हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 191, कुल 506 में से
संदर्भ में पढ़ें१४६ हर्षचरितम् मोन्मादेन मृत्युमवाप। कार्तवीर्यो गोब्राह्मणातिपीडनेन निधनम- यासीत् १। मरुत्त इष्टबहुसुवर्णकोऽपि देवद्विजबहुमतो न बभूव। शांतनु- इत्यर्थः। कार्तवीर्यो गवां कोटेरप्यधिकतरां धेनुमपहरन्मदद्भि व्यापादितवान्। अथ च तत्सुतेन रामेण क्रोधात्परशुच्छिन्नबाहुसहस्रोऽसौ सर्वक्षत्रियैः सह मृत्युं लेभे; इष्टः कृतः, अभिमतश्च। देवद्विजो बृहस्पतिः; अन्यत्र, —देवाश्च द्विजाश्चेति द्वन्द्वः। मरुत्तो नाम राजा बहुसुवर्णकाख्येन क्रतुनापि यक्ष्यमाणो देवपुरोधसम् 'मां याजय' इति याचमानस्तेन 'मनुष्योऽयमेव दृष्टः' इति। स चोपहसति धिषणे नारदेनोक्तो यथा—'गच्छ, अस्यैव भ्राता संवर्तको नाम प्रहगृहीतच्छद्मना वारा- णस्यां स्थितः। तं प्रार्थयस्व' इत्युक्त्वा च नारदोऽभ्रि विवेश। स च नारदोक्त- चिह्नस्तं भगवत्प्रमाणं कृत्वा निर्यान्तं परिज्ञाय बहुशो गालीर्ददतमप्यनुद्विजमानो याजनाय प्रार्थयामास। संवर्तकेन कथितं च—'नेदं तवोक्तं यावत्तं वक्ष्यामि। देवेभ्यश्च श्रुत्वा यज्ञभागो न दातव्यः' इति। राजा यथोक्तमनुतिष्ठंस्तेन योजितो देवद्विजस्य नाभिमतोऽभवदिति। अतिव्यसनादत्यन्तरागात्। वाहिनी नदी, सेना च। महाभिषः पुरा ब्रह्मसदसि गङ्गायाश्चामरग्राहिण्याश्चलितवाससोऽङ्गदर्श- नहृतहृदयः शृङ्गारपदानि वदन्ब्रह्मणा शप्तः, पतित्वा क्षत्रियगृहे शन्तनुर्नामाभूत्। गङ्गापि 'मत्कृतेऽयमिमां दशां प्राप्तः' इति मत्वा सखेदंमवतरन्ती धेनुहरणकुपित- वसिष्ठशापसंपन्नमनुष्यलोकावतरणदुःखितैर्वसुभिर्विदितवृत्तान्तैरभ्यधायि-'तत्र नृपे चेत्तव प्रीतिः, तद्द्वयं त्वय्येवोत्पत्स्यामहे। जातमात्राश्च वयं त्वया स्वजले क्षेप्सव्याः' इति। सा तु तथेत्यङ्गीकृत्य वने विहरन्तं प्रार्थयमानं शन्तनुमवोचत्—'यदहं करोमि तत्र त्वया निर्बन्धो न विधेयः। न चाहं त्वया जन्म प्रष्टव्या' इति। 'तथा' इति तेनाङ्गीकृतवता बहुतरं कालमरंस्त। अथ यः कश्चित्सूनुरुदपादि सर्वस्तया स्वजले क्षिप्तः। एवं सप्तस्वतीतेषु गङ्गामासेव्य निःसंतानोऽयं मा भूदिति मन्वानैः सप्तभिरेव वसुभिः कृतात्मसंनिधिर्भीष्मो जातः। ततस्तमपि जले क्षिपन्ती शन्तनुना निषिद्धा। तेन 'सापराधो भवान्' इत्युक्त्वा सा प्रति- प्रिय रामा अर्थात् पत्नी के उन्माद) से मृत्यु को प्राप्त किया। राजा कार्तवीर्य गौ के लिए ब्राह्मण को दुखी करने के कारण मारा गया। मरुत्त नामक राजा ने बहुसुवर्णक नामक यज्ञ किया फिर भी देवद्विज द्वारा (बृहस्पति द्वारा अथवा देवताओं और ब्राह्मणों द्वारा) सम्मान नहीं प्राप्त किया। व्यसन के अत्यन्त बढ़ जाने से राजा शन्तनु ने वाहिनी (गङ्गानदी या सेना) से वियुक्त होकर जंगल में अकेले भटकते हुए १. इतोऽग्रे—'रामो मनोभवभ्रान्तहृदयो जनकतनयामपि न परिरक्षितवान्' इत्यधिकः पाठः क्वचिदुपलभ्यते।