हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 189, कुल 506 में से
संदर्भ में पढ़ें१४४ हर्षचरितम् ग्रहणः पपात । सुद्युम्नः स्त्रीमय एवाभवत् । सोमकस्य प्रख्याता जगति जन्तुवधनिर्घृणता । मांधाता मार्गणव्यसनेन सपुत्रपौत्रो रसातलमात् । पुरुकुत्सः कुत्सितं कर्म तपस्यन्नपि मेकलकन्यायामकरोत् । कुवलयाश्वो रोत् । संदिष्टा च—'कुमारी शतपरिवारवतीयं शर्मिष्ठा यदा मे दास्यं करोति तदा- गच्छामि' इति । शुक्रशापभीतेन वृषपर्वणा संपादितमनोरथा देवयानी पुनरपि दासीभूतया शर्मिष्ठया सह वने क्रीडन्ती ययातिमायान्तं दृष्ट्वा बभाषे—'क्वाद्य मां त्यक्त्वा पाणिग्राहो महानुभावो गतोऽभूत्' इति । ततो ययातिर्ब्राह्मणीत्वादनाङ्गी- कुर्वंस्तत्पित्रा शोकविधुरेण शुक्रेण 'पापं मास्तु, क्रियतामयं विधिः' इति बुद्ध्या तां स्वीचक्रे । कालेन चासौ पपातेति । सुद्युम्नो राजा, शोभनं द्युम्नं बलमस्येति च स्त्री- मयो महिलाकृतिः, कान्तानुरक्तश्च । योऽत्र तोयमुपयोक्ष्यति स स्त्रीत्वमापत्स्यत इति भगवता भवान्याभ्यर्थितेन भवेन शप्तः सन्ससरः पीत्वा तोयं सुद्युम्नो मृगया- विहारी स्त्रीमयोऽभूदिति । जन्तुर्नाम सोमकस्य राज्ञः पुत्रः, जन्तवः प्राणिनश्च । सोमकस्य राज्ञो जन्तुर्नामैकः पुत्रोऽभूत् । स चैकपुत्रत्वादपुत्रत्वं वरमिति जानद्म- द्विप्रैः पुरोधसाम्यधायि—'बहुपुत्रांश्चेदच्छसि तदास्य सुतस्य वपया होमः क्रिय- ताम् । ततो यावत्यो धूममाजिघ्रन्ति ताः पुत्रैर्युज्यन्ते' इति । स चापि घृणामपहाय तथा कारितवानिति । मार्गणं याच्ञा, शराश्च मार्गणाः । मार्गणेषु व्यसनं युद्धं व्यसनम् । रसातलंगमदधस्ताज्जगाम । विनष्ट इत्यर्थः । रसातलं पातालं च । मांधाता च भुवं जित्वा स्वर्गं जेतुं गतः । शकेणोक्तम्—'पातालं जित्वागतस्य तव दास्यं यास्यामि' । स च तद्वचनादविचार्यैव रसातलं गतस्तत्र हरप्रसादासादित- त्रिशूलेन लवणानाम्ना दानवेन ससुतसैन्योऽन्तमनीयत' इति । मेकलकन्या नर्मदा । पुरुकुत्सः पुरा तपश्चरन्नर्मदायां स्नानं कुर्वन्कामप्यञ्जनामालोक्य कामाविष्टो नीतिमत्ससर्जेति । भुजङ्गाः सर्पाः, विटा अपि । अश्वतरकन्यां वडवामपि । कुवल- याश्वो राजा मृगयाक्रीडाप्रसङ्गेन घर्मातुरो मज्जनरभसेन सरसीमवतीर्णो रसातलं प्राप्तोऽश्वतराभिधां नागकन्यामूढवानिति । प्रथम आद्यः, प्रधानश्च । कुत्सितः पुरुषः में चला गया (अर्थात् पतित हुए या पाताल में पहुँचे और मारे गए)। राजा पुरुकुत्स ने तपस्या के अवसर में किसी सुन्दरी को देखकर नर्मदा में स्नान करते हुए कुत्सित कर्म किया । राजा कुवलयाश्व ने भुजंगलोक में जाकर ( लम्पट लोगों की प्रेरणा से या नागलोक में जाकर ) अश्वतरा नामक नागकन्या (या घोड़ी) को भी नहीं छोड़ा। आदिराज पृथु पहला कुत्सित पुरुष है जिसने पृथिवी को अभिभूत किया। राजा नृग गिरगिट बनने पर भी वर्णसंकर (अर्थात कई रंग की मिलावट या कई ब्राह्मण क्षत्रिय आदि वर्णों के वीर्य से उत्पन्न) ही बना रहा। सौदास नामक राजा ने व्याकुल पृथिवी