भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 188, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 188

तृतीय उच्छ्वासः १४३ प्रेयान्प्राणानामपि वशयिता दत्तसंज्ञस्तैः सप्रणयं दशनज्योत्स्नास्नापित- ककुभा मुखेन्दुना बभाषे—'तात बाण ! द्विजानां राजा गुरुदारग्रहण- मकार्षीत् । पुरूरवा ब्राह्मणधनतृष्णया दयितेनायुषा व्ययुज्यत । नहुषः परकलत्राभिलाषी महाभुजङ्ग आसीत् । ययातिराहितब्राह्मणी पाणि- बाणेत्यादिना पूर्वराजदोषोद्भावनद्वारेण हर्षस्य गरीयस्तां ख्यापयति । अत्र क्वचि- च्छब्दद्वारेण क्वचिच्चार्थद्वारेण यथायोग्यं दोष उद्भाव्यः । चन्द्रादिशब्दाभिधानेन राजत्वप्रतीतिर्न स्यादिति द्विजानां राजेत्युक्तम् । गुरुर्बृहस्पतिः, पित्राद्याश्च गुरवः । अत्र कथा—पुरा पूर्णचन्द्रमुदितं वीक्ष्य कामयमानां गुरुपत्नीं ताराख्यामभिगच्छत् । तदसहमानेन च बृहस्पतिना यदेन्द्राद्याः प्रोत्साहितास्तदानयनाय, तदा चन्द्रेण शुक्रः शरणमाश्रितः । ततः शुक्रप्रेरितैर्दैत्यैः सह तेषामन्योन्यं दिव्यं वर्षसहस्रं युद्धमासीत् । तारापि नारदबोधिता सगर्भा सती पुनर्गुरुमेवाभिगतेति । दयितेना- युषा प्रियेण जीवितेन पुत्रेणायुर्नाम्ना । कथा चात्र—पुरूरवाः पूर्वां दिशं जेतुं गच्छ- न्केनाप्याहृतप्रभूतधनेन विप्रेण यज्ञे निमन्त्रितो लोभाच्चिस्तस्तद्धनं जिहीर्षुस्तच्छा- पान्नष्टः । तस्मिन्मृते स विप्रो नृपं विना प्रजा निवर्तेत इति ज्ञात्वा तदायुषा राजर्षिमायुर्नामानमजीजनदिति । भुजङ्गो विटोऽपि । पुरा वृत्रं हत्वा ब्रह्महत्यया शक्रः पलाय्य मृणालच्छिद्रान्तरे यदातिष्ठत्तदा नहुषो यज्वा शूरैश्च देवैरिन्द्रत्वं नीतो दर्पाच्छचीं प्रार्थयमानो बृहस्पत्युपदेशात्तयोक्तो यथा—‘यानेनापूर्वेणागच्छ' इति । ततो ब्रह्मर्षीन्वाहनीकृत्य व्रजन्कामवशाच्चरयमाणः पादेनाताड्य, ‘सर्प सर्प' इति चोदयन्नगस्त्येन ‘सर्पो भव' इति शप्तः सर्पोऽभवत् । पपातेति नरकगामी बभूव, स्वाचारभ्रष्टत्वात्पतितश्चाभूत् । वृषपर्वणोऽसुरराजस्य दुहित्रा शर्मिष्ठया कल- हायमाना ‘अस्मद्भृत्यसुता वराकी भूत्वा स्पर्धते' इत्युक्त्वा कूपान्तःपातितां शुक्र- सुतां देवयानीं ज्ञात्वा ययातिर्वनविहारी पाणिं गृहीत्वोजहार । गते ययातौ परि- भवोद्विग्ना वन एवावसत् । अथ नारदाद्यथावृत्तं ज्ञात्वा वृषपर्वा शुक्रस्य प्रार्थनामक- जो बाण के प्राणों को भी वश में रखने वाला प्रिय था, बड़ों का इशारा पाकर अपने मुखचन्द्र से प्रवाहित होने वाली दाँतों की चाँदनी से दिशाओं को नहलाता हुआ बोला—'तात बाण, द्विजों के राजा चन्द्र ने गुरुपत्नी तारा का गमन किया । पुरूरवा ब्राह्मण के धन को लोलुपता के कारण अपनी प्रिय आयु से वियुक्त हो गया । नहुष पराई स्त्री की इच्छा करने के कारण महालम्पट बना । ययाति ब्राह्मणकन्या के साथ विवाह करके पतित हुआ । राजा सुद्युम्न तो स्त्रीरूप ही बन गया था । जन्तु ( जन्तु नामक पुत्र या प्राणियों ) के वध करने से राजा सोमक की निर्दयता तो प्रसिद्ध ही है । राजा मान्धाता मार्गण अर्थात् याचना या युद्ध के व्यसन के कारण पुत्र-पौत्रों के साथ रसातल

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 188, कुल 506 में से · BharatKosha