याश्चान्यौ द्वौ कष्टसाध्यकौ॥स्नेही आमश्च कथितः कृच्छ्रसाध्यं द्वयं मतम् ॥ २०॥ पक्कामः सुखसाध्यस्तु ज्ञात्वा कर्म समाचरेत् ॥ २१ ॥