हारीत संहिता (महर्षि आत्रेय-हारीत मुनि संवाद - सम्पूर्ण ६ स्थान सटीक)
Harita Samhita of Sage Harita with Hindi Commentary
महर्षि हारीत / आत्रेय मुनि द्वारा
पृष्ठ 494, कुल 548 में से
संदर्भ में पढ़ें( ४६२ ) हारीतसंहिता । [ तृतीयस्थाने- ऊर्ध्वकेशी तथा सेना ह्यष्टौ चैताः प्रकीर्तिताः ॥३३॥तथान्या- साञ्च मत्तस्त्वं नामानि शृणु साम्प्रतम् ॥ रोहिणी विजया काली कृत्तिका डाकिनी निशा॥३४॥ भूतकेशी कृशाङ्गी च अष्टौ चैताः प्रकीर्तिताः । लक्षणञ्च प्रवक्ष्यामि शृणु पूजाबलि- क्रमम् ॥३५ ॥ जातमात्रस्य बालस्य लोहिता नाम पूतना ॥ विस्रगन्धा लोहितश्च स रोदिति मुहुर्मुहुः ॥३६॥ बलिं तस्याः प्रवक्ष्यामि येन सौख्यं प्रजायते ॥ द्वितीये दिवसे बालं रेवती नाम पूतना॥३७॥गृह्णाति लक्षणं तस्य रोदति कम्पते भृशम्॥ कृष्णमृन्मयीं प्रतिमां कृत्वा गन्धानुलेपनैः॥३८॥कृशरारालचू- र्णं च दीपधूपैस्तथाक्षतैः॥ताम्बूलैः कृष्णसूत्रैश्च रात्रौ नैर्ऋतिके क्षिपेत् ॥३९॥ तृतीये दिवसे प्राप्ते वायसी नाम पूतना ॥ तया गृहीतमात्रेण रोदिति न पिबेत्स्तनम् ॥४०॥ ज्वरश्चैवातिसा- रश्च काकवद्वदति भृशम्॥ तस्या दध्योदनं पात्रे यवकृशरपो- लिकाः ॥४१॥ ध्वजाभिः सगुडश्चैव कृष्णगन्धानुलेपनम् ॥ धूपदीपाक्षतैश्चैव मध्याह्ने बलिमाहरेत् ॥ ४२ ॥ चतुर्थे दिवसे बालं कुमारी नाम पूतना ॥ गृह्णाति बालकस्तेन ज्वरेण परि- तप्यते ॥ ४३ ॥ शून्यं विगाहते बालस्तन्मुखं परिशुष्यति ॥ भृशं स रोदिति तस्याः शृणु पूजाबलिक्रमम् ॥४४॥ पायसं सघृतं खण्डं घृतस्य दीपकत्रयम् ॥ ४५ ॥ मृन्मयीं प्रतिमां कृत्वा पुष्पधूपाक्षतैरपि ॥ कृतान्तदिशि मध्याह्ने बलिं दत्त्वा सुखी भवेत् ॥४६॥ पञ्चमे दिवसे बालं शाकुनी नाम पूतना॥ गृह्णाति स तयाक्रान्तः स्तन्यं नाकर्षते शिशुः ॥४७॥ सज्वरो वमति रौति कासमानोऽथ वेपते ॥४८॥ तस्याः शोभनिका *पूजा क्रियते तिललड्डुकैः ॥ श्वेतगन्धाक्षतैर्धूपैः पूजयेन्मृ- ण्मयाकृतिम् ॥४९॥ उत्तराशां समाश्रित्य पूर्वाह्ने बलिमाह-