हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 52, कुल 506 में से
संदर्भ में पढ़ेंअग्राम्यभावं च । जातिः स्वभावोक्तिरूपोऽलङ्कारः। कोशः समुच्चयः, गञ्जश्च। सुभाषितैः सूक्तिभिः, शोभनं च भाषितं प्रभाववर्णनं येषां तैः ॥ १३ ॥ सातवाहन ने निर्दोष गुणालङ्कारयुक्त सुभाषितों का एक संग्रह तैयार किया जो विशुद्ध जाति के रत्नों के कोष के समान कभी विनष्ट नहीं होने वाला, वैदग्ध्यपूर्ण हुआ ॥ १३॥ कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ १४ ॥ कीर्तिरिन्यादि । प्रवरसेनः कश्चित्कविः प्रवे प्लुते रसो येषां ते प्रवरसा वानरा- स्तेषामिनः स्वामी, प्रवरा च सेना यस्य स सुग्रीवश्च । कुमुदवत्कैरववत् । यद्वा- कुभूमिस्तस्या मुत् प्रहर्षस्तयेति, कुमुदेन वानरसेनापतिना च । सेतुः प्राकृतका- व्यग्रन्थः, सेतुश्च ॥ १४ ॥ प्रवरसेन नामक कवि की कुमुद के समान उज्ज्वलकीर्ति सेतु (बन्ध) नामक प्राकृतकाव्य के द्वारा समुद्र को पार कर गई, जैसे वानरों की सेना सेतु के द्वारा समुद्र पार पहुँच गई थी ॥ १४ ॥ सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ १५ ॥ सूत्रेत्यादि । सूत्रधारः पूर्वरङ्गस्य प्रवक्ता चार्चिक्यः, स्थपतिश्च । भूमिकाः पात्राणि रामाद्यनुकार्यावस्थाभूमयः, उपभोगनिमित्तान्युत्पत्तिस्थानानि । पताका अर्थप्रकृतिः । उक्तं च—‘बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयो ह्येताः पञ्च सर्वप्रयोगगाः ॥’ इति । ‘यद्वृत्तं तु परार्थं स्यात्प्रधानस्योपकारकम् । प्रधानवच्च कल्पेत सा पताकेति कीर्त्यते ॥’ इति वैजयन्ती च पताका ॥ १५ ॥ भास ने देवमन्दिरों के समान अपने नाटकों से लोक में ख्याति प्राप्त की जिनका आरंभ सूत्रधार करता, जिनमें पात्रों की भूमिकायें (अवस्था) और सहायक कथायें (पताका) रहतीं ॥ १५ ॥ निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥ १६ ॥ निर्गतास्विति । निर्गता उच्चारितमात्राः । आस्तां तावदर्थावगतिः, आपात एव गीतध्वनिवत्किमपि श्रोत्रहारिण्यः । यदुक्तम्—‘अपर्यालोचितेऽप्यर्थे बन्धसौन्दर्य- संपदा । गीतवद्धृदयाह्लादं तद्विदां विदधाति यत् ॥ तत्काव्यम्’ इत्यादि । तथा निर्गताः सर्वदेशप्रतीताः, अन्यत्र—निर्गता अभिनवोद्भिन्नाः न वा कस्येत्यनेनैत- १. भूषिकैः । २. भासा । ३. निसर्गसूरवंशस्य ।